5-1-65 शीर्षच्छेदात् यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अर्हति नित्यम्
index: 5.1.65 sutra: शीर्षच्छेदाद्यच्च
'तत् नित्यमर्हति' (इति) शीर्षच्छेदात् यत् च
index: 5.1.65 sutra: शीर्षच्छेदाद्यच्च
'नित्यमर्हति' अस्मिन् अर्थे द्वितीयासमर्थात् 'शीर्षच्छेद' यत् प्रत्ययः भवति, पक्षे ठक् प्रत्ययः अपि विधीयते ।
index: 5.1.65 sutra: शीर्षच्छेदाद्यच्च
शीर्षच्छेदशब्दाद् द्वितीयासमर्थान् नित्यमर्हति इत्यस्मिन्नर्थे यत् प्रत्ययो भवति। चकाराद् यथाविहितं च। शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः। प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते।
index: 5.1.65 sutra: शीर्षच्छेदाद्यच्च
शीरश्च्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः संनियोगेन शिरसः शीर्षभावो निपात्यते ॥
index: 5.1.65 sutra: शीर्षच्छेदाद्यच्च
तदर्हति 5.1.63 अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अर्हति' अस्मिन् अर्थे प्रत्यनविधानं भवति । तद् बाधित्वा अनेन सूत्रेण 'नित्यम् (= सर्वदा) अर्हति' अस्मिन् अर्थे 'शीर्षच्छेद' शब्दात् यत्-प्रत्ययः भवति ।
अस्मिन् सूत्रे 'च' इति उच्यते, अतः पक्षे आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् 5.1.19 इति ठक्-प्रत्ययः अप्यत्र विधीयते ।
उदाहरणात् पूर्वमत्र एकः बिन्दुः ज्ञातव्यः । काशिकायाम् कौमुद्यां च एतत् स्पष्टीक्रियते, यत् अत्र विग्रहवाक्यम् 'शिरसः छेदम् नित्यमर्हति' एतादृशम् भवति । अत्र विग्रहवाक्ये वस्तुतः 'शिरस्' इति शब्दः विद्यते । परन्तु प्रक्रियायां प्रत्ययसन्नियोगेन 'शिरस्' इत्यस्य 'शीर्ष' अयमादेशः निपात्यते । प्रक्रिया इयम् -
1) यत्-प्रत्ययः -
शिरसः छेदम् नित्यमर्हति सः
= शिरस् + छेद + यत्
→ शीर्षछेद + यत् [प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते - इति काशिका ।]
→ शीर्षछेद् + य [यस्येति च 6.4.148 इति अकारलोपः]
→ शीर्षत्छेद्य [छे च 6.1.73 इति तुगागमः]
→ शीर्षच्छेद्य [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]
2) ठक्-प्रत्ययः -
शिरसः छेदम् नित्यमर्हति सः
= शिरस् + छेद + ठक्
→ शीर्षछेद + ठक् [प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते - इति काशिका ।]
→ शैर्षछेद + ठक् [किति च 7.2.118 इति आदिवृद्धिः]
→ शैर्षछेद + इक [ठस्येकः 8.3.50 इति इक-आदेशः]
→ शैर्षछेद् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ शैर्षत्छेदिक [छे च 6.1.73 इति तुगागमः]
→ शैर्षच्छेदिक [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]
शिरसः छेदम् नित्यमर्हति सः शीर्षच्छेद्यः शैर्षच्छेदिकः वा अरिः ।
स्मर्तव्यम् - शिरस्-इत्यस्य 'शीर्ष' आदेशः प्रक्रियायाम् एव भवति, केवलवाक्यस्य विषये न । यथा 'शिरसः छेदमर्हति' इत्यत्र अयं आदेशः न भवति, अतः 'शीर्षच्छेदम् अर्हति' इति न वक्तव्यम् । 'शिरसः छेदमर्हति' इति वक्तव्यम् , नो चेत् 'शीर्षच्छेद्य / शैर्षच्छेदिक' इति वक्तव्यम् ।
index: 5.1.65 sutra: शीर्षच्छेदाद्यच्च
शीर्षच्छेदाद्यच्च - शीर्षच्छेदाद्यच्च । चादार्हीयदृक् । ननुशीर्षंश्छन्दसी॑ति छन्दस्येव शिरसः शीर्षादेव विधानात्कथमिह शीर्षादेश इत्यत आह — यट्ठकोरिति ।
index: 5.1.65 sutra: शीर्षच्छेदाद्यच्च
प्रत्ययसन्नियोगेनेति। तथा च शिरःशब्देन विग्रहो दर्शितः। कथं तर्हि पूर्वमुक्तम्-शीर्षच्छेदशब्दाद् द्वितीयासमर्थादिति ? न प्रयोगार्हे वाक्ये द्वितीयासमर्थता, किं तर्हि ? यदुपमर्द्दनेन वृत्तिर्भवति तत्र प्रकियावक्ये प्रत्ययौ द्वौ - यच्च, ठक्च, एवं च प्रत्ययामभ्यां सन्नियोग इति द्विवचनान्तेन समासः ॥