देवपथादिभ्यश्च

5-3-100 देवपथादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन् इवे इवे प्रतिकृतौ सञ्ज्ञायां लुप्

Sampurna sutra

Up

इवे कनः देवपथादिभ्यः लुप्

Neelesh Sanskrit Brief

Up

देवपथादिगणे विद्यमानेभ्यः शब्देभ्यः 'इव' अस्मिन् सन्दर्भे विहितस्य कन्-प्रत्ययस्य लुप् भवति ।

Kashika

Up

<<इवे प्रतिकृतौ>> ५.३.९६ <<संज्ञायां च>> ५.३.९७ विहितस्य कनो देवपथादिभ्य उत्तरस्य लुब् भवति। आदिशब्दः प्रकारे। आकृतिगणश्चायम्। देवपथः। हंसपथः।

अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च ।

इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥

अर्चासु तावत् — शिवः। विष्णुः। चित्रकर्मणि — अर्जुनः। दुर्योधनः। ध्वजेषु — कपिः। गरुडः। सिंहः॥ देवपथ। हंसपथ। वारिपथ। जलपथ। राजपथ। शतपथ। सिंहगति। उष्ट्रग्रीवा। चामरज्जु। रज्जु। हस्त। इन्द्र। दण्ड। पुष्प। मत्स्य॥

Siddhanta Kaumudi

Up

कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<इवे प्रतिकृतौ>> 5.3.96 इत्यनेन तथा <<संज्ञायाम्>> 5.3.97 इत्यनेन भिन्नेभ्यः प्रातिपदिकेभ्यः स्वार्थे कन्-प्रत्ययः उच्यते । अस्य कन्-प्रत्ययस्य देवपथादिगणस्य शब्दानां विषये वर्तमानसूत्रेण लुप् विधीयते । देवपथादिगणः वस्तुतः आकृतिगणः अस्ति । इत्युक्ते, अस्मिन् गणे अत्र न निर्दिष्टाः अपि केचन शब्दाः भवितुमर्हन्ति । गणपाठे दत्ता देवपथादिगणस्य आवली एतादृशी अस्ति - देवपथ, हंसपथ, वारिपथ, जलपथ, राजपथ, शतपथ, सिंहगति, उष्ट्रग्रीवा, चामरज्जु, रज्जु, हस्त, इन्द्र, दण्द, पुष्प, मत्स्य । आकृतिगणोऽयम् । उदाहरणानि - 1. देवपथः इव इयम् प्रतिकृतिः = देवपथ + कन् → देवपथ + X → देवपथ । 2. हस्तः इव इयम् प्रतिकृतिः = हस्त + कन् → हस्त + X → हस्त । 5. इन्द्रः इव इयम् प्रतिकृतिः = इन्द्र + कन् → इन्द्र + X → इन्द्र । विशेषः - देवपथादिगणे कीदृशाः शब्दाः भवेयुः इत्यस्मिन् विषये वार्त्तिककारः एकम् श्लोकवार्त्तिकम् पाठयति - <!अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च। इवे प्रतिकृतौ लोपः कनो देवपथादिषु!> । इत्युक्ते, देवपथे ते शब्दाः भवितुमर्हन्ति ये 'अर्चा', 'पूजनम्', 'चित्रकर्म' उत 'ध्वज' एतेषु सन्दर्भेषु विधीयन्ते । यथा - अ) अर्चार्यै / पूजनार्थे (= प्रार्थनायै / धूप-दीप-स्नानादिक्रियासु) प्रयुज्यमाना इयम् शिवः इव प्रतिकृतिः = शिव + कन् → शिव + X → शिवः । आ) चित्रकर्म - अर्जुन इव अर्जुनस्य इदम् चित्रकर्म = अर्जुन + कन् → अर्जुन + X → अर्जुन । इ) ध्वज - गरुडः इव प्रतिकृतिः विद्यते यस्मिन् ध्वजे सः = गरुड + कन् → गरुड + X → गरुडः । विशेषः - अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा कन्-प्रत्ययः 'प्रतिकृतिः' इत्यस्मिन् सन्दर्भे उत संज्ञायाः विषये विहितः अस्ति । अस्मिन्नेव प्रकरणे अग्रे विद्यमानैः सूत्रैः विहितस्य प्रत्ययस्य लुक् वर्तमानसूत्रेण न भवति ।

Balamanorama

Up

<<देवपथादिभ्यश्च>> - देवपथादिभ्यश्च । कनो लुप् स्यादिति । शेषपूरणमिदम् । 'इवे प्रतिकृतौ' इति विहितस्य देवपथादिभ्यः परस्य कनो लुप्स्यादिति यावत् । देवपथ इति । देवानां पन्थाः देवपथः । तत्प्रतिकृतिरित्यर्थः ।इवे प्रतिकृतौ लोपः कनो देवपथादिषु॑ इति । अर्चाः=प्रतिमाः । पूजार्थासु तासु, चित्रकर्मसु, ध्वजेषु देवपथादिगणपठितेषुइवे प्रतिकृतौ॑विहितस्य कनो लुबित्यर्थः । 'तद्राजस्ये' ति सूत्रे कैयटोऽप्येतं श्लोकं पपाठ । अर्चासु यथा — शिवो विष्णुर्गणपतिरित्यादि । चित्रकर्मसु यथा — रावणः कुम्भकर्णः इन्द्रजिदित्यादि । ध्वजेषु यथाकपिः गरुडः वृषभ इत्यादि ।

Padamanjari

Up

आदिशब्दः प्रकारे इति। तेन किं सिद्धं भवति? इत्याहाअकृतिगणोऽयमिति। अर्चासूप्रतिमासु, पूजनार्थासु गृहेष्वायतनेषु वा याः पूज्यन्ते तासु, चित्रकर्मध्वजाभ्यां तद्गताः प्रतिकृतयो लक्ष्यन्ते ॥