5-1-59 पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् ःअरति वहति आवहति तत् अस्य परिमाणम्
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
'तत् अस्य परिमाणम्' (इति) पङ्क्ति; 'तत् अस्य सङ्घस्य परिमाणम्' (इति) विंशति-त्रिंशत्-चत्वारिंशत्-पञ्चाशत्-षष्टि-सप्तति-अशीति-नवति-शतम्
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
'तत् अस्य परिमाणम्' अस्मिन् अर्थे 'पङ्क्ति' शब्दः, तथा 'तत् अस्य सङ्घस्य परिमाणम्' अस्मिन् अर्थे 'विंशति', 'त्रिंशत्', 'चत्वारिंशत्', 'पञ्चाशत्', 'षष्टि', 'सप्तति', 'अशीति', 'नवति', 'शतम्' - एते शब्दाः निपात्यन्ते ।
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
तदस्य परिमाणम् 5.1.47 इति वर्तते। पङ्क्त्यादयः शब्दा निपात्यन्ते। यदिह लक्षणेन अनुपपन्नं तत् सर्वं निपातनात् सिद्धम्। पञ्चाना टिलोपः तिश्च प्रत्ययः। पञ्च परिमाणमस्य पङ्क्तिश् छन्दः। द्वयोर्दशतोः विन्भावः शतिश्च प्रत्ययः द्वौ दशतौ प्रैमाणमस्य सङ्घस्य विंशतिः। त्रयाणां दशतां त्रिन्भावः शत् च प्रत्ययः। त्रयो दशतः परिमाणमस्य त्रिंशत्। चतुर्णां दशतां चत्वारिन्भावः शत् च प्रत्ययः। चत्वारो दशतः परिमाऽणस्य चत्वारिंशत्। पञ्चानां दशतां पञ्चाभावः शत् च प्रत्ययः। पञ्च दशतः परिमाणामस्य पञ्चाशत्। षण्णां दशतां षड्भावः, तिः प्रत्ययोऽपदत्वं च। षङ् दशतः परिमाणमस्य षष्टिः। सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च। सप्त दशतः परिमाणमस्य सप्ततिः। अष्टानां दशतामशीभावः तिः प्रत्ययश्च। अष्टौ दशतः परिमाणमस्य अशीतिः। नवानां दशतां नवभावः तिः प्रत्ययश्च। नव दशतः परिमाणमस्य नवतिः। दशनां दशतां शभावः तश्च प्रत्ययः। दश दशतः परिमाणमस्य सङ्घस्य शतम्। विंशत्यादयो गुणशब्दाः, ते यथा कथंचिद् व्युत्पाद्याः। न अत्र अवयवार्थेऽभिनिवेष्टव्यम्। तथा हि पङ्क्तिः इति क्रमसम्निवेशेऽपि वर्तते, ब्राह्मणपङ्क्तिः, पपीलिकापङ्क्तिः इति। न च अत्र अवयवार्थः कश्चिदस्ति। या च एषां विषयभेदेन गुणमात्रे गुणिनि च वृत्तिः, स्वलिङ्गसङ्ख्यानुविधानं च, एतदपि सर्वं स्वाभाविकम् एव। सहस्रादयोऽप्येवं जातियकाः तद्वदेव द्रष्टव्याः। उदाहरणमात्रम् एतदिति।
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
एते रूढिशब्दा निपात्यन्ते ॥
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
एते रूढिशब्दा निपात्यन्ते॥
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
'अस्य परिमाणम्' अस्मिन् अर्थे केचन विशिष्टाः शब्दाः अनेन सूत्रेण निपात्यन्ते । क्रमेण पश्यामः -
पन्चन् [प्रकृत्याः मूलरूपे नकारः विद्यते । प्रक्रियायाः अन्ते तस्य अनुस्वार-परसवर्णे ञकारः भवति । अतः अत्र नकारेणैव प्रक्रिया दर्शनीया ]
→ पन्चन् + ति [निपातनात् 'ति' प्रत्ययः]
→ पन्च् + ति [निपातनात् टिलोपः । अङ्गस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इति पदसंज्ञा]
→ पन्क् + ति [चोः कुः 8.2.30 इति कुत्वम् ।
→ पंक् + ति [नश्चापदान्तस्य झलि 8.3.24 इति नकारस्य अनुस्वारः]
→ पङ्क् + ति [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]
→ पङ्क्ति ।
क्रमः (row) अस्मिन् अर्थे अपि अस्य शब्दस्य प्रयोगः भवति । यथा - ब्राह्मणपङ्क्तिः (A queue of brahmins इत्यर्थः) ।
अग्रे निर्दिष्टाः सर्वे शब्दाः 'तत् परिमाणमस्य सङ्घस्य' अस्मिन् अर्थे निपात्यन्ते । अत्र 'सङ्घ' इत्यस्य अर्थः 'प्राणिसमुदायः' (group of animals) इति विद्यते । (Note - The word 'animal' here represent all living things except plants) ।
द्वि + दशत् + शतिच् ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शतिच्' प्रत्ययः निपात्यते । ]
→ विन् + शति [चकारस्य इत्संज्ञा, लोपः । अग्रे निपातनात् सम्पूर्णस्य अङ्गस्य विन् ' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]
