5-2-140 अहंशुभमोः युस् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
'तत् अस्य, अस्मिन् अस्तीति' (इति) अहम्-शुभमोः युस्
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'अहम्' तथा 'शुभम्' एताभ्याम् शब्दाभ्याम् 'युस्' प्रत्ययः भवति ।
अहमिति शब्दान्तरमहंकारे वर्तते, शुभमित्यव्ययं शुभपर्यायः, ताभ्यां युस् प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहंकारवानित्यर्थः। शुभंयुः। कल्याणवानित्यर्थः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयःपादः॥
अहमितिमान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥
अहंयुः अहङ्कारवान् । शुभंयुस्तु शुभान्वितः ॥ इति मत्वर्थीयाः ॥ १३ ॥
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'अहम्' तथा 'शुभम्' (उभावपि मकारान्तशब्दौ) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'युस्' इति प्रत्ययः विधीयते । 'युस्' प्रत्यये सकारः इत्संज्ञकः अस्ति, अतः अङ्गस्य <<सिति च>> 1.4.16 इति पदसंज्ञा भवति । 1) अहम् (अव्ययम्, 'अहङ्कारः' इत्यर्थः) अस्य अस्मिन् वा अस्ति सः अहंयुः, अहय्ँयुः 2) शुभम् (अव्ययम्, 'मङ्गलम्' इत्यर्थः) अस्य अस्मिन् वा अस्ति सः शुभंयुः, शुभय्ँयुः उभयत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य <<सिति च>> 1.4.16 इति पदसंज्ञा भवति, येन प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन परसवर्णादेशः (य्ँ) भवति । ज्ञातव्यम् - <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यत्र आरब्धः मतुप्-प्रत्ययस्य अधिकारः अस्मिन् सूत्रे समाप्यते ।
<<अहंशुभमोर्युस्>> - अहंशुभमोर्युस् । अहंयुः शुभंयुरित्यत्र सुब्लुकमाशङ्क्याह — अहमित्यादीति । सित्त्वं पदत्वार्थम् । तेन पदत्वादनुस्वारे परसवर्णः सिध्यति । * इति बालमनोरमायम् मत्वर्थीयाः । ***अथ नामधातुप्रक्रिया ।