यवयवकषष्टिकाद्यत्

5-2-3 यवयवकषष्टिकात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा धान्यानां भवने क्षेत्रे

Sampurna sutra

Up

index: 5.2.3 sutra: यवयवकषष्टिकाद्यत्


'धान्यानां भवने क्षेत्रे' (इति) यव-यवक-षष्टिकात् यत्

Neelesh Sanskrit Brief

Up

index: 5.2.3 sutra: यवयवकषष्टिकाद्यत्


षष्ठीसमर्थेभ्यः 'यव', 'यवक', 'षष्टिक' शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् 'यत्' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.3 sutra: यवयवकषष्टिकाद्यत्


यवादिभ्यः शब्देभ्यो यत् प्रत्ययो भवति भवने क्षेत्रेऽभिधेये। खञोऽपवादः। यवानां भवनं क्षेत्रम् यव्यम्। यवक्यम्। षष्टिक्यम्।

Siddhanta Kaumudi

Up

index: 5.2.3 sutra: यवयवकषष्टिकाद्यत्


यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.3 sutra: यवयवकषष्टिकाद्यत्


धान्यानां भवने क्षेत्रे खञ् 5.2.1 इत्यनेन सूत्रेण धान्यवाचिभ्यः प्रातिपदिकेभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् औत्सर्गिकरूपेण खञ्-प्रत्ययः उक्तः अस्ति । अस्य अपवादरूपेण 'यव' (barley), 'यवक' (barley), तथा 'षष्टिक' एतेभ्यः शब्देभ्यः यत्-प्रत्ययः भवति ।

  1. यवानाम् भवनम् क्षेत्रम् यव्यम् ।

  2. यवकानाम् भवनम् क्षेत्रम् यवक्यम् ।

  3. षष्टिकानाम् भवनम् क्षेत्रम् षष्टिक्यम् ।

ज्ञातव्यम् - 'षष्टिक' इति कस्यचन धान्यविशेषस्य संज्ञा अस्ति । अस्य शब्दस्य निपातनम् षष्टिकाः षष्टिरात्रेण पच्यन्ते 5.1.90 इत्यनेन क्रियते ।

Balamanorama

Up

index: 5.2.3 sutra: यवयवकषष्टिकाद्यत्


यवयवकषष्टिकादत् - यवयवक । यव, यवक, षष्टिक-एभ्यः षष्ठन्तेभ्यो भवने क्षेत्रे यत्स्यादित्यर्थः । खञोऽपवादः ।धान्याना॑मित्यनुवृत्तेरिहापि षष्ठएव समर्थविभक्तिः ।

Padamanjari

Up

index: 5.2.3 sutra: यवयवकषष्टिकाद्यत्


अत्र प्रत्ययार्थसामर्थ्यलभ्या षष्ठी समर्थविभक्तिः ॥