अजिनान्तस्योत्तरपदलोपश्च

5-3-82 अजिनान्तस्य उत्तरपदलोपः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अनुकम्पायाम् मनुष्यनाम्नः कन्

Sampurna sutra

Up

index: 5.3.82 sutra: अजिनान्तस्योत्तरपदलोपश्च


अजिन-अन्तस्य मनुष्यनाम्नः अनुकम्पायामुत्तरपदलोपः, कन् च

Neelesh Sanskrit Brief

Up

index: 5.3.82 sutra: अजिनान्तस्योत्तरपदलोपश्च


अनुकम्पायाम् गम्यमानायामनुकम्पायाः यत् कर्मपदम्, सः शब्दः यदि मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य शब्दस्य उत्तरपदम् 'अजिन' इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे कन्-प्रत्ययः भवति, तथा च तस्य शब्दस्य उत्तरपदस्य लोपः विधीयते ।

Kashika

Up

index: 5.3.82 sutra: अजिनान्तस्योत्तरपदलोपश्च


कनित्यनुवर्तते, मनुस्यनाम्नः इति च। अजिनशब्दान्तात् प्रातिपदिकान् मनुस्यनाम्नोऽनुकम्पायां कन्प्रत्ययो भवति, तस्य च उत्तरपदलोपः। व्याघ्राजिनो नामकश्चिन् मनुस्यः, सोऽनुकम्पितः व्याघ्रकः। सिंहकः।

Siddhanta Kaumudi

Up

index: 5.3.82 sutra: अजिनान्तस्योत्तरपदलोपश्च


अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.82 sutra: अजिनान्तस्योत्तरपदलोपश्च


अनुकम्पायाम् 5.3.76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । यदि एतत् प्रातिपदिकम् मनुष्यस्य नाम्नः निर्देशं करोति, तथा च तस्य उत्तरपदम् 'अजिन' इति विद्यते, तर्हि तस्मात् शब्दात् स्वार्थे औत्सर्गिकं क-प्रत्ययम् (अन्यान् वा यथाप्राप्तान् प्रत्ययान्) बाधित्वा 'कन्' इति प्रत्ययः विधीयते ।

यथा - 'व्याघ्राजिन' नामा कश्चन मनुष्यः अस्तीति चिन्तयामः । कश्चन देवदत्तः एतम् 'व्याघ्राजिनम्' प्रति अनुकम्पां दर्शयति - इत्यपि चिन्तयामः । अस्यां स्थितौ 'व्याघ्राजिन' शब्दात् वर्तमानसूत्रेण 'कन्' प्रत्ययः भवति, तथा च प्रक्रियायाम् 'व्याघ्राजिन' इत्यत्र विद्यमानस्य 'अजिन'शब्दस्य लोपः भवति । यथा -

व्याघ्राजिन + कन्

→ व्याघ्र + क

→ व्याघ्रक

अनुकम्पितः व्याघ्राजिनः सः व्याघ्रकः ।

एवमेव 'अनुकम्पितः व्याघ्रमहाजिनः' सः अपि व्याघ्रकः । अत्र 'व्याघ्रमहाजिन' शब्दस्य उत्तरपदम् (= महाजिन) इत्यस्य लोपं कृत्वा रूपं सिद्ध्यति ।

Balamanorama

Up

index: 5.3.82 sutra: अजिनान्तस्योत्तरपदलोपश्च


अजिनान्तस्योत्तरपदलोपश्च - अजिनान्तस्य । व्याघ्रक इति । 'व्याघ्राजिन' इति कस्यचिन्मनुष्यस्य नाम । तस्मात्कनि अजिनकस्य लोपः । सिंहक इति । सिंहाजिनशब्दात्कनि अजिनस्य लोपः ।

Padamanjari

Up

index: 5.3.82 sutra: अजिनान्तस्योत्तरपदलोपश्च


व्याघ्राजिनो नाम कश्चिदिति। व्याघ्रस्येवाजिनमस्येति कृत्वा। ठजिनलोपश्चऽ इत्युच्यमाने महदजिनं महाजिनम्, व्याघ्रस्येव महाजिनमस्य व्याघ्रमहाजिनः, सोऽनुकम्पित व्याघ्रक इत्यत्र महच्छब्दस्य लोपो न स्यात्; तस्मादुतरपदग्रहणम्। लोपश्चायं सर्वापहारी; उतरपदग्रहणात् ॥