5-2-22 साप्तपदीनं सख्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् खञ्
index: 5.2.22 sutra: साप्तपदीनं सख्यम्
साप्तपदीनम् (इति) सख्यम् (अस्मिन् अर्थे निपात्यते)
index: 5.2.22 sutra: साप्तपदीनं सख्यम्
'सख्यम्' अस्मिन् अर्थे 'साप्तपदीन' शब्दः निपात्यते ।
index: 5.2.22 sutra: साप्तपदीनं सख्यम्
साप्तपदीनम् इति निपात्यते सख्येऽभिधेये। सप्तभिः पदैरवाप्यते साप्तपदीनम्। सख्यं जनाः साप्तपदीनमाहुः। कथं साप्तपदीनः सखा, साप्तपदीनं मित्रम् इति? यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे तत्कर्मणि च वर्तते तदा सख्यशब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति।
index: 5.2.22 sutra: साप्तपदीनं सख्यम्
सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥
index: 5.2.22 sutra: साप्तपदीनं सख्यम्
अनेन सूत्रेण 'सख्यम्' (= मित्रत्वम् / मित्रता) अस्मिन् अर्थे 'साप्तपदीन' अयम् शब्दः निपात्यते । 'सप्तभिः पदैः अवाप्यते' अस्मिन् अर्थे 'सप्तपद' शब्दात् खञ्-प्रत्ययं कृत्वा 'साप्तपदीन' अयम् शब्दः सिद्ध्यति । अत्र 'सप्त पदानि' इत्यस्य अर्थः 'सुखदुःखादयः भिन्नाः अवस्थाः' इति स्वीक्रियते । The role / duty by virtue of which the people help each other during various situation occurring in ones life - is called साप्तपदीनम् ।
विशेषः - 'साप्तपदीन' अस्य शब्दस्य प्रयोगः 'मित्रम्' / 'सखा' अस्मिन् अर्थे अपि भवति । यथा - 'साप्तपदीनः सखा' । अत्र 'लक्षणा'-अर्थेन (implied meaning) अस्य शब्दस्य प्रयोगः भवति । इत्युक्ते, 'अयम् सखा साप्तपदीनः अस्ति' इत्युक्ते 'अस्य सख्युः भावः साप्तपदीनमस्ति' इति अर्थः स्वीक्रियते ।
index: 5.2.22 sutra: साप्तपदीनं सख्यम्
साप्तपदीनं सख्यम् - साप्तपदीनम् । सप्तपदशब्दात्तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः ।
index: 5.2.22 sutra: साप्तपदीनं सख्यम्
साप्तपदीनमिति निपात्यत इति। किं पुनरत्र निपात्यते ? समर्थविभक्तिस्तृतीया। अवाप्यत इति प्रत्ययार्थः, सप्तभिः पदैरवाप्यत इति तद्वितार्थे द्विगुः समासः, सप्तपदशब्दात्खञ्। कथमिति। सख्युर्भावः कर्म वा सख्यम्, तत्र व्युत्पादितस्य न सखिशब्देन प्रश्नः, उपचारेणेत्युतरम्, गुणप्रधान इति। गुणो भावः, कर्म च भावः, प्रवृत्तिनिमितत्वाद्गुणः। यस्य हि गुणस्य भावादिति कर्माणि हि सख्यशब्दवाच्यत्वाद्गुण इत्युक्तम् ॥