→ विंशति [नश्चापदान्तस्य झलि 8.3.24 इति अपदान्त-नकारस्य अनुस्वारः]
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('मति'शब्दवत्) भवन्तीति बालमनोरमायाम् स्पष्टीक्रियते ।
त्रि + दशत् + शत् ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शत्' प्रत्ययः निपात्यते । ]
→ त्रिन् + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य 'त्रिन्' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]
→ त्रिंशत् [नश्चापदान्तस्य झलि 8.3.24 इति अपदान्त-नकारस्य अनुस्वारः]
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('सरित्'शब्दवत्) भवन्ति ।
चतुर् + दशत् + शत् ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शत्' प्रत्ययः निपात्यते । ]
→ चत्वारिन् + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य 'चत्वारिन्' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]
→ चत्वारिंशत् [नश्चापदान्तस्य झलि 8.3.24 इति अपदान्त-नकारस्य अनुस्वारः]
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('सरित्'शब्दवत्) भवन्ति ।
पञ्च + दशत् + शत् ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'शत्' प्रत्ययः निपात्यते । ]
→ पञ्चा + शत् [निपातनात् सम्पूर्णस्य अङ्गस्य 'पञ्चा' इति आदेशः भवति ।]
→ पञ्चाशत्
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे ('सरित्'शब्दवत्) भवन्ति ।
षट् + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]
→ षष् + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'षष्' इति आदेशः भवति, तथा च अस्य पदसंज्ञा अपि निषिध्यते ।]
→ षष् + टि [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]
→ षष्टि
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।
सप्त + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]
→ सप्त + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'सप्त' इति आदेशः भवति।]
→ सप्तति ।
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।
अष्ट + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]
→ अशी + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'अशी' इति आदेशः भवति ।]
→ अशीति
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।
नव + दशत् + ति ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'ति' प्रत्ययः निपात्यते । ]
→ नव + ति [निपातनात् सम्पूर्णस्य अङ्गस्य 'नव' इति आदेशः भवति ।]
→ नवति
अस्य शब्दस्य रूपाणि नित्यं एकवचने स्त्रीलिङ्गे 'मति'शब्दवत् भवन्ति ।
दश + दशत् + त ['दशानाम् वर्गः' अस्मिन् अर्थे पञ्चद्दशतौ वर्गे वा 5.1.60 इत्यनेन दशत्-शब्दः निपात्यते । तस्मात् वर्तमानसूत्रेण 'त' प्रत्ययः निपात्यते ।
→ श + त [निपातनात् सम्पूर्णस्य अङ्गस्य 'श' आदेशः भवति ।]
→ शत
अस्य शब्दस्य रूपाणि नित्यं एकवचने पुंल्लिङ्गे 'बाल'शब्दवत् तथा नपुंसकलिङ्गे 'फल' शब्दवत् भवन्ति । अस्य शब्दस्य स्त्रीलिङ्गे रूपाणि न जायन्ते ।
अनेन प्रकारेण वर्तमानसूत्रेण 'पङ्क्ति', 'विंशति', 'त्रिंशत्', 'चत्वारिंशत्', 'पञ्चाशत्' , 'षष्टि', 'सप्तति', 'अशीति', 'नवति' तथा 'शतम्' एतानि अव्युत्पन्नानि प्रातिपदिकानि निपात्यन्ते ।
ज्ञातव्यम् -
भाष्यकारस्य मतेन अन्यानि अव्युत्पन्नानि प्रातिपदिकानि - यथा - सहस्रम्, अयुतमादीनि अपि अनेन प्रकारेण एव निपाततेन साधनीयानि ।
अस्मिन् सूत्रे निर्दिष्टा शब्दाः 'सङ्घ' इत्यस्मिन् अर्थे एव निपात्यन्ते । लौकिकभाषायाम् 'सङ्ख्या'रूपेण प्रयुज्यमानाः विंशति-आदयः शब्दाः सर्वथा भिन्नाः सन्ति । The words given in this sutra should not be confused with similar looking words (like विंशति etc) which are used to denote corresponding numbers.
