5-2-61 विमुक्तादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा मतौ छः अध्यायानुवाकयोः
मतौ अध्याय-अनुवाकयोः विमुक्तादिभ्यः अण्
मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् विमुक्तादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः अण्-प्रत्ययः भवति ।
मतावित्येव, अध्यायानुवाकयोरिति च। विमुक्तादिभ्यः प्रातिपदिकेभ्योऽण् प्रत्ययो भवति मत्वर्थेऽध्यायानुवाकयोरभिधेययोः। विमुक्तशब्दोऽस्मिन्नस्ति वैमुक्तोऽध्यायोऽनुवाको वा। दैवासुरः॥ विमुक्त। देवासुर। वसुमत्। सत्वत्। उपसत्। दशार्हपयस्। हविर्धान। मित्री। सोमापूषन्। अग्नाविष्णु। वृत्रहति। इडा। रक्षोसुर। सदसत्। परिषादक् । वसु। मरुत्वत्। पत्नीवत्। महीयल। दशार्ह। वयस्। पतत्रि। सोम। महित्री। हेतु। विमुक्तादिः॥
मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥
<<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि <<अध्यायानुवाकयोर्लुक्>> 5.2.60 इत्यनेन तस्मात् छ-प्रत्ययः भवति, तस्य च वैकल्पिकः लुक् अपि जायते । परन्तु यदि प्रक्रियायाम् विहितम् प्रातिपदकम् 'विमुक्तादि'गणे विद्यते, तर्हि तस्मात् छ-प्रत्ययस्य अपवादस्वरूपेण वर्तमानसूत्रेण अण्-प्रत्ययः भवति । विमुक्तादिगणः अयम् - विमुक्त, देवासुर, वसुमत्, सत्वत्, उपसत्, दशार्हपयस्, हविर्द्धान, मित्री, सोमापूषन्, अग्नाविष्णु, वृत्रहति, इडा, रक्षोसुर, सदसत्, परिषादक्, वसु, मरुत्वत्, पत्नीवत्, महीयल, दशार्ह, वयस्, पतत्रि, सोम, महित्री, हेतु । उदाहरणानि - 1. 'विमुक्त'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः वैमुक्तः अध्यायः अनुवाकः वा । प्रक्रिया इयम् - विमुक्त + अण् → वैमुक्त + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → वैमुक्त् + अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → वैमुक्त 2. 'देवासुर'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा, सः दैवासुरः अध्यायः अनुवाकः वा । 3. 'वसुमत्' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः वासुमतः अध्यायः अनुवाकः वा । 4. 'मित्री'शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः मैत्रः अध्यायः अनुवाकः वा । विशेषः - अत्र विग्रहवाक्येषु 'शब्दस्वरूप'स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say 'विमुक्तः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word विमुक्त is present in that अध्याय , and not the entity represented by that word. स्मर्तव्यम् - 1. अनेन सूत्रेण मत्वर्थयोः 'अण्' प्रत्ययः दीयते । अतः मत्वर्थस्य विषये <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः । 2. सूत्रपाठे <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यतः <<अहंशुभमोर्युस्>> 5.2.140 इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।
<<विमुक्तादिभ्योऽण्>> - विमुक्तादिभ्योऽण् । वैमुक्त इति । विमुक्तशब्दयुक्तोऽध्यायोऽनुवाको वेत्यर्थः ।