संख्यायाः संज्ञासंघसूत्राध्ययनेषु

5-1-58 सङ्ख्यायाः सञ्ज्ञसङ्घसूत्राध्ययनेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् ःअरति वहति आवहति तत् अस्य परिमाणम्

Sampurna sutra

Up

index: 5.1.58 sutra: संख्यायाः संज्ञासंघसूत्राध्ययनेषु


'तत् अस्य परिमाणम्' (इति) सङ्ख्यायाः संज्ञा-संघ-सूत्र-अध्ययनेषु

Neelesh Sanskrit Brief

Up

index: 5.1.58 sutra: संख्यायाः संज्ञासंघसूत्राध्ययनेषु


प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् संज्ञायाः निर्देशार्थम्, सङ्घस्य निर्देशार्थम्, सूत्राणाम् निर्देशार्थम् तथा अध्ययनस्य निर्देशार्थम् विशिष्ट-सन्दर्भेषु यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.1.58 sutra: संख्यायाः संज्ञासंघसूत्राध्ययनेषु


तदस्य परिमाणम् 5.1.57 इति वर्तते। सङ्ख्यावाचिनः प्रातिपदिकात् परिमाणोपाधिकात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति। संज्ञासङ्घसूत्राध्ययनेषु इति प्रत्ययार्थविशेषणम्। तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः। पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। सङ्घ पञ्च परिमाणमस्य पञ्चकः सङ्घः। अष्टकः। सूत्र अष्टौ अध्यायाः परिमाणमस्य सूत्रस्य अष्टकं पाणिनीयम्। दशकं वैयाघ्रपदीयम्। त्रिकं काशकृत्स्नम्। ननु च अध्यायसमूहः सूत्रसङ्घ एव भवति? न एतदस्ति। प्राणिसमूहे सङ्घशब्दो रूढः। अध्ययन पञ्चकोऽधीतः। सप्तकोऽधीतः। अष्टकः। अनवकः। अधीतिरध्ययनम्। तस्य सङ्ख्यापरिमाणं पञ्चावृत्तयः पञ्चवाराः पञ्च रूपाणि अस्य अध्ययनस्य पञ्चकमध्ययनम्। स्तोमे डविधिः पञ्चदशाद्यर्थः। पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः। सप्तदशः। एकविंशः। शन्शतोर्डिनिश् छन्दसि। पञ्चदशिनोऽर्धमासाः त्रिंशिनो मासाः। विंशतेश्चेति वक्तव्यम्। विंशिनोऽङ्गिरसः।

Siddhanta Kaumudi

Up

index: 5.1.58 sutra: संख्यायाः संज्ञासंघसूत्राध्ययनेषु


पूर्वसूत्रमनुवर्तते । तत्र ।<!संज्ञायां स्वार्थे प्रत्ययो वाच्यः !> (वार्तिकम्) ॥ यद्वा द्व्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः ॥ पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रेऽष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वात्सूत्रं पृधगुपात्तम् । पञ्चकमध्ययनम् ।<!स्तोमे डविधिः !> (वार्तिकम्) ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.58 sutra: संख्यायाः संज्ञासंघसूत्राध्ययनेषु


तत् अस्य परिमाणम् 5.1.57 इत्यनेन परिमाणवाचिभ्यः शब्देभ्यः 'अस्य' अस्मिन् अर्थे यथाविहितं प्रत्ययः विधीयते । परन्तु केषुचन स्थलेषु सङ्ख्यावाचकं शब्दं स्वीकृत्य विशिष्ट-सन्दर्भे (in specific situations / references) 'परिमाणम्' इति प्रत्ययविधानम् इष्यते, यत् तत् अस्य परिमाणम् 5.1.57 इत्यनेन सामान्यसूत्रेण न भवति । एतान् प्रयोगान् स्पष्टीकर्तुम् एव अस्य सूत्रस्य निर्माणम् कृतमस्ति ।

अस्मिन् सूत्रे चत्वारः शब्दाः उच्यन्ते - संज्ञा, सङ्घः, सूत्रम्, तथा अध्ययनम् । एते विशिष्टाः सन्दर्भाः एतादृशाः -