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टि- सप्तत्यशीतिनवतिशतम् - पङ्क्तिविंशति । रूढिशब्दा निपात्यन्त शति ।तदस्य परिमाणमित्यर्थे॑ इति शेषः । पञ्च पादाः परिमाणमस्येत्यर्थे पञ्चन्शब्दात्तिप्रत्ययः , प्रकृतेष्टिलोपः, चकारस्य कुत्वम्, अनुस्वारपरसवर्णौ । पङ्क्तिरिति रूपम् ।पञ्चाक्षरा पञ्चपदा पङ्क्ति॑रिति छन्दःशास्त्रे । दशानां वर्गः दशत् ।पञ्चद्दशतौ वर्गे वा॑ इति वक्ष्यते । द्वौ दशतौ परिमाणमस्य सङ्घस्येति विंशतिः । शतिच्प्रत्ययः, प्रकृतेर्विन्भावः, अनुस्वारश्च । अत्र सङ्घग्रहणमनुवर्तते । तथा च गवां विंशतिरिति भवति । सङ्घसङ्घिनोस्तादात्म्यविवक्षायां तु विंशतिर्गाव इति भवति । स्वभावादेकवचनं स्त्रीत्वं च । एवं तिंरशदादावपि ।विंशत्याद्याः सदैकत्वे संख्याः संख्येयसङ्ख्ययो॑रिति,तासु चानवतेः स्त्रियः॑ इति चाऽमरः । त्रयो दशतः परिमाणमस्य सङ्घस्य त्रिशत्, शत्प्रत्ययः, प्रकृतेः त्रिन्भावश्च । चत्वारो दशतः परिमाणमस्य सङ्घस्य चत्वारिंशत् । शत्प्रत्ययः, प्रकृतेः चत्वारिन्भावश्च । पञ्च दशतः परिमाणमस्य सङ्घस्य पञ्चाशत् । शत्प्रत्ययः, प्रकृतेः पञ्चादेशः । षड् दशतः परिमाणमस्य सह्घस्य षष्ठिः । तिप्रत्ययः, प्रकृतेः षष्, जश्त्वाऽभावश्च । सप्त दशतः परिमाणमस्य सङ्घस्य सप्ततिः । तिप्रत्ययः, प्रकृतेः सप्तादेशः । अष्टौ दशतः परिमाणमस्य सङ्घस्य अशीतिः । तिप्रत्ययः, प्रकृतेरशीत्यादेशः । नव दशतः परिमाणमस्य सङ्घस्य नवतिः । तिप्रत्ययः, प्रकृतेर्नवादेशः । दश दशतः परिमाणमस्य सङ्घस्य शतम् । तप्रत्ययः, प्रकृतेः शादेशश्च । एतत्सर्वं भाष्ये स्पष्टम् ।एतान्यव्युत्पन्नप्रातिपदिकानी॑ति तु भाष्यनिष्कर्षः ।
index: 5.1.59 sutra: पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम्
पंक्त्यादयः शबाद निपात्यन्त इति। प्रकृतिनिर्देशस्त्वयं न भवति; पंक्त्यादिभ्यः प्रकृतेऽर्थेऽधिकृतः प्रत्ययो भवतीति पञ्चम्या अनुपदानात्, पूर्वेणैव च सिद्धत्वात्, उतरेण निपातनेन साहचयच्चि। प्रत्ययनिर्द्देशोऽपि न भवति - ङ्याप्प्रातिपदिकात्प्रकृतेऽर्थे पंक्तयादयः प्रत्यया भवन्तीति, लोके शास्त्रे च'शतच्च ठन्यतावशते' इत्यादौ केवलानां प्रयोगदर्शनाद्। यत्र समुदायः श्रूयते, अवयवा अनुमीयन्ते तन्निपातनम्, विपरीतो