5-3-78 बह्वचः मनुष्यनाम्नः ठच् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अनुकम्पायाम् नीतौ तद्युक्तात्
अनुकम्पायाम् नीतौ तद्युक्तात् बह्वचः मनुष्यनाम्नः ठच् वा
अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन ठच्-प्रत्ययः भवति ।
अनुकम्पायाम्, नीतौ च तद्युक्तादिति वर्तते। बह्वचः प्रातिपदिकाद् मनुष्यनामधेयाद् वा ठच् प्रत्ययो भवत्यनुकम्पायां गम्यमानायां नीतौ च। देविकः, देवदत्तकः। यज्ञिकः, यज्ञदत्तकः। बह्वच इति किम् ? दत्तकः। गुप्तक ः। मनुष्यनाम्न इति किम् ? मद्रबाहुकः। भद्रबाहुकः॥
पूर्वसूत्रद्वयविषये ॥
<<अनुकम्पायाम्>> 5.3.76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । <<नीतौ च तद्युक्तात्>> 5.3.77 इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् वर्तमानसूत्रेण एतयोः द्वयोः एव सन्दर्भयोः ठच्-प्रत्ययः अपि विकल्पेन विधीयते । कानिचन उदाहरणानि पश्यामः - 1. कश्चन देवदत्तः यज्ञदत्तम् प्रति अनुकम्पां प्रदर्शयति - इति चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'यज्ञदत्त' इति अस्ति । अत्र 'यज्ञदत्त' इति मनुष्यस्य नाम अस्ति, तथा च अस्मिन् शब्दे चत्वारः स्वराः विद्यन्ते, अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'ठच्' प्रत्ययः भवति । ठच्-प्रत्यये परे प्रकिया एतादृशी जायते - यज्ञदत्त + ठच् → यज्ञदत्त + ठ [चकारस्य इत्संज्ञा, लोपः] → यज्ञ + ठ [<<ठाजादावूर्ध्वं द्वितीयादचः>> 5.3.83 इत्यनेन अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति] → यज्ञ + इक [<<ठस्येकः>> 7.3.50 इति इक-आदेशः] → यज्ञ् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → यज्ञिक अनेन प्रकारेण 'अनुकम्पितः यज्ञदत्तः' इत्यस्मिन् अर्थे 'यज्ञिक' इति शब्दः प्रयुज्यते । एवमेव 'अनुकम्पितः देवदत्तः = देवकः', 'अनुकम्पितः समीहनः = समीकः' एतादृशाः शब्दाः सिद्ध्यन्ति । 2. कश्चन देवदत्तः यज्ञदत्तं प्रति अनुकम्पां दर्शयित्वा तस्मै 'वायुदत्तः' नाम कश्चन दासः (servant) ददाति - इति चिन्तयामः । अत्र अनुकम्पायाः साधनम् 'वायुदत्त' इति मनुष्यः अस्ति, तथा च अस्मिन् शब्दे चत्वारः अच्-वर्णाः सन्ति अतः अयम् 'बह्वच्' शब्दः अपि अस्ति । अतः अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'ठच्' प्रत्ययः भवति । ठच्-प्रत्यये परे इयम् प्रक्रिया जायते - वायुदत्त + ठच् → वायुदत्त + ठ [चकारस्य इत्संज्ञा, लोपः] → वायु + ठ [<<ठाजादावूर्ध्वं द्वितीयादचः>> 5.3.83 इत्यनेन अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति] → वायु + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति क-आदेशः] → वायुक अनुकम्पायाः साधनम् यः वायुदत्तः , सः वायुकः - इति आशयः । विशेषः - <<ठाजादावूर्ध्वं द्वितीयादचः>> 5.3.83 इत्यनेन उक्तम् कार्यम् प्राकृतिककार्यमस्ति, तथा च ठच्-प्रत्ययस्य आदेशस्य अपेक्षया एतत् नित्यमपि अस्ति। अतः एतत् कार्यम् प्रारम्भे भवति । ततः यद् अङ्गम् जायते, तस्मात् ठकारस्य यथोचितम् 'इक' उत 'क' एतादृशाः आदेशाः भवन्ति । ज्ञातव्यम् - अनेन सूत्रेण उक्तः ठच्-प्रत्ययः विकल्पेन भवति, अतः पक्षे औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'यज्ञदत्तक' , 'वायुदत्तक' एते प्रातिपदिके अपि जायेते । तथा च विकल्पेन <<घनिलचौ च>> 5.3.79 इत्यनेन 'घन्' तथा 'इलच्' एतौ प्रत्ययौ कृत्वा 'यज्ञिक' / 'यज्ञिल' / 'वायविय' / 'वायविल' एतानि प्रातिपदिकानि अपि अस्मिन्नेव सन्दर्भे सिद्ध्यन्ति ।
<<बह्वचो मनुष्यनाम्नष्ठज्वा>> - बह्वचो मनुष्य ।ठ॑जिति च्छेदः पूर्वसूत्रद्वयविषये इति शेषपूरणम् ।अनुकम्पाया॑मितिनीतौ च तद्युक्ता॑दिति च सूत्रद्वयविषये बह्वचो मनुष्यनाम्नः प्रातिपदिकाट्ठज्वा स्यादित्यर्थः । पक्षे कः ।
प्रकरणमपेक्ष्यते, न त्वनन्तरमित्याह - अनुकम्पायां नीतौ च तद्यौक्तादिति वर्तत इति। मद्रबाहुक इति। नामग्रहणस्येदं प्रत्युदाहरणम्, यौगिकोऽयम् - मद्रौ बाहू यस्येति। मनुष्यग्रहणस्य तु स्तम्बेरमादिः प्रत्युदाहरणम्। अपर आह - मद्रबाहुरिति चतुष्पाज्जातिविशेषो मनुष्यग्रहणस्य प्रत्युदाहरणम्, नामग्रहणस्य त्वौपगवादिः प्रत्युदाहरणमिति॥