5-3-68 विभाषा सुपः बहुच् पुरस्तात् तु प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः ईषदसमाप्तौ
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
ईषद्-असमाप्तौ सुपः पुरस्तात् विभाषा बहुच्, कल्पप्-देश्य-देशीयरः
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
'किञ्चित् न्यूनम्' अस्मिन् सन्दर्भे सुबन्तशब्दस्य अग्रे विकल्पेन 'बहुच्' इति प्रत्ययः विधीयते ।
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
ईषदसमाप्तिविशेष्टेऽर्थे वर्तमानात् सुबन्तात् विभषा बहुच् प्रत्ययो भवति। स तु पुरस्तादेव भवति, न परतः। चित्करणमन्तोदात्तार्थम्। ईषदसमाप्तः पटुः बहुपटुः। बहुमृदुः। बहुगुडो द्राक्षा। विभाषावचनात् कल्पबादयोऽपि भवन्ति। सुब्ग्रहणं तिङन्तान् मा भूदिति।
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम्? जयतिकल्पम्॥
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
'सम्पूर्णतायाः किञ्चित् अभावः' अस्मिन् सन्दर्भे ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 5.3.67 इत्यनेन कल्पप्, देश्य, देशीयर् - एते प्रत्ययाः उक्ताः सन्ति । एतस्मिन्नेव सन्दर्भे सुबन्तशब्दस्य अग्रे 'बहुच्' इति प्रत्ययः वर्तमानसूत्रेण विधीयते ।
यथा -
ईषद् पटुः
= बहुच् + पटुः
= बहु + पटु [सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुँलोपः]
→ बहुपटु ।
यथा - अयम् देवदत्तः बहुपटुः । Devadatta is almost an expert, but not completely - इति आशयः ।
ज्ञातव्यम् - पक्षे ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 5.3.67 इत्यनेन कल्पप्, देश्य, देशीयर् - एते प्रत्ययाः अपि भवन्ति । यथा - अयम् देवदत्तः पटुकल्पः पटुदेश्यः पटुदेशीयः वा ।
यथा - अयम् देवदत्तः बहुपटुः पटुकल्पः पटुदेश्यः पटुदेशीयः वा
विशेषः - 'बहुच्' इति प्रत्ययः सुबन्तस्य प्रारम्भे विधीयते इति स्मर्तव्यम् । अस्य निर्देशार्थम् एव अस्मिन् सूत्रे 'पुरस्तात्' इति उक्तमस्ति ।
ज्ञातव्यम् -
'सम्पूर्णतायाः किञ्चित् अभावः' अस्मिन् सन्दर्भे ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 5.3.67 इत्यनेन उक्ताः कल्पप्, देश्य, देशीयर - एते प्रत्ययाः तिङन्तेभ्यः अपि विधीयन्ते । परन्तु वर्तमानसूत्रेण उक्तः 'बहुच्' प्रत्ययः केवलम् सुबन्तात् एव भवति, न हि तिङन्तात् । एतस्य निर्देशार्थमेव अस्मिन् सूत्रे 'सुपः' इति निर्देशः क्रियते ।
यद्यपि प्रायः सर्वे प्रत्ययाः परश्च 3.1.2 इत्यनेन प्रकृत्याः अनन्तरम् विधीयन्ते, तथाप्यत्र पाठितः 'बहुच्' इति प्रत्ययः 'पुरस्तात्' इति निर्देशसामर्थ्यात् प्रकृतेः प्रारम्भे एव भवति, अनन्तरम् न । तथा च, यद्यप्यत्र प्रत्ययः प्रारम्भे विधीयते, तथापि अस्य प्रयोगेण निर्मितः शब्दः 'तद्धितान्तः' इत्यनेनैव निर्दिश्यते, न हि 'तद्धितादिः' इत्यनेन ।
अस्मिन् सूत्रे 'ईषद्-असमाप्तिः' इति शब्दः अनुवर्तते । अत्र 'ईषद्' इत्युक्ते 'किञ्चित्' (slight / a little) , तथा 'समाप्तिः' इत्युक्ते 'सम्पूर्णता' (completeness) । 'सम्पूर्णतायाः किञ्चित् अभावः' (A little below the completion) अस्य निर्देशार्थमत्र 'ईषद्-असमाप्तिः' इति प्रयोगः कृतः अस्ति ।
