सर्वचर्मणः कृतः खखञौ

5-2-5 सर्वचर्मणः कृतः खखञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

index: 5.2.5 sutra: सर्वचर्मणः कृतः खखञौ


'चर्मणः सर्वः कृतः' (इति) ख-खञौ

Neelesh Sanskrit Brief

Up

index: 5.2.5 sutra: सर्वचर्मणः कृतः खखञौ


तृतीयासमर्थात् सर्वचर्मन्-शब्दात् 'सर्वः कृतः' अस्मिन् अर्थे ख तथा खञ्-प्रत्ययौ भवतः ।

Kashika

Up

index: 5.2.5 sutra: सर्वचर्मणः कृतः खखञौ


सर्वचर्मन् शब्दात् तृतीयासमर्थात् कृतः इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः। सर्वशब्दश्च अत्र प्रत्ययार्थेन कृतेन सम्बध्यते, न चर्मणा। तत्र अयमसमर्थसमासो द्रष्टव्यः। सर्वश्चर्मणा कृतः इत्येतस्मिन् वाक्यार्थे वृत्तिः। सर्वचर्मीणः, सार्वचर्मीणः।

Siddhanta Kaumudi

Up

index: 5.2.5 sutra: सर्वचर्मणः कृतः खखञौ


असमार्थ्येऽपि निपातनात्समासः । सर्वश्चर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.5 sutra: सर्वचर्मणः कृतः खखञौ


अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् बिन्दुद्वयम् ज्ञातव्यम् -

  1. अनेन सूत्रेण उक्तौ ख-खञ्-प्रत्ययौ 'तृतीयासमर्थात्' उच्येते । अत्र वस्तुतः कोऽपि तृतीयासमर्थः शब्दः नास्ति, परन्तु 'कृतः' इत्यनेन 'तेन कृतः' इति अर्थः स्पष्टीभवति, अतः अत्र 'तृतीयासमर्थात्' सर्वचर्मन्-शब्दात् प्रत्ययविधानम् क्रियते ।

  2. यद्यपि अस्मिन् सूत्रे 'सर्वचर्म' शब्दात् प्रत्ययः उच्यते, तथाप्यत्र 'सर्वचर्मन्' इति मूलम् प्रातिपदिकम् नास्ति, यतः 'सर्व' शब्दस्य अन्वयः अत्र 'चर्मन्' इत्यनेन सह न क्रियते, अपितु 'कृतः' इत्यनेन सह क्रियते । 'चर्मणा सर्वम् कृतम्' इति अत्र विग्रहवाक्यं दत्त्वा अग्रे प्रत्ययविधानम् 'सर्वचर्मन्' शब्दात् कर्तव्यम् । अतएव व्याख्यानानि अत्र 'असमर्थ-समासः' अस्ति स्पष्टीकुर्वन्ति ।

इदानीम् सूत्रार्थः स्पष्टः स्यात् - 'तृतीयासमर्थात् 'सर्वचर्मन्' शब्दात् 'चर्मणा सर्वम् कृतम्' अस्मिन् अर्थे 'ख' तथा 'खञ्' प्रत्ययौ भवतः ।

  1. सर्वचर्मन् + ख

→ सर्वचर्मन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन-आदेशः]

→ सर्वचर्म् + ईन [नस्तद्धिते 6.4.144 इति टिलोपः[

→ सर्वचर्मीन

→ सर्वचर्मीण [अट्कुप्वाङ्नुम्व्ययायेऽपि 8.4.2 इति णत्वम्]

  1. सर्वचर्मन् + खञ्

→ सर्वचर्मन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन-आदेशः]

→ सार्वचर्म + इन [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ सार्वचर्म् + ईन [नस्तद्धिते 6.4.144 इति टिलोपः[

→ सार्वचर्मीन

→ सार्वचर्मीण [अट्कुप्वाङ्नुम्व्ययायेऽपि 8.4.2 इति णत्वम्]

चर्मणा सर्वः कृतः सः सर्वचर्मीणः सार्वचर्मीणः वा स्यूतः । A bag that is made completely with leather - इत्यर्थः ।

Balamanorama

Up

index: 5.2.5 sutra: सर्वचर्मणः कृतः खखञौ


सर्वचर्मणः कृतः खखञौ - सर्वचर्मणः । सर्वचर्मन्शब्दात्तृतीयान्ताच्चर्मणा सर्वं कृतमित्यर्थः खखञौ स्त इत्यर्थः । औचित्यादिह तृतीया समर्थविभक्तिः । नन्विह सर्वशब्दस्य कृते अन्वयाच्चर्मण्यन्वयाऽभावादसामर्थ्यांच्चर्मणा समासाऽसम्भवात्कथं सर्वचर्मन्शब्दात्प्रत्यय इत्यत आह — असामर्थ्येऽपीति । सर्वश्चर्मणा कृत इति विग्रहवाक्यम् । चर्मणा कृत्स्नः कृत इत्यर्थः । सर्वचर्मीण इति । 'नस्तद्धिते' इति टिलोपः । सर्वेण चर्मणा कृत इत्यर्थे तु न खखञौ, व्याख्यानात् ।

Padamanjari

Up

index: 5.2.5 sutra: सर्वचर्मणः कृतः खखञौ


तृतीयासमर्थादिति। कृत इति प्रत्यर्थार्थे चर्मणः करणत्वात्सामर्थ्यलभ्या तृतीया समर्थविभक्तिः। सर्वशब्दस्य चर्मशब्देन समासं कृत्वायं निर्द्देशः। सर्वचर्मण इति समासश्च सामर्थ्ये सति भवति, ततश्चर्मशब्देनास्य सम्बन्ध इति कश्चिद्भाम्येतं प्तय्याह - सर्वशब्दश्चात्रेति। कथं तर्हि समासः? इत्याह - तत्रायमिति। अस्मादेव निपातनादिति भावः। किं पुनः कारणं सर्वशब्दः कृतेन सम्बध्यते न चर्मणा ? इत्याह - सर्वश्चर्मणेत्यादि। सर्वश्चर्मणा कृत इति योऽयं वाक्यार्थः, अस्मिंस्तद्धितवृत्तिरिष्यते, यदि चर्मणा सम्बध्येत, ततो यदि सर्वचर्मेति षष्ठीसमासः, ततः सर्वस्म्बन्धैना चर्मणा कृत इत्यर्थः स्यात्। अथ कर्मधारयः, ततः सर्वेण चर्मणा कृत इति, न तु कृतस्य सर्वत्वमुभयथापि लभ्यते। तस्मात्कृतेनैव सम्बन्धो न्याय्य इति भावः ॥