द्वित्र्योश्च धमुञ्

5-3-45 द्वित्र्योः च धमुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः धा अन्यतरस्याम्

Sampurna sutra

Up

index: 5.3.45 sutra: द्वित्र्योश्च धमुञ्


द्वि-त्र्योः धः धमुञ् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

index: 5.3.45 sutra: द्वित्र्योश्च धमुञ्


'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य 'धा' प्रत्ययस्य विकल्पेन 'धमुञ्' इति आदेशः भवति ।

Kashika

Up

index: 5.3.45 sutra: द्वित्र्योश्च धमुञ्


धा इत्यनुवर्तते। द्वित्र्योः सम्बन्धिनो धाप्रत्ययस्य विधार्थे अधिकरणविचाले च विहितस्य धमुञादेशो भवति अन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्विधा, द्वैधम्। त्रिधा, त्रैधम्। धमुञन्तात् स्वार्थे डदर्शनम्। मतिद्वैधानि संश्रयन्ते। मतित्रैधानि संश्रयन्ते।

Siddhanta Kaumudi

Up

index: 5.3.45 sutra: द्वित्र्योश्च धमुञ्


आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ।<!धमुञन्तात्स्वार्थे डदर्शनम् !> (वार्तिकम्) ॥ पथि द्वैधानि तृणानि ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.45 sutra: द्वित्र्योश्च धमुञ्


संख्याया विधार्थे धा 5.3.42 तथा अधिकरणविचाले च 5.3.43 एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'धमुञ्' इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी -

द्वि / त्रि + धा

→ द्वि / त्रि + धमुञ् ['धा' इत्यस्य 'धमुञ्' आदेशः ]

→ द्वै / त्रै + धम् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ द्वैधम् / त्रैधम् ।

अयमादेशः विकल्पेन भवति, अतः पक्षे 'द्विधा' तथा 'त्रिधा' एते रूपे अपि भवतः ।

यथा - द्वैधम् भुङ्क्ते (= द्वाभ्यां प्रकाराभ्यां भुङ्क्ते) । त्रैधं वदति (= त्रिभिः प्रकारैः वदति) । एका राशी द्वैधम् त्रैधम् वा कुरु ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!धमुञन्तात् स्वार्थे डदर्शनम्!> । इत्युक्ते, यद्यपि धमुञ्-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः सन्ति, तथापि तेभ्यः स्वार्थे कुत्रचित् 'ड' प्रत्ययं कृत्वा 'द्वैध / त्रैध' एतयोः प्रातिपदिकयोः निर्माणं कृत्वा तयोः सुबन्तरूपाणि उपयुक्तानि दृश्यन्ते । यथा - 'तस्मिन्नेव मतिद्वैधे मनुः स्वायंभुवोऽब्रवीत्' इति प्रयोगः महाभारतस्य वनपर्वे लभ्यते । अत्र 'मतेः द्वैधम्' (Two forms of the same intellect / Two types of thoughts इत्याशयः) इत्यत्र समासे कृते 'मतिद्वैधम्' इति जाते अस्मात् शब्दात् 'ड' प्रत्ययः स्वार्थे भवति, येन 'मतिद्वैध' इति प्रातिपदिकं सिद्ध्यति ।

ज्ञातव्यम् -

  1. अनेन सूत्रेण निर्मितयोः 'द्वैधम्' तथा 'त्रैधम्' शब्दयोः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञा भवति ।

  2. 'द्वि' तथा 'त्रि' एतेभ्यः विहितस्य 'धा' प्रत्ययस्य विकल्पेन एधाच्च 5.3.46 इत्यनेन 'एधाच्' आदेशः अपि भवति ।

  3. अत्र निर्मितौ 'द्वैधम्' तथा 'त्रैधम्' इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुंसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । एतौ शब्दौ अव्ययसंज्ञकौ स्तः, अतः एतेभ्यः विहितानाम् सुँप्-प्रत्ययानाम् अव्ययादाप्सुपः 2.4.82 इत्यनेन लोपः भवति ।

Balamanorama

Up

index: 5.3.45 sutra: द्वित्र्योश्च धमुञ्


द्वित्र्योश्च धमुञ् - द्वित्र्योश्च धमुञ् । षष्ठी पञ्चम्यर्थे । 'ध' इतिअन्यतरस्या॑मिति चानुवर्तते । तदाह — आभ्यामिति ।परस्ये॑ति शेषः । धमुञन्तादिति । वार्तिकमिदम् । दृशिग्रहणात्क्वचिदेवायम् । पति द्वैधानीति ।तृणानी॑ति शेषः ।द्वैध॑मित्यस्माड्डप्रत्यये टिलोपे रूपम् । नचतसिलादयः प्राक् पाशपः॑ इति डप्रत्ययान्तस्याप्यव्ययत्वं शह्क्यं, स्वभावतः सत्त्ववचनत्वेनाऽव्ययत्वाऽसंभवात्,द्वैधानी॑ति भाष्यप्रयोगाच्च ।

Padamanjari

Up

index: 5.3.45 sutra: द्वित्र्योश्च धमुञ्


भतिद्वैधानीति। एकशेषेण बहुवचनम्। क्वचित् पथि द्वैधानीति पाठः। धमुञन्तस्यालिङ्गसंख्यत्वेऽपि तदन्तात्स्वार्थे विहितस्याप्यस्य स्वभावाल्लिङ्गसंख्यायोगः, तेनाव्ययत्वं न भवति ॥