षष्ट्यादेश्चासंख्यादेः

5-2-58 षष्ठ्यादेः च असङ्ख्यादेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे तमट्

Sampurna sutra

Up

index: 5.2.58 sutra: षष्ट्यादेश्चासंख्यादेः


'तस्य पूरणे' (इति) असङ्ख्यादेः षष्ट्यादेः डटः नित्यम् तमट् ।

Neelesh Sanskrit Brief

Up

index: 5.2.58 sutra: षष्ट्यादेश्चासंख्यादेः


असङ्ख्यादयः 'षष्टि' आदयः ये शब्दाः, तेभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य नित्यम् 'तमट्' आगमः भवति ।

Kashika

Up

index: 5.2.58 sutra: षष्ट्यादेश्चासंख्यादेः


षष्ट्यादेः सङ्ख्याशब्दादसङ्ख्यादेः परस्य डटो नित्यं तमडागमः भवति। विंशत्यादिभ्यः इति विकल्पेन प्राप्ते नित्यार्थम्। षष्टितमः। सप्ततितमः। असंख्यादेः इति किम्? एकषष्टः, एकषष्टितमः। एकसप्ततः, एकसप्ततितमः।

Siddhanta Kaumudi

Up

index: 5.2.58 sutra: षष्ट्यादेश्चासंख्यादेः


षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य - <{SK1856}> इति विकल्प एव । एकषष्टः । एकषष्टितमः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.58 sutra: षष्ट्यादेश्चासंख्यादेः


तस्य पूरणे डट् 5.2.48 अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य अस्य डट्-प्रत्ययस्य विंशत्यादिभ्यस्तमडन्यतरस्याम् 5.2.56 इत्यनेन 'तमट्' इति विकल्पेन आगमः अपि भवति । परन्तु 'षष्टि', 'सप्तति', अशीति', तथा 'नवति' एतेभ्यः शब्देभ्यः विहितस्य डट्-प्रत्ययस्य वर्तमानसूत्रेण नित्यम् तमट्-आगमः विधीयते ।

यथा -

  1. षष्टेः पूरणम् षष्टितमः ।

  2. सप्ततेः पूरणः सप्ततितमः ।

  3. अशीतेः पूरणः अशीतितमः ।

  4. नवतेः पूरणः नवतीतमः ।

ज्ञातव्यम् -

  1. अस्य सूत्रस्य प्रसक्तिः 'असङ्ख्यादेः' विषये एव अस्ति । अतः एकषष्टि, द्विषष्टि, एकसप्तति - एतेषां विषये वर्तमानसूत्रम् न प्रयुज्यते, अतः तेभ्यः विहितस्य डट्-प्रत्ययस्य विकल्पेनैव तमट्-आगमः भवति । यथा - एकषष्टः / एकषष्टितमः , एकसप्ततः / एकसप्ततितमः - आदयः ।

  2. 'शत' इत्यस्मात् अग्रे विद्यमानाः ये शब्दाः तेभ्यः विहितस्य डट्-प्रत्ययस्य तु नित्यं शतादिमासार्धमाससंवत्सराच्च 5.2.57 इत्यनेन नित्यमेव 'तमट्' आगमः भवति । अतः वर्तमानसूत्रस्य प्रसक्तिः केवलम् 'षष्टि', 'सप्तति', अशीति', तथा 'नवति' एतेषां विषये एव वर्तते ।

Balamanorama

Up

index: 5.2.58 sutra: षष्ट्यादेश्चासंख्यादेः


षष्ट्यादेश्चासंख्याऽऽदेः - षष्ठआदेश्चासह्ख्यादेः । सङ्ख्यापूर्वपदात्पष्टआदेः परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । विंशत्यादिभ्यः॑ इति विकल्पस्याऽपवादः । एकषष्टः एकषष्टितम इति । सङ्ख्यादित्वान्नित्यस तमटोऽभावे 'विंशत्यादिभ्यः' इति डटस्तमड्विकल्पः । तमडभावे डटियस्येति चे॑ति इकारलोपे 'एकषष्ट' इति रूपम् । ननु केवलसात्षष्टआदेर्विहितस्य नित्यतमटः सह्ख्यादेः कथं प्रसक्तिः, तमडागमविधेरप्रत्ययविधित्वेऽपिग्रहणवता प्रातिपदिकेन तदन्तविधिं ज्ञापयति । तेन 'विंशत्यादिभ्यः' इति पूर्वसूत्रमेकविंशतितम इत्यादावपि प्रवर्तत इति भाष्ये स्पष्टम् । एवंच 'एकान्नविंशतितमः' इत्यपि सिद्धम् ।

Padamanjari

Up

index: 5.2.58 sutra: षष्ट्यादेश्चासंख्यादेः


संक्यादेस्तु विक्लप एवभवतीति। न ह्ययं विकल्पस्यापि प्रतिषेधः। पर्युदासो ह्ययं संख्यादेः, न विधिर्न प्रतिषेधः, यदि केनचित् प्राप्नोति भवत्येव पूर्वेण च प्राप्नोति, प्रसज्यप्रतिषेधेऽप्यनन्तरा प्राप्तिः प्रतिषिध्यते, न व्यवहिता ॥