5-2-4 विभाषा तिलमाषोमाभङ्गाणुभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा धान्यानां भवने क्षेत्रे
index: 5.2.4 sutra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
'धान्यानाम् भवने क्षेत्रे' (इति) तिल-माष-उमा-भङ्गा-अणुभ्यः विभाषा यत् , खञ्
index: 5.2.4 sutra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
षष्ठीसमर्थेभ्यः 'तिल', 'माष', 'उमा', 'भङ्गा' तथा 'अणु' - एतेभ्यः शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् विकल्पेन यत्-प्रत्ययः भवति, पक्षे औत्सर्गिकः खञ्-प्रत्ययः अपि विधीयते ।
index: 5.2.4 sutra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
तिल माष उमा भङ्गा अणु इत्येतेभ्यः विभाषा यत् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञि प्राप्ते वचनं, पक्षे सोऽपि भवति। उमाभङ्गयोरपि धान्यत्वमाश्रितमेव। तिलानां भवनं क्षेत्रम् तिल्यम्, तैलीनम्। माष्यम्, माषीणम्। उम्यम्, औमीनम्। भङ्ग्यम्, भाङ्गीनम्। अणव्यम्, अणवीनम्।
index: 5.2.4 sutra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
यत् वा स्यात् पक्षे खञ् । तिल्यम् । तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥
index: 5.2.4 sutra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
धान्यानां भवने क्षेत्रे खञ् 5.2.1 इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । परन्तु 'तिल' (sesame), 'माष' (black gram), 'उमा' (flax), 'भङ्गा' (marijuana) तथा 'अणु' (a type of rice) - एतेभ्यः शब्देभ्यः अस्मिन्नेव अर्थे वर्तमानसूत्रेण विकल्पेन यत्-प्रत्यय अपि विधीयते । यथा -
तिलानाम् भवनम् क्षेत्रम तिल्यम् , तैलीनम् वा ।
माषानाम् भवनम् क्षेत्रम् माष्यम् माषीणम् वा ।
उमानाम् भवनम् क्षेत्रमुम्यम् औमीनम् वा ।
भङ्गानाम् भवनम् क्षेत्रम् भङ्ग्यम् भाङ्गीनम् वा ।
अणूनाम् भवनम् क्षेत्रमणव्यमाणवीनम् वा । प्रक्रिया इयम् -
अणु + यत्
→ अणो + य [ओर्गुणः 6.4.146 इति गुणादेशः]
→ अणव् + य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]
→ अणव्य
पक्षे -
अणु + खञ्
→ अणु + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.2.117 इति ईन-आदेशः]
→ आणु + ईन [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ आणो + ईन [ओर्गुणः 6.4.146 इति गुणादेशः]
→ आणवीन [एचोऽयवायावः 6.1.78 इति अवादेशः]
विशेषः - रुद्रपाठस्य चमकप्रश्ने 'तिल', 'माष', 'अणु' - आदीनाम् धान्यानाम् निर्देशः क्रियते । यथा - 'व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे...' । परन्तु अत्र 'उमा' तथा 'भङ्गा' एतयोः निर्देशः नास्ति । अतः एतौ द्वौ शब्दौ धान्यविशेषवाचिनौ स्तः वा - इति प्रश्नः उपतिष्ठते । अस्यैव स्पष्टीकरणार्थम् काशिकाकारः वदति - 'उमाभङ्गयोरपि धान्यत्वमाश्रितमेव' । इत्युक्ते, एतौ द्वौ शब्दौ अपि धान्यवाचिनौ स्तः - इति ।
index: 5.2.4 sutra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
विभाषा तिलमाषोमाभङ्गाऽणुभ्यः - विभाषा तिस ।तिल, माष, उमा, भङ्ग, अणु-एभ्यो धान्यविसेषवाचिभ्यः षष्ठन्तेभ्यो यद्वा स्यादित्यर्थः ।उमाभङ्गौ धान्यविशेषौ॑ इति भाष्यम् ।उमा स्यादतसी क्षुमा॑ इत्यमरः । अणव्यमिति । अणुर्धान्यविशेषः । यति 'ओर्गुणः'वान्तो यी॑त्यवादेशः ।
index: 5.2.4 sutra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः
खञि प्राप्तो वचनं पक्षे सोऽपि भवतीति। युक्तं यदणुतिलमाषेभ्यः पक्षे कञपि भवतीति, तेषां धान्यत्वात्; उमाभङ्गयोस्त्वधान्यत्वादयुक्तम्, धान्यान्येव हि चमकानुवाकेषु पठ।ल्न्ते'व्रीहयस्य मे' इत्यादीनि, तान्येव धान्यानि, न चोमाभङ्गावत्र पठ।लेते ? अत आह - उमाभङ्गयोरपि धान्यत्वमाश्रितमेवेति। न चमकानुवाको धान्यपरिगणनार्थः, तत्राधान्यानामप्यश्मादीनां पाठाद्, धान्यानामिपि केपाञ्चित् कोद्रवादीनामपाठात्। तस्मादन्यत एव थधान्यनिर्णयः, तत्र'शणसप्तदशानि धान्यानि' इति स्मृतिः, तत्र चोमाभङ्गे अपि पठिते। तस्माद्यौक्तमेव यताभ्यामपि पक्षे खञ् भवतीति ॥