नित्यं शतादिमासार्धमाससंवत्सराच्च

5-2-57 नित्यं शतादिमासार्धमाससंवत्सरत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे तमट्

Sampurna sutra

Up

'तस्य पूरणे' (इति) शतादि-मास-अर्धमास-संवत्सरात् डटः तमट् अन्यतरस्याम् च

Neelesh Sanskrit Brief

Up

षष्ठीसमर्थेभ्यः 'शत' आदिभ्यः शब्देभ्यः, तथा च 'मास', 'अर्धमास', 'संवत्सर' एतेभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे विहितस्य डट्-प्रत्ययस्य नित्यम् 'तमट्' आगमः भवति ।

Kashika

Up

शतादयः संख्याशब्दा लौकिका गृह्यन्ते। शतादिभ्यो मासार्धमाससंवत्सरशब्देभ्यश्च परस्य डटो नित्यं तमडागमो भवति। मासादयः संख्याशब्दा न भवन्ति, तेभ्योऽस्मादेव ज्ञापकाद् डट् प्रत्ययो विज्ञायते। शतस्य पूरणः शततमः। सहस्रतमः। लक्षतमः। मासस्य पूरणो मासतमो दिवसः। अर्धमासतमः। संवत्सरतमः। <<षष्ट्यादेश्चासंख्यादेः>> ५.२.५८ इति वक्ष्यमाणेन सिद्धे शतादिग्रहणं संख्याद्यर्थम्। एकशततमः। द्विशततमः॥

Siddhanta Kaumudi

Up

शतस्य पूरणः शततमः । एकशततमः । मासादेरतएव डट् । मासतमः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्य पूरणे डट्>> 5.2.48 अनेन सूत्रेण सर्वेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणम्' अस्मिन् अर्थे औत्सर्गिकरूपेण 'डट्' इति प्रत्ययः भवति । 'विंशति' तथा तस्मात् अग्रे ये शब्दाः विद्यन्ते, तेभ्यः विहितस्य अस्य डट्-प्रत्ययस्य <<विंशत्यादिभ्यस्तमडन्यतरस्याम्>> 5.2.56 इत्यनेन 'तमट्' इति विकल्पेन आगमः अपि भवति । परन्तु 'शत' इत्यस्मात् अग्रे विद्यमानानां शब्दानां विषये विहितस्य डट्-प्रत्ययस्य अनेन सूत्रेण नित्यम् तमट्-आगमः विधीयते । तथा च 'मास', 'अर्धमास', 'संवत्सर' एतेषाम् विषये अपि वर्तमानसूत्रेण पूरणार्थे 'डट्' प्रत्ययः तथा च तस्य 'तमट्' आगमः विधीयते । क्रमेण पश्यामः - 1. 'शतादि' - 'शत' तथा तस्मात् अग्रे ये सङ्ख्यावाचकाः शब्दाः विद्यन्ते, तेभ्यः विहितस्य डट्-प्रत्ययस्य नित्यम् 'तमट्' आगमः भवति । शतस्य पूरणः = शत + तमट् + डट् → शततम् + अ [<<टेः>> 6.4.143 इति टिलोपः] → शततम एवमेव - द्विशतस्य पूरणः द्विशततमः । शतोत्तरएकस्य पूरणः शतोत्तरएकतमः । सहस्रस्य पूरणः सहस्रतमः । लक्षस्य पूरणः लक्षतमः । 2. 'मास', 'अर्धमास', तथा 'संवत्सर' एते शब्दाः संख्यासंज्ञकाः न सन्ति, अतः तेभ्यः वस्तुतः <<तस्य पूरणे डट्>> 5.2.48 अस्य सूत्रस्य प्रसक्तिः एव नास्ति । परन्तु वर्तमानसूत्रेण विधानसामर्थ्यात् तेभ्यः अपि पूरणार्थे 'डट्' प्रत्ययः तथा तस्य नित्यम् तमट्-आगमः भवति यथा - अ) मासस्य पूरणः मासतमः दिवसः । मासस्य अन्तिमदिवसस्य इयम् संज्ञा । आ) अर्धमासस्य पूरणः अर्धमासतमः दिवसः । अर्धमासस्य अन्तिमदिवसस्य इयं संज्ञा । इ) संवत्सरस्य पूरणः संवत्सरतमः दिवसः । संवत्सरस्य अन्तिमदिवसस्य इयम् संज्ञा । विशेषः - वस्तुतः अग्रिमसूत्रेण <<षष्ट्यादेश्चासंख्यादेः>> 5.2.58 इत्यनेन 'शतम्' इत्यस्मात् विहितस्य डट्-प्रत्ययस्य नित्यम् तमट्-आगमः उच्यते एव । परन्तु तस्मिन् सूत्रे 'असङ्ख्यादेः' इति निर्दिष्टमस्ति, अतः 'एकाधिकशतम्', 'द्विशतम्', 'त्रिशतम्', 'एकोनशतम्' एतेषां विषये <<षष्ट्यादेश्चासंख्यादेः>> 5.2.58 इत्यस्य प्रसक्तिः नैव वर्तते । एतेभ्यः शब्देभ्यः विहितस्य डट्-प्रत्ययस्य अपि तमट्-आगमः भवेत्, एतत् स्पष्टीकर्तुमस्मिन् सूत्रे 'शत' इत्यस्य ग्रहणं क्रियते ।

Balamanorama

Up

<<नित्यं शतादिमासार्धमाससंवत्सराच्च>> - नित्यं शतादि । शतादिभ्यो मासात् अर्धमासात्संवत्सराच्च परस्य डटो नित्यं तमडागमः स्यादित्यर्थः । ननुषष्ठआदेश्चे॑त्युत्तरसूत्रेण शततमः सिध्यतीत्यत आह — एकशततम इति ।असङ्ख्यादे॑रिति पर्युदासादुत्तरसूत्रस्य नात्र प्रवृत्तिरिति भावः । ननु मासार्धमाससंवत्सरशब्दानां सङ्ख्यावाचित्वाऽभावात्तेभ्यो डट एवाऽप्रसक्तेस्तस्य कथं तदड्विधिरित्यत आह — मासादेरिति । मासतम इति । मासस्य पूरणः-अर्धमासादिरवयवः । अर्धमासतम इति । अर्धमासस्य पूरणस्तिथ्यादिरवयवः । संवत्सरतम इति । संवत्सरस्य पूरणो मासादिरवयवः ।

Padamanjari

Up

मासादय इत्यादिर्विज्ञायत इत्यन्त एको ग्रन्धः। अथ शतादिग्रहणं किमर्थम्, यावता'षष्ट।लदेश्च' इति वक्ष्यमाणेनैवसिद्धम् ? तत्राह - षष्ट।लदेरित्यनेनैवेति। यदि तेन स्याद्, एकशतादिभ्यो न स्याद्; असंख्यादेरिति प्रतिषेधात् ॥