दण्डादिभ्यः

5-1-66 दण्डादिभ्यः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अर्हति यत् च

Sampurna sutra

Up

'तत् अर्हति' (इति) दण्डादिभ्यः यत्

Neelesh Sanskrit Brief

Up

दण्डादिगणस्य द्वितीयासमर्थेभ्यः शब्देभ्यः 'अर्हति' अस्मिन् अर्थे यत्-प्रत्ययः भवति ।

Kashika

Up

नित्यमिति निवृत्तम्। दण्डादिभ्यो द्वितीयासमर्थेभ्योऽर्हतीत्यस्मिन्नर्थे यः प्रत्ययो भवति। ठकोऽपवादः। दण्डमर्हति दण्ड्यः। मुसल्यः॥ दण्ड। मुसल। मधुपर्क। कशा। अर्घ। मेधा। मेघ। युग। उदक। वध। गुहा। भाग। इभ। दण्डादिः॥

Siddhanta Kaumudi

Up

एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥

Laghu Siddhanta Kaumudi

Up

एभ्यो यत् स्यात्। दण्डमर्हति दण्ड्यः। अर्घ्यः। वध्यः॥

Neelesh Sanskrit Detailed

Up

दण्डादिगणस्य शब्देभ्यः 'अर्हति' अस्मिन् अर्थे यत्-प्रत्ययः भवति । दण्डादिगणः अयम् - दण्ड, मुसल, मधुपर्क, कशा, अर्घ, मेधा, मेघ, युग, उदक, वध, गुहा, भाग, इभ। यथा - 1. दण्डमर्हति सः दण्ड्यः। 2. मुसलमर्हति सः मुसल्यः । 3. मधुपर्कमर्हति सः मधुपर्क्यः । 4. कशामर्हति सः कश्यः । 5. अर्घ्यमर्हति सः अर्घ्यः । 5. मेधामर्हति सः मेध्यः । 6. मेघमर्हति सः मेघ्यः । 7. गुहामर्हति सः गुह्यः । गोपनीयः इत्याशयः । स्मर्तव्यम् - यत्-प्रत्यये तकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनद्वयम् - अ) मुसल्य, मधुपर्क्य इत्यत्र <<तित्स्वरितम्>> 6.1.185 इत्यनेन यत्-प्रत्ययस्य यकारः स्वरितः भवति । आ) अन्यत्र सर्वत्र <<यतोऽनावः>> 6.1.213 इत्यनेन तद्धितान्तस्य आदिस्वरः उदात्तः जायते ।

Balamanorama

Up

<<दण्डादिभ्यः>> - दडादिभ्यः । यदित्यनुवर्तते । तदाह — यत्स्यादिति । 'दण्डादिभ्यो यः' इति त्वपपाठः,अचोय॑दिति सूत्रभाष्ये तथैव दर्शनात् । अध्र्य इति । मूल्यं, पूजाविधि वार्हतीत्यर्थः ।मूल्ये पूजाविधावर्धः॑ इत्यमरः । वध्य इति । वधमर्हतीत्यर्थः ।

Padamanjari

Up

उपायविशेषःउदण्डः, हस्तालम्बश्च। इह'दण्डादिभ्यः' इत्येतावत्सूत्रम्, अनन्तरश्च यत्प्रत्ययो विधीयतेऽ। तथा च वध्यशब्दवल्युत्पादनाय क्यब्विधावुक्तम् -'हनो वध च तद्वितो वा' इति, यदि चात्र यद्विधीयते तत एव तदुपपद्यते तद्धितो वेति। कथम् ? क्यप्याद्यौदातत्वम्, यत्यपि तद्धिते'यतो' नावःऽ इत्याद्यौदातत्वमेव। यदि त्वत्र यो विधीयेत ततः स्वरे विशेषादनुपपन्नमेतत्स्यात्। उतरसूत्रे चास्य यस्यैवानुवृत्तिः स्यात्, न यतः। अथापि स्वरितत्वाद्यत एवानुवृत्तिरुच्यते ? एवमपि वृत्तिकारस्यैतद्वक्तुमापद्येत -'यदनुवर्तते नानन्तरो यः' इति। ये त्विभ-वध-मेधशब्दाना यदन्तानामाद्यौदातानां च्छन्दसि प्रयोगाः - ठिभ्यान्न राजा वनान्यति, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति, अपां मेध्यं यज्ञियम्ऽ इत्याद्याः, ते दण्कडादिभ्यो यविधानेऽप्युपपद्यन्ते। कथम् ? दण्कडादिभ्यो यःऽ दण्डादिभ्यश्च्छन्दस्युभयप्रसङ्गे परत्वाद्यद्भविप्यति। तस्मादेते प्रयोगाः'दण्डादिभ्यो यद्विधीयते' इत्यत्रार्थे प्रमाणत्वेन नोपन्यसनीयाः ॥