'बहुच्'-प्रत्ययेन निर्मिताः शब्दाः 'समस्तपदानि सन्ति' इति भासते, परन्तु तादृशम् नास्ति इति स्मर्तव्यम् । यथा, अत्र निर्मितः बहुपटुः' इति शब्दः 'बहुच्'प्रत्ययान्तः अस्ति, न हि 'बहु + पटु' इत्यनेन निर्मितम् समस्तपदम् ।
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
विभाषा सुपो बहुच् पुरस्तात्तु - विभाषा । ईषदसमाप्तावित्यनुवर्तते । तदाह — ईषदसमाप्तिविशिष्ट इति । प्रागेवेति । सूत्रे तुशब्दोऽवधारणे इति भावः । बहुपटुरिति । पटुशब्दात्सुबन्तात्प्राग्बहुचि कृते प्रातिपदिकावयवत्वात्सुपो लुकि समुदायात्पुनः सुबुत्पत्तिः । नच तद्धितान्तत्वाऽभावात्समासत्वाऽभावाच्च पूर्वोत्पन्नसुब्विशिष्टस्य प्रातिपदिकत्वाऽभावात्कथमिह लुगिति वाच्यम्,अर्थव॑दित्यनेन तस्य प्रातिपदित्वसत्त्वात् । पटुरित्यस्य पूर्वोत्पन्नसुप्प्रत्ययान्तत्वेऽपिबहुपटु॑रिति समुदायस्य प्रत्ययान्तत्वाऽभावात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात् । नचैवं सतिकृत्तद्धिते॑त्यत्र समासग्रहणं व्यर्थमिति वाच्यं,पदघटितसङ्घातस्य चेत्प्रातिपदिकसंज्ञा तर्हि समासस्यैवे॑ति नियमार्थत्वात् । नचैवं सति प्रकृतेबहुपटु॑रिति समुदायस्य पूर्वोत्पन्नसुब्विशिष्टस्य कथं प्रातिपदिकत्वम्, असमासत्वादिति वाच्यं,यत्र सङ्घाते पूर्वो भागः पदं तस्य चेत्प्रातिपदिकसंज्ञातर्हि समासस्यैवे॑ति नियमशरीराभ्युपगमादिति प्रागुक्तं न विस्मर्तव्यम् । न चसमर्थाना॑मिति सूत्रे वाग्रहणादेव सिद्धे विभाषाग्रहणं व्यर्थमिति वाच्यं, बहुजभावपक्षे पूर्वसूत्रविहितकल्पबाद्यर्थत्वात् । अन्यथामहाविभाषया अपवादेन मुक्ते उत्सर्गस्य न प्रवृत्ति॑रिति सिद्धान्ताद्बहुजभावे वाक्यमेव स्यात् । नच कल्पबादीनां बहुचा समानविषयकत्वान्निरवकाशत्वं शङ्क्यं, तेषां तिङन्ते सावकाशत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — पटुकल्प इति । ननु लुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुब्ग्रहणं व्यर्थमिति पृच्छति — सुपः किमिति ।तिङ्श्चे॑त्यनुवृत्तिनिवृत्त्यर्थं सुब्ग्रहणम् । नच अस्वरितत्वादेव तदनुवृत्तिर्न भविष्यतीति वाच्यम्,अव्ययसर्वनाम्ना॑मित्याद्युत्तरसूत्रेतिङ्श्चे॑त्यनुवृत्तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याह — यजतिकल्पमिति । तुग्रहणं तुस्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तते, क्वचिदतिवर्तन्ते॑ इति ज्ञापनार्थमिति भाष्ये प्रपञ्चितम् ।
index: 5.3.68 sutra: विभाषा सुपो बहुच् पुरस्तात्तु
ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानादिति। ल्यब्लोप एषा पञ्चमी। एवम्भूतं सुबन्तं प्रकृतित्वेनाश्रित्येत्यर्थः। सूत्रे तु'सुपः' इति'षष्ठ।ल्तसर्थप्रत्ययेन' इति षष्ठी। स च पुरस्तादेवेति। एतेनानेकार्थत्वान्निपातानाम्'तुशब्दो' वधारणे वर्ततेऽ इति दर्शयति। असति तु तुशब्दे प्रत्ययात् पूर्वत्वस्यापि विधेयतया प्राधान्याद्विभाषाग्रहणेन सम्बन्धः स्यादिति भावः। भाष्यकारस्तु मन्यते - ठुदश्वितोऽन्यतरस्याम्ऽ इत्यादौ यथा परत्वं न विकल्पते, तत्कस्य हेतोः? प्रत्यय एव परत्वविशिष्टो विधीयते, तत्र विशेषणस्य गुमत्वाद्विकल्पेन न सम्बन्धः, गुणानां च परार्थत्वादिति न्यायात्; तद्वदिहापि विभाषाग्रहणेन बहुजेव सम्भन्त्स्यते, न पुरस्तादित्येतत्। तुशब्दस्य त्ववधारणार्थस्यान्यदेव प्रयोजनम् - पुरस्तादेव सर्वं भवतीति। तेन लिङ्गसंख्ये अपि प्राक्प्रत्ययोत्पतेःक प्रकृत्यवस्थायां ये दृष्टे ते एव भवतः। प्रयोगश्च प्राक् कृतेर्भवतीति। तेन बहुगुडो द्राक्षा, लघुर्बहुतृणं नर इति प्रकृतिवल्लिङ्गं भवति, नाभिधेयवत्। एवं च बहुगुडेति स्त्रीलिङ्गपाठः प्रमादजो द्रष्टव्यः; इतरथा भाष्यविरोधात्। ननु च स्वार्थिकत्वादेव प्रकृतितो लिङ्गवचने भविष्यतः, एवं तर्ह्येतज्ज्ञापयति - ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने भवत इति। तेन गुडकल्पा द्रक्षा,तैलकल्पा प्रसन्नेति सिद्धं भवति। चित्करणमन्तोदातार्थमिति। तच्चान्तोदातत्वं सप्रकृतेः समुदायस्य भवति, न बहुचः; चितः सप्रकृतेर्बह्वकजर्थमिति वचनात्। यद्येवम्, बहुपटव इति सुबन्तस्य पुरस्तादुत्पतौ जस उदातत्वं प्राप्नोति? स्यादेवम्, यदि प्रागुत्पन्नो जसवतिष्ठेत; इह तु बहुच्युत्पन्ने समुदायस्येषदसमाप्तिलक्षणेनार्थवत्वात्प्रातिपदिकत्वे सति'सुपो धातुप्रातिपदिकयोः' इति लुकि पुनरपरो जसुत्पद्यते, तस्य च प्रकृत्यनेकदेशत्वान्नोदातत्वम्। ननु समासग्रहणस्य नियमार्थत्वात्प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमप्रत्ययैति प्रतिषेधं शास्ति, तज्ज्ञापयति - भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा, न तु समासग्रहणेन व्यावृत्तिरिति। विभाषावचनादित्यादि। अन्यथा तिङ्न्तेषु सावकाशाः कल्पबादयः सुबन्ते विशेषविहितेन बहुचा देशभेदेऽपि समानार्थेन बाध्येरन्। सुब्ग्रहणमित्यादि। अन्यथा'तिङ्स्च' इत्यधिकारात्कल्पबादिवद्बहुजपि तिङ्न्तस्यापि पुरस्तात्स्यात्। प्रातिपदिकनिवृत्यर्थं तु सुब्ग्रहणं न भवति; विशेषाबावात्। ननु चायमस्ति विशेषः - बहुसेचौः, बहुसेचः, सुबन्तादुत्पतौ सत्याम्'सात्पदाद्योः' इति षत्वनिषेधः सिद्ध्यति, प्रातिपदिकातूत्पतौ षत्वप्रसह्गः? नैष दोषः, सुबन्तादप्युत्पताववश्यमत्र कुत्वनिषेदार्थो यत्नः कर्तव्यः, स एव प्रातिपदिकादुत्पतौ ष्ट्वनिषेदार्थः करिष्यते। स च'न लुमताङ्गस्य' इत्यत्रैव दर्शितः, इह तरप्तमपोरवकाशः प्रकर्षस्य वचनमीषदसमाप्तेरवचनम् - पटुअतरः, पटुअतमः, कल्पबादीनामवकाश ईषदसमाप्तेर्वचनं प्रकर्षस्यावचनम् - पटुअकल्पः, मृदुकल्पः; उभयवचनादुभयप्रसङ्गे परत्वात्कल्पबादिषु कृतेषु प्रकर्षद्योतनाय पुनःप्रसङ्गविज्ञानातदन्तातरप्तमपौ भवतः - पटुअकल्पतरः, मृदुकल्पतर इति। यदि यदन्ताद्भवन्तौ यत्प्रधानस्तदन्तस्तत्प्रकर्षे प्राप्नुतः, किंप्रधानश्च तदन्तः? ईषदसमाप्तिप्रधानः, प्रकृत्यर्थप्रकर्षे चेष्यते? नैष दोषः, नेषदसमाप्तेः प्रकर्षः सम्भवति, न हीषदर्थस्यासमाप्तेर्वा प्रकर्षे ईषदसमाप्तिर्भवति ॥