जातिनाम्नः कन्

5-3-81 जातिनाम्नः कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अनुकम्पायाम् नीतौ मनुष्यनाम्नः

Sampurna sutra

Up

index: 5.3.81 sutra: जातिनाम्नः कन्


अनुकम्पायाम् नीतौ तद्युक्तात् मनुष्यनाम्नः जातिनाम्नः कन् वा

Neelesh Sanskrit Brief

Up

index: 5.3.81 sutra: जातिनाम्नः कन्


अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य नाम तथा जातिवाचकः शब्दः अस्ति, तर्हि तस्मात् स्वार्थे विकल्पेन कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.81 sutra: जातिनाम्नः कन्


बह्वचः इति न अनुवर्तते। सामान्येन विधानम्। जातिशब्दो यो मनुस्यनामधेयो व्याघ्र सिंह इत्येवमादिः, तस्मादनुकम्पायां नीतौ च कन्प्रत्ययो भवति। व्याघ्रकः। सिंहकः। शरभकः। वावचनानुवृत्तेर्यथादर्शनमन्योऽपि भवति। व्याघ्रिलः। सिंहिलः। नामग्रहणं स्वरूपनिवृत्त्यर्थम्।

Siddhanta Kaumudi

Up

index: 5.3.81 sutra: जातिनाम्नः कन्


मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ।<!द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः !> (वार्तिकम्) ॥ अनुकम्पितः कहोडः । कहिकः । ।<!एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः !> (वार्तिकम्) ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः षडिक इति ।<!षषष्ठाजादिवचनात्सिद्धम् !> (वार्तिकम्) ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.81 sutra: जातिनाम्नः कन्


अनुकम्पायाम् 5.3.76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । नीतौ च तद्युक्तात् 5.3.77 इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् जातिवाचकमस्ति परन्तु तेन मनुष्यस्य नाम्नः निर्देशः अपि क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः वर्तमानसूत्रेण कन्-प्रत्ययः विकल्पेन भवति । पक्षे अन्ये अपि प्रत्ययाः यथायोग्यम् भवितुमर्हन्ति ।

कानिचन उदाहरणानि पश्यामः -

  1. 'व्याघ्रः' इति कस्यचन मनुष्यस्य नाम अस्तीति चिन्तयामः । कश्चन देवदत्तः नाम मनुष्यः एतम् व्याघ्रम् प्रति अनुकम्पां प्रदर्शयति - इत्यपि चिन्तयामः । अत्र अनुकम्पायाः कर्मपदम् 'व्याघ्र' इति अस्ति । अयम् 'व्याघ्र'शब्दः अत्र मनुष्यस्य नाम्नः निर्देशं करोति, परन्तु अयम् जातिवाचकः शब्दः अपि अस्ति (The word indicates the name of the person as well as name of a species of animals) । अस्यां स्थितौ अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'कन्' इति प्रत्ययः विधीयते, येन 'व्याघ्रक' इति प्रातिपदिकं सिद्ध्यति । अनुकम्पितः व्याघ्रः सः व्याघ्रकः ।

एवमेव - अनुकम्पितः 'सिंहः' नामा मनुष्यः सः सिंहकः ।

  1. कश्चन देवदत्तः कस्मैचित् यज्ञदत्ताय अनुकम्पया 'शरभ' नामा कश्चन मनुष्यः दासरूपेण ददाति - इति चिन्तयामः । Devdadatta, out of his compassion towards Yajnadatta, gifts him a servant named Sharabha. अत्र 'शरभ' इतिशब्दः अत्र मनुष्यस्य नाम्नः निर्देशं करोति, परन्तु अयम् जातिवाचकः शब्दः अपि अस्ति (The word Sharabha indicates species of an insect) । अस्यां स्थितौ अस्मात् शब्दात् वर्तमानसूत्रेण स्वार्थे 'कन्' इति प्रत्ययः विधीयते, येन 'शरभक' इति प्रातिपदिकं सिद्ध्यति । अनुकम्पायाः साधनम् यः शरभः, सः शरभकः ।

एवमेव - अनुकम्पायाः साधनम् यः रासभः, सः रासभकः ।

ज्ञातव्यम् - अनेन सूत्रेण विहितः कन्-प्रत्ययः विकल्पेन विधीयते, अतः अन्यैः सूत्रैः अन्ये प्रत्ययाः अपि अस्मिन्नेव सन्दर्भे भवितुमर्हन्ति । यथा - 'अनुकम्पितः शरभः' इत्यत्र 'शरभ'शब्दात् स्वार्थे -

[अ] घनिलचौ च 5.3.79 इत्यनेन घन्/इलच्-प्रत्ययौ कृत्वा 'शरिय' तथा 'शरिल' एते शब्दाः सिद्ध्यन्ति ।

[आ] बह्वचो मनुष्यनाम्नष्ठज्वा 5.3.78 इत्यनेन 'ठच्' प्रत्ययं कृत्वा 'शरिक' अयम् शब्दः सिद्ध्यति ।

