5-3-80 प्राचाम् उपादेः अडज्वुचौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अनुकम्पायाम् नीतौ तद्युक्तात् मनुष्यनाम्नः मनुष्यनाम्नः ठच् वा घनिलचौ
index: 5.3.80 sutra: प्राचामुपादेरडज्वुचौ च
अनुकम्पायाम् नीतौ तद्युक्तात् उपादेः बह्वचः मनुष्यनाम्नः प्राचाम् अडच्-वुचौ च
index: 5.3.80 sutra: प्राचामुपादेरडज्वुचौ च
अनुकम्पायाम् गम्यमानायामनुकम्पायाः कर्मपदम्, तथा च नीतिपूर्वक-अनुकम्पायाम् गम्यमानायामनुकम्पायाः साधनम् - एतेषु किञ्चन यदि मनुष्यस्य 'उप' इत्यनेन प्रारभ्यमाणम् नाम तथा च बह्वच् अस्ति, तर्हि तस्मात् स्वार्थे प्राचाम् वैयाकरणानाम् मतेन विकल्पेन 'अडच्' तथा 'वुच्' प्रत्ययौ भवतः ।
index: 5.3.80 sutra: प्राचामुपादेरडज्वुचौ च
पूर्ववत् सर्वमनुवर्तते। उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुस्यनाम्नः। अडच्वुच्प्रत्ययौ भवतः। चकाराद् घनिलचौ प्रत्ययौ भवतः ठच् च वा। उपडः, उपकः, उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः। प्राचांग्रहणं पूजार्थम्। वा इत्येव हि वर्तते।
index: 5.3.80 sutra: प्राचामुपादेरडज्वुचौ च
उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥
index: 5.3.80 sutra: प्राचामुपादेरडज्वुचौ च
अनुकम्पायाम् 5.3.76 इत्यनेन सूत्रेण अनुकम्पायाम् गम्यमानायाम् तस्य कर्मपदात् प्रातिपदिकात् स्वार्थे 'क' प्रत्ययविधानम् भवति । नीतौ च तद्युक्तात् 5.3.77 इत्यनेन अनुकम्पायाम् गम्यमानायाम् 'नीतिमनुसृत्य प्रयुक्तम् यत् साधनम्', तस्मात् स्वार्थे 'क'प्रत्ययः विधीयते । यदि उभयत्र विहितम् प्रातिपदिकम् बह्वच् अस्ति (इत्युक्ते तस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति), तथा च तेन प्रातिपदिकेन मनुष्यस्य नाम्नः निर्देशः क्रियते, तर्हि तस्मात् प्रातिपदिकात् एतयोः द्वयोः एव सन्दर्भयोः बह्वचो मनुष्यनाम्नष्ठज्वा 5.3.78 इत्यनेन ठच्-प्रत्ययः , तथा च घनिलचौ च 5.3.79 इत्यनेन 'घन्' तथा 'इलच्' प्रत्ययौ - एते सर्वे विकल्पेन विधीयन्ते । अस्मिन्नेव सन्दर्भे यदि प्रकृतिः (= मनुष्यस्य बह्वच् नाम) 'उप' इत्यनेन प्रारभ्यते, तर्हि तस्मात् स्वार्थे 'अडच्' तथा 'वुच्' एतौ द्वौ प्रत्ययौ वर्तमानसूत्रेण विधीयेते ।
उदाहरणद्वयम् पश्यामः -
उपेन्द्रदत्त + अडच् / वुच्
→ उपेन्द्रदत्त + अडच् + अक [इत्संज्ञालोपः । युवोरनाकौ 7.1.1 इति 'वु' इत्यस्य 'अक' आदेशः ।]
→ उप + अडच् / अक [ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यनेन अजादिप्रत्यये परे अङ्गे विद्यमानात् द्वितीयात् अच्-वर्णात् अग्रे विद्यमानस्य खण्डस्य लोपः भवति । अत्र यद्यपि द्वितीयः अच्-वर्णः 'ए' इति अस्ति, तथापि इदम् सन्ध्यक्षरमस्ति, अतः ठाजादावूर्ध्वं द्वितीयादचः 5.3.83 इत्यत्र पाठितेन <!द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः!> अनेन वार्त्तिकेन तस्य छेदं कृत्वा 'अ + इ' इति प्राप्ते 'अ' इत्येव द्वितीयं स्वरं मत्त्वा तस्मात् अग्रे विद्यमानस्य खण्डस्य लोपः क्रियते । अस्मिन् विषये नागेशेन कश्चन अन्यः पक्षः लघुशब्देन्दुशेखरे उक्तः अस्ति, जिज्ञासुभिः सोऽपि द्रष्टव्यः]
→ उप् + अड / अक [यस्येति च 6.4.148 इति अकारलोपः]
→ उपड / उपक
अनुकम्पायाः साधनम् यः उपेन्द्रदत्तः , सः उपडः उपकः वा - इति आशयः ।
ज्ञातव्यम् - अनेन सूत्रेण उक्तौ प्रत्ययौ विकल्पेन भवतः । पक्षे -
[अ] बह्वचो मनुष्यनाम्नष्ठज्वा 5.3.78 इत्यनेन वैकल्पिकं ठच्-प्रत्ययं कृत्वा 'उपिक' इति शब्दः सिद्ध्यति ।
[आ] घनिलचौ च 5.3.79 इत्यनेन वैकल्पिकं घन्/ इलच् प्रत्ययौ कृत्वा 'उपिय' / 'उपिल' एतौ शब्दौ अपि भवतः ।
[इ] औत्सर्गिकम् क-प्रत्ययं संस्थाप्य 'उपेन्द्रदत्तक' इति अपि शब्दः सिद्ध्यति ।
अनेन प्रकारेण 'अनुकम्पितः उपेन्द्रदत्तः' उत 'अनुकम्पायाः साधनमुपेन्द्रदत्तः' एतेषु सन्दर्भेषु 'उपड / उपक / उपिक / उपिय / उपिल / उपेन्द्रदत्तक' एते षट् शब्दाः सिद्ध्यन्ति ।
विशेषः - अस्मिन् सूत्रे 'प्राचाम्' इत्यनेन कृतः 'पूर्वदिशि विद्यमानानाम् वैयाकरणानाम् निर्देशः' पूजार्थम् / आदरार्थमस्ति । पूर्वसूत्रात् अत्र 'वा' इत्यनुवर्तते, अतः अत्र 'प्राचाम्' इत्यस्य पदस्य प्रयोगः आचार्येण विकल्पार्थम् नैव कृतः अस्ति ।
index: 5.3.80 sutra: प्राचामुपादेरडज्वुचौ च
प्राचामुपादेरडज्वुचौ च - प्राचामुपादेरडज्वुचौ च । पूर्वविषये इति ।बह्वचो मनुष्यनाम्नः॑ इति सूत्रविषये इत्यर्थः । चाद्यथाप्राप्तमिति । ठच्, धन्, इलच्चेत्यर्थः । ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचाङ्ग्रहणं व्यर्थमित्यत आह — प्राचाङ्ग्रहणमिति । उपड इति उपेन्द्रदत्तशब्दादडचिद्वितीयं सन्ध्यक्षर॑मिति वक्ष्यमाणेन एकारादेर्लोप इति केचित् ।नेन्द्रस्य परस्ये॑ति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे । उपक इति । वुचि अकादेशे एकारादिलोपे रूपम् । उपिय इति । घनि रूपम् । उपिल इति । इलचि रूपम् । उपिक इति । ठचि रूपम् । उपेन्द्रदत्तक इति । कप्रत्यये रूपम् । ठाजाद्यभावाल्लोपो न ।