एकशालायाष्ठजन्यतरस्याम्

5-3-109 एकशालायाः ठच् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे ठक्

Sampurna sutra

Up

एकशालायाः इवे ठच्, अन्यतरस्याम् ठक्

Neelesh Sanskrit Brief

Up

'एकशाला' शब्दात् 'इव' इति सन्दर्भे स्वार्थे ठच् प्रत्ययः विकल्पेन भवति । पक्षे ठक् प्रत्ययः अपि विधीयते ।

Kashika

Up

एकशालाशब्दादिवार्थेऽन्यतरस्यां ठच् प्रत्ययो भवति। अन्यतरस्यांग्रहणेनानन्तरष्ठक् प्राप्यते। एकशालेव एकशालिकः, ऐकशालिकः॥

Siddhanta Kaumudi

Up

एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'एकशाला' (single room) शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ठच् तथा ठक् प्रत्ययौ भवतः । एकशाला इव गृहम् (A house that has a single room) = एकशाला + ठक् / ठच् → एकशाला + इक [<<ठस्येकः>> 7.3.50 इति इक-आदेशः] → ऐकशाला / एकशाला + इक [ठक्-प्रत्ययस्य विषये <<किति च>> 7.2.118 इति आदिवृद्धिः] → ऐकशाल् / एकशाल् + इक [<<यस्येति च>> 6.4.148 इति आकारलोपः] → ऐकशालिक / एकशालिक एकशाला इव तत् ऐकशालिकम् एकशालिकम् वा । Just like a single hall / single room - इत्याशयः । स्मर्तव्यम् - <<इवे प्रतिकृतौ>> 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'एकशाला' शब्दात् 'इव' इति सन्दर्भे ठक् / ठच् प्रत्ययः एव भवति ।

Balamanorama

Up

<<एकशालायाष्ठजन्यतरस्याम्>> - एकशालायाः । पक्षे ठगिति । अन्यतरस्याङ्ग्रहणमनन्तरठ,कः समुच्चयार्थमिति भावः ।ठज्वे॑त्येव सुवचम् ।

Padamanjari

Up

अनेकार्थत्वन्निपातानामन्यतरस्यांग्रहणमिह समुच्चयार्थम्, न विकल्पार्थमित्याह - अन्यतरस्यांग्रहणेनेत्यादि ॥