[इ] औत्सर्गिकरूपेण 'क'प्रत्ययं कृत्वा 'शरभक' इति शब्दः अपि सिद्ध्यति ।

विशेषः - 'क' प्रत्ययं कृत्वा अपि तदेव रूपं सिद्ध्यति यत् वर्तमानसूत्रेण 'कन्' प्रत्ययं कृत्वा सिद्ध्यति । परन्तु द्वयोः रूपयोः स्वरभेदः विद्यते । कन्-प्रत्यये विद्यमानः नकारः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन समुदायस्य आदिस्वरस्य उदात्तत्वम् बोधयति । 'क' प्रत्ययस्य विषये तु प्रत्ययस्य आदिस्वरः आद्युदात्तश्च 3.1.3 इत्यनेन उदात्तत्वं प्राप्नोति । एतम् भेदम् दर्शयितुमेव अस्य सूत्रस्य निर्माणम् कृतमस्ति ।

Balamanorama

Up

index: 5.3.81 sutra: जातिनाम्नः कन्


जातिनाम्नः कन् - जातिनाम्नः कन् । जातिशब्दो य इति । यो जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः ।अनुकम्पाया॑मिति 'नीतौ' इति च सूत्रद्वयविहितस्याऽपवादः । द्वितीयं सन्ध्यक्षरं चेदिति ।एचः सन्ध्यक्षराणी॑ति प्राचामाचार्याणां प्रवादः । कहोड इति । ऋषिविशेषस्य नामेदम् । अत्र द्वितीयोऽच् सन्ध्यक्षरं, तदादेर्लोपो, नतु तदूध्र्वस्यैव । एकाक्षरेति । व्यञ्जनसहित एकोऽच — एकाक्षरम् । एकाच्कमिति यावत् । तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषां मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः । इह उत्तरपदशब्दो यौगिकः, नतु समासस्य चरमावयवे रूढो, व्याख्यानात् ।द्वितीयादच ऊध्र्व॑मित्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्ते वचनमिदम् । वागाशीर्दत्त इति । वाचि आशीर्यस्य नतु मनस्येव स वागाशीः । तेन दत्त इति विग्रहः । यद्वा आशासनमाशीः, वाचा आशीः — वागाशीः ।कर्तृकरणे कृते॑ति समासः । तया वागाशिषा दत्त इति विग्रहः । वाक्करणकाशासनेन दत्त इत्यर्थः । वाचिक इति । वागाशीर्दत्तशब्दाट्ठचि वागित्येकाक्षरपूर्वपदात्परयोराशीर्दत्तशब्दयोर्लोपे सति अन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेन पदत्वबाधान्निवृत्तौ वाचिक इति रूपमिति केचित् । वस्तुतस्तु ठचि इकादेशात्प्राक्ठावस्थायामेव उत्तरपदलोपे कर्तव्येऽसिद्धत्वान्न पूर्वं कुत्वादिप्रवृत्तिरित्याहुः । यद्यपि द्वितीयादच ऊध्र्वस्य 'शीर्दत्त' शब्दस्य लोपे वागा-इक इति स्थितेयस्येति चे॑त्याकारलोपे उक्तरीत्या कुत्वजश्त्वयोर्निर्वृत्तौ 'वाचिक' इति सिध्यति, तथापि आकारलोपस्य स्थानिवत्त्वेन आकारान्तस्य इकमाश्रित्य भत्वे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्याऽव्याघातात्कुत्वजश्त्वयोः 'वागिक' इति स्यात् । उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाऽभावात्तुल्यावधिकया भसंज्ञयासुप्तिङन्त॑मिति पदसंज्ञा बाध्यतेस, एकसंज्ञाधिकारे परत्वादिति भावः । कथमिति । अत्रापि अङ्गुलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितभत्वेन पदत्वाऽभावाज्जश्त्वं दुर्लभमिति प्रश्नः । षष इति । षष्शब्दस्य पूर्वपदत्वे 'ठाजादौ' इति सूत्रसिद्धो द्वितीयादच ऊध्र्वस्यैव लोपो, न त्वयमुत्तरपदलोप इति वचनात्षडिक इति सिद्धमित्यर्थः । एवंच 'षडङ्गुलिदत्त' इत्यत्र डकाराऽकारादूध्र्वस्य लोपे सति डकाराऽकारस्ययस्येति चे॑ति लोपे सति तस्य स्थानिवत्त्तवेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाऽव्याघाताज्जश्त्वं निर्बाधमिति भावः । स्पष्टं चेदं 'स्वादिषु' इति सूत्रे भाष्ये ।

Padamanjari

Up

index: 5.3.81 sutra: जातिनाम्नः कन्


यो शब्दा जात्यन्तरे प्रसिद्धा मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम्। जातिरेव नाम, जातिर्वा नामौजातिनाम। व्याघ्रिय इति। अनेकार्थत्वान्निपातानामनुवृतस्य वाशब्दस्य समुच्चयार्थत्वाद् घनिलचौ भवतः। ये तु विकल्पार्थमेव वाशब्दं मन्यनते, ते कं प्रत्युदाहरन्ति - व्याध्रकाः, सिंहका इति। स्वरे विशेषः। घनिलचोस्तु शरभिल इत्याद्यौदाहरणम् ॥