एकाद्धो ध्यमुञन्यतरस्याम्

5-3-44 एकात् धः ध्यमुञ् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः धा

Sampurna sutra

Up

index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्


एकात् धः अन्यतरस्याम् ध्यमुञ्

Neelesh Sanskrit Brief

Up

index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्


'एक' शब्दात् 'धा' प्रत्ययस्य विकल्पेन 'ध्यमुञ्' आदेशः भवति ।

Kashika

Up

index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्


एकशब्दात् परस्य धाप्रत्ययस्य ध्यमुञादेशः भवत्यन्यतरस्याम्। एकधा राशिं कुरु, ऐकध्यं कुरु। एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते। प्रकरणादेव लब्धे पुनर्धाग्रहणम् विधार्थे विहितस्य अपि यथा स्यात्। अनन्तरस्य एव ह्येतत् प्रत्प्नोति।

Siddhanta Kaumudi

Up

index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्


ऐकध्यम् । एकधा ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्


संख्याया विधार्थे धा 5.3.42 तथा अधिकरणविचाले च 5.3.43 एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'एक' शब्दात् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'ध्यमुञ्' इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी -

एक + धा

→ एक + ध्यमुञ् ['धा' इत्यस्य 'ध्यमुञ्' आदेशः ]

→ ऐक + ध्यम् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ ऐकध्यम् ।

यथा - ऐकध्यम् भुङ्क्ते (= एकेन प्रकारेण भुङ्क्ते) । अष्ट राश्यः ऐकध्यम् कुरु (= अष्टानाम् राशीनाम् मिलित्वा एका राशिः कुरु) ।

ज्ञातव्यम् -

  1. अनेन सूत्रेण निर्मितस्य 'ऐकध्यम्' शब्दस्य तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञा भवति ।

  2. 'ऐकध्यम्' इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुंसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । 'ऐकध्यम्' इति शब्दः अव्ययसंज्ञकः अस्ति, अतः अस्मात् विहितानाम् 'सुँप्' प्रत्ययानाम् अव्ययादाप्सुपः 2.4.82 इत्यनेन लोपः भवति ।

Balamanorama

Up

index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्


एकाद्धो ध्यमुञन्यारयाम् - एकाद्धो । एकात्-ध इति च्छेदः । धाशब्दस्य 'ध' इति षष्ठएकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः ।

Padamanjari

Up

index: 5.3.44 sutra: एकाद्धो ध्यमुञन्यतरस्याम्


ठेकाद्ऽ इति शब्दप्रधानत्वात्सर्वनामकार्याभावः एकधा राशि कुर्विति। अधिकरणविचाले उदाहरणं। ऐकध्यं भुङ्क्त इति। विधार्थे। प्रकरणादेव लब्ध इति। कस्मिन् लब्धे? धाप्रत्ययस्य स्थानित्वे। इह हि पूर्वसूत्राद्धाग्रहणमनुवर्तते, स च पूर्वमेव विहित इति विधानासम्भवात् स्थानित्वमेव विज्ञास्यते। विधार्थे विहितस्यापि यथा स्यादिति। स्थान्यादेशाभावोऽप्येतदर्थमेवाश्रितः; प्रत्ययान्तरेऽप्यस्मिन्दोषाभावात्। किं पुनः कारणं विधार्थे विहितस्य तस्य न स्याद्? अत आह - अनन्तरस्यैव हीति। ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः ॥