विधिः। पञ्चानामिति। अर्थगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्, पञ्चशब्दस्योत्यर्थः। टिलोपस्तिच्च प्रत्यय इति। निपात्यय इत्यर्थः। अवयवनिपातननान्तरीयकत्वात्समुदायनिपातनस्य। यद्वा -'निपातनात्सिद्धम्' इत्यस्य पुंल्लिङ्गविपरिणामेनान्वयः, कुत्वं तु चकारञकारयोर्न निपात्यम्,'चोः कुः' इत्येव सिद्धम्। पञ्च पदानीति। पदशब्दः पादपर्यायः। पंक्तिशच्छन्द इति। तत्पुनः पदपंक्तिः, यस्य पञ्चाक्षराः पञ्च पादा भवन्ति। द्वयोर्दशतोरिति। दशद्वयरूपसंख्येयमाचक्षाणस्य द्विशब्दस्येत्ययमत्रार्थो विवक्षितः। एवं त्रयाणाम् दशतामित्यादावपि द्रष्टव्यम्। शतिच्च प्रत्य इति। चित्करणमन्तोदातार्थम्। अपदत्वं चेति। तेन जश्तवचर्त्वे न भवतः। अत्र'तदस्य परिमाणमिति वर्तते' इत्युक्तम्, द्वौ दशतौ परिमाणमस्येत्यादिश्च विग्रहो दर्शितः। यदा तु ननुवर्तते तदा द्विशदादेर्दशब्दर्थाभिधायिनः स्वार्थे प्रत्ययो निपात्यः - द्वौ दशतौ विंशतिः, त्रयोदशतस्त्रिंशद् इति; ततश्च स्वर्थिकानां प्रकृतितो लिङ्गवचनानुवृतेद्विशब्दादेरिव द्विवचनबहुवचनप्रसङ्गः। विंशत्यादि भिश्च दशतामभिधानमिति गवादिभिर्वैक्यधिकरण्यमेव स्याद् - गवां विंशतिरिति, न तु विंशतिर्गाव इति सामानाधिकरण्यम्, नापि द्विगुः - विंशतिगवमिति, तस्मादनुवर्तयम्। अथास्येत्यनेन कः प्रतिनिर्दिश्यते ? परिमाणी। कः पुनरसौ ? भिन्नानि द्रव्याणि - द्वौ दशतौ परिमाणमेषां विशतिरिति। यद्येवम्, विंशत्यादिभिर्द्रव्याणामभिधानमिति बहुवचनप्रसङ्गाद्विशतिर्गाव इति न स्यात्, गवां विंशतिर्गोविंशतिरिति च न स्याद्, व्यतिरेकाभावात् ? अथास्मिन् पक्षे किञ्चिचदिष्टमपि सिद्धम्, आहोस्विद्दोषान्तमेवास्ति ? इत्याह - इह विशतिगवं त्रिंशत्पूलीति समानाधिकरणलक्षणो द्विगुः सिद्धः; तस्मान्न भिन्नानि द्रव्याणि परिमाणीनि, एतच्च सर्वेष्वेव विग्रहवाक्येष्वस्येत्येकवचनेन दर्शितम्। कस्तहिं परिमाणी ? सङ्घः - द्वौ दशतौ परिमाणमस्य गोसङ्गस्य'विंशतित्रिशद्भयां ड्तुन्' विशकः सङ्ग इति न स्यात्; सङ्गान्तरस्य परिमाणिनोऽसम्भवात्। अतोमयं परिमाणिभिन्ना द्रव्याणि तत्संघश्च, तत्र सङ्घपरिमाणिनि व्यधिकरणप्रयोगाः, द्रव्येषु तु परिमाणिषु समानाधिकरणप्रयोगाः, तत्रैव विंसतिर्गावः परिमाणमस्य विंशको गोसङ्ग इति भविष्यतीत्युच्येत् ? एवमपि विंशतिर्गाव इत्यत्र बहुवचनप्रसङ्गः, तथा सङ्घस्य परिमाणत्वे विंशतिर्गोसङ्ग इति प्राप्नोति, न