5-3-72 कस्य च दः प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः अकच् प्राक्
कस्य अकच् (सन्नियोगेन) दः
अकच्-प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति ।
ककारान्तस्य प्रातिपदिकस्याकच्सन्नियोगेन दकारादेशो भवति। चकारः सन्नियोगार्थः। सामर्थ्याच्चाव्ययग्रहणमनुवर्तते, न सर्वनामग्रहणम्, ककारान्तस्य सर्वनाम्नोऽसंभवात्। धिक् — धकित्। हिरुक् — हिरकुत्। पृथक् — पृथकत्॥
कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥
<<अव्ययसर्वनाम्नामकच् प्राक् टेः>> 5.3.71 इत्यनेन अव्ययानाम् विषये प्राग्-इवीयेषु सन्दर्भेषु 'अकच्' इति प्रत्ययः स्वार्थे विधीयते ।अस्य प्रत्ययस्य सन्नियोगेन ककारान्तस्य अङ्गस्य दकारादेशः भवति । उदाहरणानि एतानि - 1. धिक् + अकच् [ <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = ध् + अकच् + इक् → ध् + अक् + इक् [इत्संज्ञालोपः] → धक् + इद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → धकिद् → धकिद् / धकित् [सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> 2.4.82 इति लोपे कृते पदसंज्ञायां विद्यमानायाम् <<वाऽवसाने>> 8.4.56 इति वैकल्पिकं चर्त्वम्] 2. हिरुक् + अकच् [ <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = हिर् + अकच् + उक् → हिर् + अक् + उक् [इत्संज्ञालोपः] → हिर् + अक् + उद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → हिरकुद् → हिरकुत् / हिरकुद् [सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> 2.4.82 इति लोपे कृते पदसंज्ञायां विद्यमानायाम् <<वाऽवसाने>> 8.4.56 इति वैकल्पिकं चर्त्वम्] 3. पृथक् + अकच् [ <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> इत्यनेन स्वार्थे टेः प्राक् अकच्-प्रत्ययः भवति ।] = पृथ् + अकच् + अक् → पृथ् + अक् + अक् [इत्संज्ञालोपः] → पृथ् + अक् + अद् [वर्तमानसूत्रेण ककारस्य दकारादेशः] → पृथकद् → पृथकद् / पृथकत् [सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> 2.4.82 इति लोपे कृते पदसंज्ञायां विद्यमानायाम् <<वाऽवसाने>> 8.4.56 इति वैकल्पिकं चर्त्वम्] ज्ञातव्यम् - <<अव्ययसर्वनाम्नामकच् प्राक् टेः>> 5.3.71 इत्यनेन विहितः 'अकच्' प्रत्ययः अव्ययेभ्यः, सर्वनामशब्देभ्यः तथा च तिङन्तेभ्यः उक्तः अस्ति । परन्तु तिङन्तशब्दाः सर्वनामशब्दाः च 'क्' इत्यनेन न समाप्यन्ते, अतः अस्य सूत्रस्य प्रयोगः केवलमव्ययानाम् विषये एव भवति ।
<<कस्य च दः>> - कस्य च दः । पूर्वसूत्रेअव्ययसर्वनाम्ना॑मिति समासनिर्देशेऽपि एकादेशे स्वरितत्वप्रतिज्ञाबलादव्ययग्रहणमेवात्राऽनुवर्तते ।कस्ये॑त्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेनाऽव्ययस्य विशेषणात्तदन्तविधिः । तदाह — कान्ताव्ययस्येति । अकच्चेति । चकारेण तदनुकर्षादिति भावः । एतेन अकच्संनियोगशिष्ट एवाऽयं दकार इत्युक्तं भवति । अयमपि प्रागिवादधिकारः ।
न सर्वनामग्रहणमिति। तदिङ्ग्रहणं चेति द्रष्टव्यम्; हेतोस्तुल्यत्वात्। अधोक्, अवक् इत्यादावसिद्धं कुत्वम्। शक्नोतिप्रभृतेर्यङ्लुकि लटि तिपीडभावे हल्ङ्यादिलोपे अशाशगित्यादौ छान्दसो यङे लुक्, च्छन्दसि च दृष्टानुविधानम्। धिगिति। ककारान्तत्वमव्ययस्य दर्शयति ॥