छेदादिभ्यो नित्यम्

5-1-64 छेदादिभ्यः नित्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अर्हति

Sampurna sutra

Up

index: 5.1.64 sutra: छेदादिभ्यो नित्यम्


'तत् नित्यमर्हति' इति छेदादिभ्यः

Neelesh Sanskrit Brief

Up

index: 5.1.64 sutra: छेदादिभ्यो नित्यम्


छेदादिगणस्य शब्देभ्यः 'नित्यमर्हति' अस्मिन् अर्थे यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.1.64 sutra: छेदादिभ्यो नित्यम्


नित्यग्रहणं प्रत्ययार्थविशेषणम्। छेदाऽदिभ्यो द्वितीयासमर्थेभ्यो नित्यमर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। छेदं नित्यमर्हति छैदिकः। भैदिकः। छेद। भेद। द्रोह। दोह। वर्त। कर्ष। संप्रयोग। विप्रयोग। प्रेषण। संप्रश्न। विप्रकर्ष। विराग विरङ्गं च। वैरङ्गिकः।

Siddhanta Kaumudi

Up

index: 5.1.64 sutra: छेदादिभ्यो नित्यम्


नित्यमाभीक्ष्ण्यम् । छेदं नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् । (गणसूत्रम् -) विराग विरङ्गं च । विरागं नित्यमर्हति । वैरागिकः । वैरङ्गिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.64 sutra: छेदादिभ्यो नित्यम्


तदर्हति 5.1.63 अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः 'अर्हति' अस्मिन् अर्थे प्रत्यनविधानं भवति । तद् बाधित्वा अनेन सूत्रेण 'नित्यम् (= सर्वदा) अर्हति' अस्मिन्नेव अर्थे छेदादिगणस्य शब्देभ्यः प्रत्ययविधानम् क्रियते । इत्युक्ते, 'क्वचित् अर्हति' अस्मिन् अर्थे छेदादिगणस्य शब्देभ्यः प्रत्ययविधानम् न भवति, केवलं 'नित्यमर्हति' अस्मिन्नेव अर्थे भवति - इति स्मर्तव्यम् ।

छेदादिगणः अयम् -

छेद, भेद, द्रोह, दोह, वर्त, कर्ष, संप्रयोग, विप्रयोग, प्रेषण, संप्रश्न, विप्रकर्ष, विराग विरङ्गं च (गणसूत्रम्) ।

एतेभ्यः सर्वेभ्यः शब्देभ्यः आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक् 5.1.19 इत्यनेन ठक्-प्रत्ययः भवति ।

यथा -

  1. छेदं नित्यमर्हति सः छैदिकः वंशः । स्त्रीत्वे टिड्ढाणञ्.. 4.1.15 इति ङीप् - छैदिकी वेणुः ।

  2. भेदं नित्यमर्हति सः भैदिकः ।

  3. द्रोहं नित्यमर्हति सः द्रौहिकः ।

अस्मिन् गणे एकं गणसूत्रमपि विद्यते - 'विराग विरङ्गं च' । इत्युक्ते, 'विराग' शब्दस्य प्रक्रियायाम् 'विरङ्ग' आदेशः अपि भवति । यथा - विरागं नित्यमर्हति सः = विराग + ठक् → वैरङ्ग + ठक् → वैरङ्गिकः ।

विशेषः - भाष्यकारः पन्थो ण नित्यम् 5.1.76 इत्यत्र वदति - 'छेदादिपथिभ्यः नित्यग्रहणमनर्थकम्' । सामान्यभाषायाम्, अस्मिन् सूत्रे 'नित्यग्रहणम्' अनावश्यकमस्तीति सः प्रतिपादयति, यतः तस्य मतेन छेदादिगणस्य शब्देभ्यः 'कदाचित् अर्हति' अस्मिन् अर्थे अपि ठक्-प्रत्ययः कृतः दृश्यते । एतदेव विषयम् स्वीकृत्य बालमनोरमाकारः अग्रे वदति - 'सूत्रमेवेदं न आरब्धव्यम्' । इत्युक्ते, यदि नित्यग्रहणमत्र न आवश्यकम्, तर्हि अस्य सूत्रस्यैव न किमपि प्रयोजनम् - यतः छेदादिगणस्य शब्देभ्यः तदर्हति 5.1.63 इत्यनेनैव प्रत्ययविधानं क्रियते ।

Balamanorama

Up

index: 5.1.64 sutra: छेदादिभ्यो नित्यम्


छेदादिभ्यो नित्यम् - छेदादिभ्यो आभीक्ष्ण्यमिति । पौनःपुन्यमित्यर्थः । तन्नित्यमर्हतीत्यर्थे द्वितीयान्तेभ्यश्छेदादिभ्यो यथाविहितं प्रत्ययः स्यादित्यर्थः । छैदिको वेतस इति ।आर्हा॑दिति ठक् । 'तदर्हति' इत्येव सिद्धे आभीक्ष्ण एवेति नियमार्थमिदं सूत्रम् । वस्तुतस्तु नित्यमिति नाभीक्ष्ण्यार्थकं प्रत्ययार्थकोटि प्रविष्टं, किंतु अपाक्षिकार्थकम्समर्थानां प्रथमाद्वा॑ इति वाग्रहणानुवृत्तिनिवृत्त्यर्थमित्यभिप्रेत्य विग्रहवाक्यस्यापि लोके दर्शनान्नित्यग्रहणं न कर्तव्यमित्युक्तं भाष्ये । एवंच छेदादिभ्यः पाक्षिकप्रत्ययस्यतदर्हती॑त्येव सिद्धत्वात्सूत्रमेवेदं नारब्धव्यमिति । फलति । विराग विरङ्गं चेति । गणसूत्रमिदम् । उक्तेऽर्थे विरागशब्दो विरङ्गादेशं लभत इत्यर्थः चादार्हीयष्ठक् ।