5-3-43 अधिकरणविचाले च प्रत्ययः परः च आद्युदात्तः च तद्धिताः सङ्ख्यायाः धा
सङ्ख्यायाः अधिकरणविचाले धा
सङ्ख्यावाचिभ्यः शब्देभ्यः 'अधिकरणविचालः' (= एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम्) अस्मिन् अर्थे 'धा' प्रत्ययः भवति ।
संख्याया इत्येव। अधिकरणं द्रव्यम्, तस्य विचालः संख्यान्तरापादनम्। एकस्यानेकीकरणमनेकस्य वैकीकरणम्। अधिकरणविचाले गम्यमाने संख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकमेकधा कुरु॥
द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥
'सङ्ख्या' इति व्याकरणविशिष्टा काचन संज्ञा । <<बहुगणवतुडति सङ्ख्या>> 1.1.23 इत्यनेन 'बहु' शब्दः, 'गण' शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा 'डति'प्रत्ययान्तः कति-शब्दः एतेषां 'सङ्ख्या' संज्ञा भवति । तथा च, 'एक' / द्वि' आदीनाम् सङ्ख्याशब्दानामपि 'सङ्ख्या' इति संज्ञा दीयते । एतेभ्यः सर्वेभ्यः शब्देभ्यः 'अधिकरणविचालः' ( एकस्य अनेकत्वम्, अनेकस्य वा एकत्वम् - Conversion of one to many or many to one) अस्मिन् अर्थे 'धा' प्रत्ययः भवति । यथा - 1. एक + धा = एकधा । यथा - अष्ट राश्यः एकधा कुरु । (Combine eight heaps into one single heap) 2. द्वि + धा = द्विधा । यथा - एकम् फलम् द्विधा अभवत् । (The fruit got cut into two pieces). 3. त्रि + धा = त्रिधा । 4. चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति । 5. पञ्चन् + धा = पञ्चधा । [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] 6. षष् + धा → षड् + धा [<<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वम्] → षड्धा 7. बहु + धा = बहुधा 8. कति + धा = कतिधा अनेन सूत्रेण निर्मिताः सर्वे शब्दाः <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।
<<अधिकरणविचाले च>> - अधिकरणविचाले च । अधिकरणं — द्रव्यं, तस्य विचालः=विचालनं, सङ्ख्यान्तरापादनम् । तदाह — द्रव्यस्येति । सङ्ख्यान्तरापादनं च न्यूनसङ्ख्यस्य अधिकसङ्ख्याकरणम्, अधिकसङ्ख्यस्य न्यूनसङ्ख्याकरणं च । आद्ये उदाहरति — एकं राशिंपञ्चधा कुर्विति । द्वितीये तु 'अनेकमेकधा कुर्वि' त्युदाहार्यम् । इह राशिविषयक एव प्रकारो गम्यते नतु क्रियाप्रकार इति सूत्रारम्भः ।
अधिकरणं द्रव्यमित्यादि। जात्यादीनामाधारत्वात्। विचालनं विचालःउअन्यथाकरणम् णिजन्ताद् ठेरच्ऽ। तच्चेह संख्यासन्निधानात्संख्यान्तरापादनेनेत्याह - तस्य विचालः संख्यान्तरापादनमिति। एकं राशि पञ्चधा कुर्विति। पञ्च राशीन्कुर्वित्यर्थः। नात्र प्रकारभेदो गम्यते, नतरां क्रियाविषय इति सूत्रारम्भः। तत्र द्रव्यस्यापि स्वभावाद्धाप्रत्ययान्तेनासत्वरुपेण प्रतिपादनमित्यव्ययत्वम्, यथा - सुदामतो विद्यौदिति तसन्तस्य ॥