5-2-47 सङ्ख्यायाः गुणस्य निमाने मयट् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.47 sutra: संख्याया गुणस्य निमाने मयट्
'तत् अस्य' (इति) सङ्ख्यायाः गुणस्य निमाने मयट्
index: 5.2.47 sutra: संख्याया गुणस्य निमाने मयट्
कस्यचन वस्तुनः मूल्यम् कस्यचन अन्यवस्तुनः भागानाम् सङ्ख्यायाः निर्देशेन कारयितुम् प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अस्य मूल्यम्' इत्यस्मिन् अर्थे मयट्-प्रत्ययः भवति ।
index: 5.2.47 sutra: संख्याया गुणस्य निमाने मयट्
When the cost of 'one unit' of an entity is to be expressed in terms of the cost of 'multiple units' of another entity, मयट् प्रत्यय can be applied to the number that represents the 'number of units' of the second entity.
index: 5.2.47 sutra: संख्याया गुणस्य निमाने मयट्
तदस्य इत्यनुवर्तते तदस्य सञ्जातम् इत्यतः। तदिति प्रथमासमर्थात् सङ्ख्यावाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे मयट् प्रत्ययो भवति यत् तत् प्रथमासमर्थं गुणस्य चेन् निमाने वर्तते। गुणो भागः निमानं मूल्यम्। गुणो येन निमीयते मूल्यभूतेन सोऽपि सामर्थ्याद् भाग एव विज्ञायते। यवानां द्वौ भागौ निमानमस्य उदश्विद्भागस्य द्विमयमुदश्विद् यवानाम्। त्रिमयम्। चतुर्मयम्। भागेऽपि तु विधीयामानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे। तेन सामान्याधिकरण्यं भवति द्विमयमुदश्वितिति। गुणस्य इति चैकत्वं विवक्षितं, तेन इह न भवति, द्वौ भागौ यवानां त्रय उदश्वितः इति। भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते। इह न भवति, एको भागो निमानमस्य इति। भूयसः इति च प्रत्ययार्थात् प्रकृत्यर्थस्य अधिक्यमात्रं विवक्षितम्। बहुत्वमतन्त्रं, तेन द्विशब्दादपि भवति। गुणशब्दः समानावय्ववचनः। तेन इह न भवति, द्वौ भागौ यवानामध्यर्ध उदश्वितः इति। निमेये चापि दृश्यते। निमेये वर्तमानायाः सङ्ख्याया निमाने प्रत्ययो दृश्यते। उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य द्विमया यवा उदश्वितः। त्रिमया यवा उदश्वितः। चतुर्मयाः। गुणस्य इति किम्? द्वौ व्रीहियवौ निमानमस्य उदश्वितः। निमाने इति किम्? द्वौ गुणौ क्षीरस्य एकस्तैलस्य, द्विगुणं पच्यते तैलं क्षीरेण इत्यत्र मा भूत्।
index: 5.2.47 sutra: संख्याया गुणस्य निमाने मयट्
भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥
index: 5.2.47 sutra: संख्याया गुणस्य निमाने मयट्
अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः -
अस्मिन् सूत्रे 'मयट्' इति प्रत्ययः उक्तः अस्ति । अयम् प्रत्ययः संख्यावाचिभ्यः शब्देभ्यः क्रियते । यथा - पञ्चन् + मयट् → पञ्चमय । द्वि + मयट् → द्विमय । शतम् + मयट् → शतमय - आदयः ।
यत्र कस्यचन वस्तुनः एकस्य भागस्य मूल्यम् कस्यचन अन्यवस्तुनः द्वौ वा अधिकान् भागान् यावत् अस्ति, तत्र वर्तमानसूत्रस्य प्रयोगः भवति । When the cost of one unit of an entity is to be expressed in terms of the cost of two-or-more unit of another entity, then the current sutra is used.
यथा - 'यवानाम् द्वयोः भागयोः एकत्ररूपेण यत् मूल्यम्, तदेव उदश्वितः एकस्य भागस्य मूल्यमस्ति' (The cost of one unit of the buttermilk is same as the cost of two unit of barley. That is, one can give two units of barley and in return take one part of buttermilk - इत्याशयः) । अस्याम् स्थितौ 'द्वि' इत्यस्मात् सङ्ख्यवाचिशब्दात् 'मयट्' प्रत्ययं कृत्वा 'द्विमय' शब्दः सिद्ध्यति, येन 'द्विमयमुदश्वित् यवानाम्' एतत् वाक्यम् जायते ।
विशेषः - 'मेङ् प्रणिदाने' अस्मात् धातोः 'नि' उपसर्गं कृत्वा 'निमीयते (क्रीयते) अनेन तत् निमानम्' अनेन प्रकारेण ल्युट्-प्रत्ययं कृत्वा 'निमानः' शब्दः सिद्ध्यति ।
इदानीम् सूत्रार्थः स्पष्टः स्यात् - कस्यचन वस्तुनः ( उदश्वितः) मूल्यम् कस्यचन अन्यवस्तुनः ( यवानाम् ) भागानाम् सङ्ख्यायाः ( द्वौ इत्यस्य ) निर्देशेन कारयितुम् प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् ( 'द्वि' शब्दात् ) 'अस्य मूल्यम्' इत्यस्मिन् अर्थे मयट्-प्रत्ययः भवति । यवानाम् द्वौ भागौ निमानमस्य उदश्विद्भागस्य तत् द्विमयमुदश्वित् ।
.
