अध्यायानुवाकयोर्लुक्

5-2-60 अध्यायानुवाकयोः लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा मतौ छः

Sampurna sutra

Up

मत्वर्थयोः अध्याय-अनुवाकयोः अन्यतरस्याम् लुक्

Neelesh Sanskrit Brief

Up

मतुबर्थयोः अध्यायस्य अनुवाकस्य च निर्देशं कर्तुम् प्रथमासमर्थात् प्रातिपदिकात् छ-प्रत्ययः भवति, तस्य च विकल्पेन लुक् भवति ।

Kashika

Up

मतावित्येव। मत्वर्थ उत्पन्नस्य छस्य लुग् भवत्यध्यायानुवाकयोरभिधेययोः। केन पुनरध्यायानुवाकयोः प्रत्ययः? इदमेव लुग्वचनं ज्ञापकं तद्विधानस्य। विकल्पेन च लुगयमिष्यते। गर्दभाण्डशब्दोऽस्मिन्नस्ति गर्दभाण्डोऽध्यायोऽनुवाको वा, गर्दभाण्डीयः। दीर्घजीवितः, दीर्घजीवितीयः। पलितस्तम्भः, पलितस्तम्भीयः॥

Siddhanta Kaumudi

Up

मत्वर्थस्य छस्य । अतएव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 अनेन सूत्रेण 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः औत्सर्गिकरूपेण 'मतुँप्' इति प्रत्ययः विधीयते । अतः एतौ अर्थौ 'मतुबर्थौ' इति नाम्ना ज्ञायेते । एतयोः एव निर्देशः अस्मिन् सूत्रे 'मतौ' इत्यनेन कृतः अस्ति । एताभ्यामर्थाभ्याम् निर्मितः शब्दः यदि अध्यायस्य उत अनुवाकस्य (two types of sections found in vedas) निर्देशं करोति, तर्हि वर्तमानसूत्रेण औत्सर्गिकस्य मतुँप्-प्रत्ययस्य अपवादस्वरूपेण 'छ' प्रत्ययविधानम् भवति, तस्य च विकल्पेन लोपः अपि जायते । यथा - 1. 'गर्दभाण्ड' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः गर्दभाण्डीयः अध्यायः अनुवाकः वा । गर्दभाण्ड + छ → गर्दभाण्ड + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति 'छ' इत्यस्य इय-आदेशः] → गर्दभाण्ड् + ईय [<<यस्येति च>> 6.4.148 इति अकारलोपः] → गर्दभाण्डीय पक्षे प्रत्ययलुकं कृत्वा 'गर्दभाण्ड' इत्यपि शब्दः सिद्ध्यति । 2. 'दीर्घजीवित' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः दीर्घजीवितीयः / दीर्घजीवितः अध्यायः अनुवाकः वा । 3. 'पलितस्तम्भ' शब्दः अस्ति अस्मिन् अध्याये अनुवाके वा सः पलितस्तम्भीयः / पलितस्तम्भः अध्यायः अनुवाकः वा । विशेषः - 1. अत्र विग्रहवाक्येषु 'शब्दस्वरूप'स्य ग्रहणम् भवति, न हि अर्थस्वरूपस्य । When we say 'गर्दभाण्डः शब्दः अस्ति अस्मिन् अध्याये, we mean that the word गर्दभाण्ड is present in that अध्याय and not the entity represented by that word. 2. वस्तुतः अस्मिन् सूत्रे 'छ' इति न अनुवर्तते, यतः पूर्वसूत्रे 'छ' इत्यत्र स्वरितः स्वरः नास्ति । (केवलम् ते शब्दाः एव अनुवृत्तिरूपेण कार्यम् कुर्वन्ति येषु कश्चन स्वरः स्वरितः अस्ति । एतत् <<स्वरितेनाधिकारः>> 1.3.11 इत्यत्र स्पष्टीकृतमस्ति) । परन्तु अस्मिन् सूत्रे 'लुक्' उक्तः अस्ति, अतः कश्चन प्रत्ययः तु स्यात् एव - इति न्यायेन अत्र 'छ' प्रत्ययस्य ग्रहणम् क्रियते । 3. अस्मिन् सूत्रे भाष्यकारः 'अन्यतरस्याम्' इत्यस्य अनुवृत्तिं न स्वीकरोति, अपितु <!अध्यायानुवाकाभ्यां वा लुक्!> इति वार्त्तिकम् पाठयति । अस्यापि अर्थः अयमेव । स्मर्तव्यम् - 1. अनेन सूत्रेण मत्वर्थयोः 'छ' प्रत्ययः तथा तस्य लुक् पाठितः अस्ति । अतः मत्वर्थस्य विषये <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यत्र उक्ताः सर्वे बिन्दवः अस्य सूत्रस्य विषये अपि स्मर्तव्याः । 2. सूत्रपाठे <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यतः <<अहंशुभमोर्युस्>> 5.2.140 इति यावत्सु सूत्रेषु 'मत्वर्थयोः' प्रत्ययविधानम् कृतमस्ति । अतः वस्तुतः वर्तमानसूत्रमपि तस्मिन्नेव प्रकरणे भवितुम अर्हति । परन्तु पाणिनिना तत् सूत्रमत्र स्थापितमस्ति । अस्य किमपि कारणम् व्याख्यानेषु न दीयते ।

Balamanorama

Up

<<अध्यायानुवाकयोर्लुक्>> - अध्यायानुवाकयोर्लुक् । नन्वध्यायानुवाकयोरभिधेयत्वे छस्य कथं प्राप्तिः, सूक्तसाम्नोरिति नियमादित्यत आह — अत एवेति । विधानेति । मतुप्प्रकरण एवास्मिन्सूत्रे कर्तव्ये अत्र प्रकरणे छस्य लुग्विधानसामर्थादिति कैयटः । ज्ञापकसिद्धविधानसामर्थ्यादित्यन्ये । भाष्ये तु अध्यायानुवाकयोर्वा लुग्वक्तव्यः॑ इति वचनमेवारब्धम् । गर्दभाण्डः गर्दभाण्डीय इति । गर्दभाण्डशब्दसंयुक्तोऽध्यायोऽनुवाको वेत्यर्थः । भाष्योदाहरणादेव क्वचिदेतन्नामकोऽध्यायोऽनुवाको वाऽन्वेष्यः ।

Padamanjari

Up

केन पुनरिति। सूक्तसाम्नोरेव छाए विहित इति प्रश्नः। इदमेविति। न ह्यसती लुग्विधानमुपपद्यते। विकल्पेन चेति। तत्कथं मतुप्प्रकरणे एवास्मिन्सूत्रे कर्तव्ये तदत्र च्छस्य लुग्विधानम् ? तस्मात्पाक्षिको लुगनुमीयते। अत्र केचिदाहुः - अनुवाकसाहचर्याद्वैदिकोऽध्यायो गृह्यत इति। अन्ये पुनः - पौरुषेयग्रन्थविशेषस्याप्यध्यायस्य ग्रहणमिच्छन्ति।च तथा च'दीर्घजीवितीयमध्यायं व्याख्यास्यामः' इत्यदिवैद्यकग्रन्थेषु दृश्यते ॥