5-2-62 गोषदादिभ्यः वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा मतौ छः अध्यायानुवाकयोः
मतौ अध्याय-अनुवाकयोः गोषदादिभ्यः वुन्
मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् गोषदादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः वुन्-प्रत्ययः भवति ।
मतावित्येव, अध्यायानुवाकयोरिति च। गोषदादिभ्यः प्रातिपदिकेभ्यो वुन् प्रत्ययो भवति मत्वर्थेऽध्यायानुवाकयोः। गोषदशब्दोऽस्मिन्निति गोषदकोऽध्यायोऽनुवाको वा। इषेत्वकः। मातरिश्वकः॥ गोषद। इषेत्वा। मातरिश्वन्। देवस्यत्वा। देवीरापः। कृष्णोस्याखरेष्टः। दैवींधियम्। रक्षोहण। अञ्जन। प्रभूत। प्रतूर्त। कृशानु। गोषदादिः॥
मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥
<<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि <<अध्यायानुवाकयोर्लुक्>> 5.2.60 इत्यनेन तस्मात् छ-प्रत्ययः भवति, तस्य च वैकल्पिकः लुक् अपि जायते । परन्तु यदि प्रक्रियायाम् विहितम् प्रातिपदकम् 'गोषदादि'गणे विद्यते, तर्हि तस्मात् छ-प्रत्ययस्य अपवादस्वरूपेण वर्तमानसूत्रेण वुन् -प्रत्ययः भवति । गोषदादिगणः अयम् - गोषद, इषेत्वा, मातरिश्वन्, देवस्यत्वा, देवीरापः, कृष्णोस्याख्यरेष्टः, दैवींधियम्, रक्षोहण, अञ्जन, प्रभूत, प्रतूर्त, कृशानु । उदाहरणानि - 1. 'गोषद'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः गोषदकः अध्यायः अनुवाकः वा । प्रक्रिया इयम् - गोषद + वुन् → गोषद + अक [<<युवोरनाकौ>> 7.2.1 इति 'अक'-आदेशः] → गोषद् + अक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → गोषदक 2. 'इषेत्वा'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा, सः इषेत्वकः अध्यायः अनुवाकः वा । 3. 'देवस्यत्वा' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः देवस्यत्वकः अध्यायः अनुवाकः वा । 4. 'कृशानु'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः कृशानवकः अध्यायः अनुवाकः वा । अत्र <<ओर्गुणः>> 6.4.146 इत्यनेन उकारस्य गुणादेशः ओकारः, ततश्च <<एचोऽयवायावः>> 6.1.78 इति अवादेशं कृत्वा रूपं सिद्ध्यति । विशेषः - अत्र विग्रहवाक्येषु 'शब्दस्वरूप'स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say 'गोषदः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word गोषद is present in that अध्याय , and not the entity represented by that word. स्मर्तव्यम् - 1. अनेन सूत्रेण मत्वर्थयोः 'वुन्' प्रत्ययः दीयते । अतः मत्वर्थस्य विषये <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः । 2. सूत्रपाठे <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यतः <<अहंशुभमोर्युस्>> 5.2.140 इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।
<<गोषदादिभ्यो वुन्>> - गोषदादिभ्यो वुन् । गोषदक इति । गोषदशब्दसंयुक्तोऽध्यायो ।ञनुवाको वेत्यर्थः । इषेत्वक इति ।इषेत्वे॑ति शब्दयुक्त इत्यर्थः ।अस्यवामीय॑मित्यत्रोक्तरीत्या सुपो न लुक् ।