हैयंगवीनं संज्ञायाम्

5-2-23 हैयङ्गवीनं सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् खञ्

Sampurna sutra

Up

संज्ञायाम् हैयङ्गवीनम् (इति निपात्यते)

Neelesh Sanskrit Brief

Up

संज्ञायाः विषये 'हैयङ्गवीनम्' अयम् शब्दः निपात्यते ।

Kashika

Up

हैयङ्गवीनं निपात्यते संज्ञायां विषये। ह्योगोदोहस्य हियङ्ग्वादेशः, तस्य विकारे खञ् प्रत्ययो भवति संज्ञायाम्। ह्योगोदोहस्य विकारो हैयङ्गवीनम्। घृतस्य संज्ञा। तेनेह न भवति — ह्योगोदोहस्य विकार उदश्वित्॥

Siddhanta Kaumudi

Up

ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥

Laghu Siddhanta Kaumudi

Up

ह्योगोदोहशब्दस्य हियङ्गुरादेशः विकारार्थे खञ्च निपात्यते। दुह्यत इति दोहः क्षीरम्। ह्रोगोदोहस्य विकारः - हैयङ्गवीनं नवनीतम्॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण 'हैयङ्गवीन' इति शब्दः निपात्यते ।'घृत' (ghee) इत्यस्य इयम् संज्ञा अस्ति । अस्य शब्दस्य निपातनमनेन प्रकारेण भवति - 1. 'गो' इतस्मात् शब्दात् 'दोह' (yield / extract / milk / secretion) इत्यस्य शब्दस्य समासम् कृत्वा 'गोदोह' इति शब्दः सिद्ध्यति । गोः दोहः गोदोहः । दुग्धम् इत्यर्थः । 2. यत् गोदोहमद्य न प्राप्तमपितु ह्यस्तन दिने प्राप्तम्, तस्य निर्देशः 'ह्योगोदोह' इत्यनेन भवति । ह्यः + गोदोहः = ह्योगोदोहः । The milk that was extracted yesterday from the cow - इत्याशयः । 3. 'ह्योगोदोहस्य विकारः' अस्मिन् अर्थे <<तस्य विकारः>> 4.3.134 इत्यनेन प्राप्तमण्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण 'खञ्' प्रत्ययः भवति । 4. 'ह्योगोदोह + ख' इति स्थिते 'ह्योगोदोह' इत्यस्य निपातनेन 'हियङ्गु' इति आदेशः भवति । 5. 'हियङ्गु + ख' इति स्थिते अग्रे इयम् प्रक्रिया जायते - हियङ्गु + ख → हियङ्गु + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2] → हैयङ्गु + ईन [<<तद्धितेष्वचामादेः>> 7.2.117] → हैयङ्गो + ईन [<<ओर्गुणः>> 6.4.146] → हैयङ्गवीन [<<एचोऽयवायावः>> 6.1.78] ह्योगोदोहस्य विकारः हैयङ्गवीनम् घृतम् ।The ghee that has been created from milk obtained yesterday is called हैयङ्गवीन । विशेषः - 1. 'हैयङ्गवीन' इति शब्दः संज्ञारूपेण प्रयुज्यते । घृतस्य भिन्नाः भेेदाः / प्रकाराः सन्ति, तेषु 'हैयङ्गवीनम्' इति कश्चन भेदः । 2. यद्यपि दधि, तक्रमादीनाम् निर्माणमपि ह्योगोदोहेन भवितुमर्हति, तथापि 'संज्ञायाम्' इति निर्देशात् केवलम् घृतस्यैव इयम् संज्ञा क्रियते, न हि दधितक्रादीनाम् ।

Balamanorama

Up

<<हैयंगवीनं संज्ञायाम्>> - हैयङ्गवीनम् । ह्रसित्यव्ययं पूर्वेद्यरित्यर्थे । तत्रोत्पन्नो गोदोहः=गोपयः-ह्रोगोदोहः । तस्मात्षष्ठन्ताद्विकारार्थे खञि ईनादेशे प्रकृतेर्हियङ्गु इत्यादेशे ओर्गुणे अवादेशे आदिवृद्धौहैयङ्गवीन॑मिति भवतिसंज्ञायामिति भाष्यम् । तदाह — ह्रोगोदोहस्येत्यादिना । नवनीतमिति । भाष्ये तुहैयङ्गवीनं घृत॑मिति दृश्यते ।तत्तु हैयङ्गवीनं स्याद् ह्रोगोदोहोद्भवं घृत॑मित्यमरः ।

Padamanjari

Up

ह्यएगोदोहस्य विकार इति। दुह्यत इति दोहःउक्षीरम्, गोर्दोहो गोदोह इति षष्ठीसमासः, ह्यः शब्दस्य तेन'सुप्सुपा' इति समासः, ततो विकारेऽनुदातलक्षणस्याञोऽपवादः, खञ्। घृतस्यैषा संज्ञेति। घृतस्यापि न सर्वस्य, किं तर्हि ? तस्यैवाविकृतगन्धरूपस्य। ह्यःशब्देन कालप्रत्यासतिप्रतिपादनाद् नवनीतं हैयङ्गवीनमुत्यते, घृतशब्दोऽपि तत्रैव प्रयुक्तः ॥