चेष्यते, विंशक इत्येव हि तत्रेष्यते। एवं तर्हि द्वावत्र सङ्गौ स्तः - द्वव्याणामेकः, द्रव्यवर्गयोर्दशतोश्चापरः; तत्र निपातनसामर्थ्याद्दशत्संघे परिमाणिनि प्रत्ययः, सङ्श्च समुदायमात्रं न प्राणिनामेव किं हि निपातनादलभ्यम्, तत्र दशत्सङ्घस्य विंशतिशब्देनाभिधानाद् गोसंघे विवक्षिते विशतिः परिमाणमस्य विशको गोसङ्घ इति च भविष्यति, विशतिर्गोसङ्घ इति च न भविष्यति, गवां विंशतिर्गोविंशतिरिति च भविष्यति। ननु दशत्सङ्घस्य दशतौ गुणिनौ न गावः, तेन दशतोर्विशतिरिति प्रापनोति, गवां विशतिरिति तुन सिद्धयति ? उच्यते; द्रवल्याणां द्रव्यसङ्गस्य दशतां दशत्सङ्स्य च न पारमाथिको भेदोऽस्ति, केवलं बपुद्धया परिकल्प्यते, ततश्च गवां दशतोश्च तात्विकभेदाभावद्दशत्सङ्घमपि प्रतिगवामपि गुणित्वमुपपद्यते। व्यभिचारभावातु दशद्भ्यां विशतितर्न विशेष्यते गवादिभिरेव तु विशेष्यते, यथा - पटस्य शौक्ल्यमिति भवति, न शुक्लस्य शौक्लामिति व्यमिचाराभावात्, तद्वदत्रापि। ऐवं तावद्व्याधिकरणप्रयोगा उपपादिताः, विंशतिर्गाव इत्यादिकास्तु समानाधिक्रणप्रयोगा उपपादनीयाः, धर्मवचना एते विशत्यादयो गुणवचना इति शुक्लादिवद्भविष्यति। यथा हि-पटस्य शुक्लो गुण इति गुणमात्रे दृष्टः शुक्लशब्दो गुणगुणिनोरव्यतिरेकविवक्षायां मतुब्लोपाद्वा समानाधिकरणो बवति शुक्लः पट इति। एवं विशत्यादयोऽपि। यद्येवम्, यथान्ये गुणवचना द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते, यथा - शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ, शुक्ल इति, एवं विंशत्यादयोप्यनुवतेरन् ? इह पुनर्विशतिर्गावः विंशतिर्बलीवर्द्दाः विशतिर्गोकुलानीति नित्यमेकवचनं स्त्रीलिङ्गं च भवति, शतशब्दातु नपुंसकत्वम्, विंशती विशतयः शते शतानीति तु प्रचयभेदविवक्षायामेकशेषः ? अत्रोच्यते - यस्य धमेस्य धमिणा सहाभेदः प्रतिपाद्यते, स चेतेषु प्रत्येकपरिसमाप्तः तदा तस्यापि धर्मिवद्भिन्नत्वाद् द्विवचनबहुवचने भवतः, यथा शुक्लौ, शुक्ला इति। शौक्ल्यं हि कम्बलेषु प्रत्येकपरिसमाप्तम्, कोऽर्थः ? एकैकस्मिन्नपि कम्बले शुक्लशब्दार्थः पुष्कलः, न मात्रयापि न्यून इत्यर्थः। विशतिर्गाव इत्यत्र तु विंशतिसंख्या न प्रत्येकपरिसमाप्ता, किं तर्हि ? बहुष्विति। तद्रूपभेदाभावादेकवचनमेव भवति, यथा - गावो धनम्, इन्द्राग्नी देवता, वेदाः प्रमाणमिति। धिनोर्तेर्धनं