अस्य सूत्रस्य विषये केचन विशेषबिन्दवः ज्ञेयाः । ते एतादृशाः -
अत्र विग्रहवाक्ये 'उदश्वितः एकस्य भागस्य मूल्यम्' इति निर्देशः क्रियते। इत्युक्ते, अत्र 'उदश्वितः' मूल्यम् न निर्दिश्यते, अपि तु 'उदश्वितः कस्यचन भागस्य' मूल्यमत्र निर्दिश्यते । The reference is to the cost of one unit of उदश्वित्, and not the entire उदश्वित् । अस्यां स्थितौ 'द्विमयमुदश्विद्भागः' इत्येव साधु भवेत्, न हि 'द्विमयमुदश्वित्' इति - इति संशयः जायते । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - भागेऽपि तु विधीयमानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे । तेन सामान्याधिकरण्यं भवति द्विमयमुदश्विदिति । इत्युक्ते, अत्र 'भाग' इत्यनेन 'मूलपदार्थस्यैव निर्देशः कृतः अस्ति, न हि मूलपदार्थस्य कस्यचन अंशस्य । अतः द्वयोर्मध्ये सामान्याधिकरण्यं भवितुमर्हति, येन 'उदश्वित्' शब्दात् अप्यत्र प्रत्ययविधानम् भवितुमर्हति । In the context of this sutra, the word भाग does not represent a distinct part of उदश्वित्, but it represents उदश्वित् itself, and hence it is acceptable to associate the मयट्-प्रत्ययान्त word with उदश्वित् itself.
अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा कस्यचन वस्तुनः 'एकस्य भागस्य' मूल्यमन्यवस्तुनः 'द्वौ वा अधिकान् भागान्' यावत् अस्ति ।
The sutra can only be used when 'one unit' of some entity is represented in terms of 'more than one units' of some other entity.
अतः अधोदत्तेषु उदाहरणेषु अस्य सूत्रस्य प्रयोगः न भवति -
'यवानाम् द्वौ भागौ निमानम् एषाम् त्रयाणामुदश्विद्भागानाम्' - अत्र उदश्वितः त्रयाणाम् भागानाम् मूल्यम् निर्दिश्यते, न हि एकस्य भागस्य । अतः अत्र अस्य सूत्रस्य प्रयोहः न भवति ।
'यवानाम् एकः भागः निमानमस्य उदश्विद्भागस्य' - अत्र यवानाम् एकस्य भागस्यैव मूल्यम् गृह्यते, न हि द्वयोः अधिकानाम् वा भागानाम् । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति ।
'यवानाम् द्वौ भागौ निमानमस्य अध्यर्धस्य उदश्विद्भागस्य' - अत्र उदश्वितः 'एकः भागः' न गृह्यते (अर्धः एव गृह्यते), अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति ।
यत्र 'निमानम्' इति सन्दर्भः नापेक्षते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'द्वौ भागौ क्षीरस्य एकं च तैलस्य' ( one unit of oil for every two units of milk) अत्र केवलम् प्रमाणयोः सम्बन्धः दर्श्यते, न हि मूल्यस्य । अतः अत्र वर्तमानसूत्रस्य प्रयोगः न भवति ।
अस्मिन् सूत्रे 'गुण' इत्यनेन एकस्यैव वस्तुनः भागाः गृह्यन्ते । अतः अत्र द्वयोः वा अधिकानाम् वस्तूनाम् भागैः सह मूल्यनिर्देशः क्रियते तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 'द्वौ व्रीहियवौ निमानमस्य उदश्वितभागस्य' अत्र यद्यपि 'द्वौ भागौ' इति अर्थः दृश्यते, तथापि एतौ द्वौ भागौ एकस्यैव वस्तुनः न स्तः, अपितु द्वयोः भिन्नयोः पदार्थयोः स्तः । The cost of one unit of उदश्वित् is being equated to two parts of two distinct entities (व्रीहि and यव) - इति आशयः) । अतः अत्र अस्य सूत्रस्य प्रयोगः न भवति ।
