5-2-63 तत्र कुशलः पथः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा अध्यायानुवाकयोः वुन्
'तत्र कुशलः' (इति) पथः वुन्
सप्तमीसमर्थात् 'पथिन्' शब्दात् 'कुशलः' अस्मिन् अर्थे 'वुन्' प्रत्ययः भवति ।
वुनित्येव। तत्रेति सप्तमीसमर्थात् पथिन्शब्दात् कुशल इत्यस्मिन्नर्थे वुन् प्रत्ययो भवति। पथि कुशलः पथकः॥
वुन् स्यात् । पथि कुशलः पथिकः ॥
सप्तमीसमर्थात् 'पथिन्' (= मार्गः) शब्दात् 'कुशलः' (= प्रवीणः) अस्मिन् अर्थे 'वुन्' प्रत्ययः भवति । पथि कुशलः = पथिन् + वुन् → पथिन् + अक [<<युवोरनाकौ>> 7.1.1 इति 'अक' आदेशः] → पथ् + अक [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → पथक पथि कुशलः पथकः । यात्रायाम् यः कुशलः अस्ति (expert in road / traveling - knows the directions / road signs etc) सः पथकः । ज्ञातव्यम् - <<कृतलब्धक्रीतकुशलाः>> 4.3.38 इत्यत्र पाठितस्य अण्-प्रत्ययस्य अपवादरूपेण अयम् 'वुन्' प्रत्ययः विधीयते ।
<<तत्र कुशलः पथः>> - तत्र कुशलः पथः । बुन्स्यादिति । सप्तम्यन्तात्पथिन्शब्दात्कुशल इत्यर्थे वुनित्यर्थः । पथक इति । आकादेशेनस्तद्धिते॑इति टिलोपः ।
पथि कुशल इति। ठायुक्तकुशलाभ्यां चासेवायाम्ऽ इति सप्तमी, कौशलस्य क्रियाविषयत्वात्पथिन्शब्देन गमनादिका तद्विषया क्रिया लक्ष्यते। योगश्चायम्'कृतलब्धक्रीतकुशलाः' इत्यणोऽपवादः ॥