प्रीतिहेतुः, समुदितानां च गवां प्रीतिहेतुत्वं विवक्षितम्, नैकैकस्या इति धनमेकं गोभिर्विशेष्यते, तत्र धनाकारे बेदाभावाद् बहुवचनाभावः। इन्द्राग्नी देवतेति दिवरैश्वर्यकर्मणोर्देअवतासङ्घस्य च देवतात्वमेकं इविः प्रतीति द्विवननाभावः। देवते इति तूच्यमाने प्रत्यकमैश्वर्य प्रतीयेत, ततश्च व्रीहियवयोरिव विकल्पः स्यात्। वेदाः प्रमाणमिति चतुर्णा समुदितानां वेदानामेकं प्रमाणत्वं विवक्षितमिति तस्मिन्नाकारे भेदाभावाद् बहुवचनाभावः, प्रत्येकं तु प्रामाण्ये वेदाः प्रमाणानीति भवत्येव। यद्येवम्, त्रयश्चत्वारः पञ्च षट् सप्तेत्यत्राप्येकवचनप्रसङ्गः, न हि त्रित्वादिकमपि प्रत्येकपरिसमाप्तम् ? उच्यते; त्र्यादयो नित्यं संख्येयवचनाः, न तु कदाचिदपि संख्यानमात्रवचना इत्येकेन ध्रमेण व्यासज्यवृत्तिना सहानेकस्य धमिंणो भेदप्रतिपादनाभावाद्धर्मिबेदाश्रयं बहुवचनमेव भवति। यद्यपि त्रित्वमित्यादौ संख्यानमात्रमपि निष्टष्ट्ंअ प्रतीयते, त्र्यादिभिस्तु न प्रतीयते। देवताशब्दस्तु यद्यपि निष्कृष्टदेवतात्वमाचष्टे, तथाप्यन्निर्देअवतेत्येकेनापि स भिन्नदेवतात्वमाचष्टे, नानेकेनैव सर्वदा। त्र्यादयस्तु न क्वचिदप्येवमिति विशेषः। लिङ्गमपि लोकाश्रयत्वाद्यथादर्शितं व्यवतिष्ठते, न तद्धितान्तत्वेनाभिधेयवदिति सर्वमनाकुलम्। एवं भाष्यकारमतेन व्याख्याय संप्रति वार्तिककारमतं दर्शयति -'विशत्यादय इति। गुणशब्दा इति। रूढिरूपा इति भावः। यथाकथञाचिद्व्युत्पाद्या इति। स्वरवर्णानुपूर्वीज्ञानार्थम्, न त्ववयवार्थप्रदर्शनाय, तदाह - नात्रावयवार्थे' भिनिवेष्टव्यमिति। अवयवार्थविषयोऽभिनिवेशो न कर्तव्य इत्यर्थः। स तु प्रतीतिपथं नारोहतीति परित्यज्यते। या चैषामित्यादि। दर्शिता च गुणमात्रे गुणिनि च वृत्तिः, एतदपि सर्त्रं स्वाभाविकमेवेति दर्शितामुपपति स्थिरां मन्यते। सहस्रादयोऽप्येवञ्जातीयका इति। गुणमात्रे गुणिनि च वर्तन्ते, स्वलिङ्गसंख्यानुविधायिनश्चेत्यर्थः। तद्वदेव द्रष्टव्या इति। स्वरवर्णापूर्वीज्ञानार्थं विंशत्यादिवद्व्युत्पाद्या इत्यर्थः। तद्यथा-शतश्य दशतां सहभावः स्रच्च प्रत्ययः॥ क्व पुनरेते व्युत्पाद्याः ? पृषोदरादिषु। उदाहरणामात्रम् प्रदर्शनमात्रमेतद्विशत्यादीनामुपादानम्। इतिशब्दः समाप्तौ। अत्र वार्तिकम् - ठनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषुऽ इति ॥