शर्करादिभ्योऽण्

5-3-107 शर्करादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे

Sampurna sutra

Up

शर्करादिभ्यः इवे अण्

Neelesh Sanskrit Brief

Up

शर्करादिगणस्य शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे 'अण्' प्रत्ययः विधीयते ।

Kashika

Up

शर्करा इत्येवमादिभ्यः प्रातिपदिकेभ्य इवार्थेऽण् प्रत्ययो भवति। शर्करेव शार्करम्। कापालिकम्॥ शर्करा। कपालिका। पिष्टिक। पुण्डरीक। शतपत्र। गोलोमन्। गोपुच्छ। नरालि। नकुला। सिकता। शर्करादिः॥

Siddhanta Kaumudi

Up

शर्करेव शार्करम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

शर्करादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे अण् इति प्रत्ययः भवति । शर्करादिगणः अयम् - शर्करा, कपालिका, पिष्टिक, पुण्डरीक, शतपत्र, गोलोमन्, गोपुच्छ, नराची, नकुला, सिकता । उदाहरणानि - 1. शर्करा इव = शर्करा + अण् → शार्करः । 2. कपालिका इव = कपालिका + अण् → कापालिकः । 2. सिकता इव = सिकता + अण् → सैकतः । आदयः । विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र <<टिड्ढाणञ्..>> 4.1.15 इति ङीप्-प्रत्ययः विधीयते । यथा - शार्करी, सैकती - आदयः स्मर्तव्यम् - <<इवे प्रतिकृतौ>> 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र शर्करादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे अण्-प्रत्ययः एव भवति ।

Balamanorama

Up

<<शर्कराऽऽदिभ्योऽण्>> - शर्करादिभ्योऽण् । इवे इत्येव । शार्करमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑ इति विशेष्यनिघ्नतेति भावः ।

Padamanjari

Up