अस्य सूत्रस्य विषये भाष्यकारः ब्रूते - 'निमेये चापि प्रत्ययो दृश्यते' । इत्युक्ते, 'मयट्' प्रत्ययस्य प्रयोगः 'निमेय' अस्मिन् अर्थे अपि क्रियते । किम् नाम निमेयम् ? 'निमानं (= मूल्यम्) दत्त्वा यत् क्रीयते' तत् निमेयम् । The entity that is purchased by giving the specified cost is called निमेय । यथा, यवानां द्वौ भागौ दत्त्वा उदश्वितः एकभागस्य क्रयणम् क्रियते चेत् 'यवानां द्वौ भागौ' इति निमानम्, यथा 'उदश्वितः एकः भागः' इति निमेयम् । अस्यां स्थितौ भाष्यकारस्य मतेन अत्र 'निमेयम्' अस्मिन् अर्थे अपि अस्य सूत्रस्य प्रयोगः भवति । यथा - 'उदश्वितः त्रयः भागाः निमेयमस्य यवभागस्य' Three parts of उदश्वित् can be purchased by giving one part of यव ) इत्यत्र 'त्रिमयाः यवाः उदश्वितः' इति प्रयोगः भवितुमर्हति ।
अतः मयट्-प्रत्ययस्य विधानम् द्वयोः अर्थयोः भवितुमर्हतीति स्मर्तव्यम् -
(अ) यवानाम् द्वौ भागौ निमानमस्य उदश्वितः एकभागस्य (Two parts of यव is the cost of one part of उदश्वित्) - अत्र 'द्विमयमुदश्वित् यवानाम्' इति प्रयोगः क्रियते । अस्मिन उदाहरणे 'यवान्' दत्त्वा 'उदश्वित्' स्वीक्रियते ।
(आ) यवानाम् द्वौ भागौ निमेयमस्य उदश्वितः एकभागस्य (Two parts of यव can be purchased by giving one part of उदश्वित्) - अत्रापि 'द्विमयमुदश्वित् यवानाम्' इति प्रयोगः क्रियते । परन्तु अस्मिन् वाक्ये उदश्वितः दत्त्वा यवाः स्वीक्रियन्ते - इति विशेषः ।
अतः अस्य सूत्रस्य विषये नित्यम् वाक्यस्य सन्दर्भं दृष्ट्वा एव प्रत्ययस्य अर्थः ज्ञेयः । अस्य चित्ररूपेण स्पष्टीकरणम् अत्र अपि दत्तमस्ति, जिज्ञासुभिः तदपि दृश्यताम् ।
1) द्वि + मयट् → द्विमय ।
2) त्रि + मयट् → त्रिमय ।
3) चतुर् + मयट् → चतुर्मय ।
4) पञ्चन् + मयट् → पञ्चमय ।
5) षष् + मयट् → षण्मय । अत्र षकारस्य झलां जशोऽन्ते 8.2.39 इति डकारः भवति । ततः यरोऽनुनासिकेऽनुनासिको वा 8.4.45 इत्यनेन डकारस्य विकल्पेन णकारादेशे प्राप्ते तस्मिन्नेव सूत्रे निर्दिष्टेन <!यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्!> अनेन वार्त्तिकेन नित्यम् णकारादेशः भवति, येन 'षण्मय' इति रूपं सिद्ध्यति ।
6) विंशति + मयट् → विंशतिमय ।
7) त्रिंशत् + मय → त्रिंशन्मय । अत्रापि प्रारम्भे झलां जशोऽन्ते 8.2.39 इति दकारादेशः भवति; ततः <!यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम्!> अनेन वार्त्तिकेन नित्यम् नकारादेशः विधीयते ।
8) शत + मयट् → शतमय
index: 5.2.47 sutra: संख्याया गुणस्य निमाने मयट्
संख्याया गुणस्य निमाने मयट् - सङ्ख्याया गुणस्यतदस्ये॑त्यनुवर्तते । गुणः=भागः, अंशः । निमीयते क्रीयतेऽनेनेति निमानं=मूल्यद्रव्यम् ।मेङ् प्रणिदाने॑ । करणे ल्युट् । तदाह — भागस्य मूल्य इत्यादि । षष्ठर्थे इति । अस्येत्यर्थे इत्यर्थः ।यवानां द्वौ भागौ निमानमस्योदइआद्भागस्ये॑ति विग्रहवाक्यम् । द्वाभ्यां यवप्रस्थाभ्याम् एक उदइआत्प्रस्थः क्रियते यत्र तत्रेदं वाक्यं प्रयुज्यते ।द्विमयमुमइआद्यवाना॑मित्युदाहरणम् ।यवाना॑मिति संबन्धसामान्ये षष्ठी । यवप्रस्थद्वयेन क्रेतव्यमुदइआदित्यर्थः । द्विशब्दस्य भागवृत्तेर्नित्यसापेक्षत्वेऽपि प्रत्ययः । द्वौ व्रीहियवौ निमानमस्योदइआत इति । द्वित्वसङ्ख्याविशिष्टौ व्रीहियवराशी यौ तौ अस्य उदइआतो निमानमित्यर्थः । अत्र उदइआद्यावत् तदपेक्षया व्रीहियवराश्योर्द्वि गुणत्वं न विवक्षितं, किंतु राशद्वित्वमेव विवक्षितमिति द्विशब्दस्य भागवृत्तित्वाऽभावान्न प्रत्ययः ।