  1. संज्ञा - अस्य शब्दस्य अर्थः वार्त्तिककारेण स्पष्टीकृतः अस्ति - <!संज्ञायां स्वार्थे प्रत्ययः वाच्यः!> । इत्युक्ते, सङ्ख्याशब्दात् विशिष्टसंज्ञायाः निर्देशम् कर्तुम् 'स्वार्थे' एव यथाविहितं प्रत्ययः भवति (परिमाणार्थे न - इत्याशयः) । अत्र विग्रहवाक्ये 'परिमाणम्' इति शब्दः न दृश्यते । यथा - 'पञ्चक' इति काचन संज्ञा । पञ्च पक्षिणः एकत्ररूपेण डयन्ते चेत् 'पञ्चकाः शकुनयः' इति संज्ञा लोके प्रयुज्यते । तस्याः निर्देशः अत्र कृतः अस्ति । 'पञ्च एव शकुनयः पञ्चकाः' इति अत्र विग्रहवाक्यम् दीयते । अत्र पञ्च शब्दात् 'तदेव' अस्मिन् अर्थे (इत्युक्ते स्वार्थे) सङ्ख्यायाः अतिशदन्तायाः कन् 5.1.22 इति कन्-प्रत्ययः भवति ।

  2. सङ्घ - यत्र केचन पदार्थाः मिलित्वा सङ्घनिर्माणम् कुर्वन्ति, तत्र 'परिमाणमस्य' अस्मिन् अर्थे सङ्घस्य निर्देशं कर्तुम् यथाविहितं प्रत्ययः भवति । यथा - 'पञ्च परिमाणमस्य सङ्घस्य सः पञ्चकः ' । अत्र 'पञ्च' शब्दः वस्तुतः परिमाणवाचकः नास्ति, अतः तत् अस्य परिमाणम् 5.1.58 इत्यनेन अयम् प्रयोगः न सम्भवति । अत्र पञ्च-शब्दः केवलं सङ्ख्यारूपेण प्रयुज्यते । अस्यां स्थितौ 'पञ्चकः सङ्घः' एतादृशम् प्रयोगम् साधयितुम् इदम् सूत्रम् प्रयुज्यते ।

  3. सूत्र - यत्र सूत्राणाम् सङ्ख्या 'अध्यायरूपेण' उच्यते, तत्र वर्तमानसूत्रेण यथाविहितं प्रत्ययः भवति । यथा - 'अष्टौ अध्यायाः परिमाणमस्य तत् अष्टकम् पाणिनीयम्' । अत्र सूत्राणाम् सङ्ख्या 'अध्यायानाम्' निर्देशेन दीयते । इत्युक्ते, 'एतानि सूत्राणि अष्टसु अध्यायेषु विभाजितानि सन्ति' इति निर्देशः अत्र क्रियते । अस्यां स्थितौ 'अष्टौ अध्यायाः' इति परिमाणवाचिशब्दः नास्ति अतः अत्र तत् अस्य परिमाणम् 5.1.58 इत्यनेन अयम् प्रयोगः न सम्भवति । अतएव वर्तमानसूत्रे 'सूत्र' इत्यस्य ग्रहणम् कृतमस्ति ।

  4. अध्ययन - अध्ययनस्य प्रकाराः / पौनःपुन्यम् (repetion) दर्शयितुम् यथाविहितम् प्रत्ययः भवति । यथा - 'पञ्चरूपाणि अस्य अध्ययनस्य तत् पञ्चकमध्ययनम्' । यदि किञ्चन अध्ययनम् पञ्चप्रकारैः / पञ्चवारम् क्रियते, तर्हि तस्य निर्देशः पञ्चकमध्ययनम्' इत्यनेन भवति । अस्यां स्थितौ परिमाणवाचिशब्दस्य अभावात् तत् अस्य परिमाणम् 5.1.58 इत्यनेन प्रत्ययविधानम् न सम्भवति, अतः वर्तमानसूत्रे 'अध्यययन' इत्यस्य ग्रहणम् कृतमस्ति ।

सङ्क्षेपेण, प्रयोगे विद्यमानाः केचन साधुशब्दाः ये तत् अस्य परिमाणम् 5.1.57 इत्यनेन न साध्यन्ते, तेषाम् साधनार्थम् वर्तमानसूत्रस्य निर्माणम् कृतमस्ति ।

अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -

  1. <!स्तोमे डविधिः पञ्चदशाद्यर्थः!> - 'पञ्चदश' तथा अधिकाः सङ्ख्यावाचिकाः शब्दाः 'स्तोमम् परिमाणमस्य' अस्मिन् अर्थे 'ड'प्रत्ययं स्वीकुर्वन्ति । यथा - पञ्चदश स्तोमम् (मन्त्रम्) परिमाणमस्य सः पञ्चदशः स्तोमः ।

  2. <!शन्शतोर् डिनिः छन्दसि ; विंशतेश्चेति वक्तव्यम्!> - 'शन्' उत 'शत्' यस्य अन्ते अस्ति, तादृशात् शब्दात् , तथा च 'विंशति'शब्दात् वेदेषु भिन्नेषु विषयेषु परिमाणार्थे 'डिनि' प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये नकारोत्तरः इकारः 'नकारस्य इत्संज्ञा मा भूत्' इति ज्ञापयितुम् स्थापितः अस्ति । उदाहरणानि एतानि -

[अ] 'पञ्चदशन्' - पञ्चदश अहानि (दिनानि) परिमाणमस्य

= पञ्चदशन् + डिनि

→ पञ्चदश् + इन् [टेः 6.4.143 इति टिलोपः]

→ पञ्चदशिन्

पञ्चदश अहानि परिमाणमस्य सः पञ्चदशी अर्धमासः ।

[आ] 'त्रिंशत्' - त्रिंशत् अहानि परिमाणमस्य

= त्रिंशत् + डिनि

→ त्रिंश् + इन् [टेः 6.4.143 इति टिलोपः]

→ त्रिंशिन्

त्रिंशत् अहानि परिमाणमस्य सः त्रिंशी मासः ।

[इ] विंशतिः गोत्राणि परिमाणमस्य

= विंशति + डिनि

→ विंश् + इन् [ते विंशतेर्डिति 6.4.142 इति टिलोपः[

→ विंशिन्

विंशतिः गोत्राणि परिमाणम् एषाम् ते विंशिनः अङ्गिरसः ।A group of people who have the same main gotra but twenty sub-gotras - इत्याशयः ।

Balamanorama

Up

index: 5.1.58 sutra: संख्यायाः संज्ञासंघसूत्राध्ययनेषु


संख्यायाः संज्ञासंघसूत्राध्ययनेषु - सङ्ख्यायाः । अनुवर्तत इति । तथाचतदस्य परिमाण॑मित्यर्थे प्रथमान्तात्संख्यात्मकपरिमाणवाचिनो यथाविहितं प्रत्ययाः स्युरित्यर्थः । संज्ञायां स्वार्थे प्रत्ययो वाच्य इति । 'पञ्चकाः शकुनय' इत्यत्र पञ्च परिमाणमेषामित्यर्थो न संभवति, आ दशतः संख्याः संख्येये इति पञ्चन्शब्दस्य संख्येयवृत्तित्वेन पञ्च परिमाणमिति सामानाधिकरण्यानुपपत्तेः । अतः संज्ञायां स्वार्थ #एव संख्यायाः प्रत्यय इति पर्यवस्यतीति भावः । यद्वेति । द्विशब्दस्य एकशब्दस्य च संख्येयवृत्तित्वेऽपि 'द्व्येकयोः' इति समासवृत्तावेकत्वद्वित्वपरत्वमभ्युपगम्यते । अन्यथा 'द्व्येकयोः' इति द्विवचनानुपपत्तेः । तद्वत्पञ्चकाः शकुनय इति तद्धितवृत्तावपि पञ्चन्शब्दस्य पञ्चत्वसंख्यापरतया पञ्चत्वं परिमाणमस्येति सामानाधिकरण्यं स्वीकृत्य पञ्चत्ववाचिनः पञ्चन्शब्दात् पञ्चत्वरूपपरिमाणवति प्रत्यय उपपद्यत इत्यर्थः । तत्र संज्ञायां स्वार्ते उदाहरति — पञ्चैवेति । परिमाणिनि प्रत्ययमुदाहरति — पञ्च परिमाणमिति । पञ्चत्वमित्यर्थः । सङ्घे इति । उदाहरणं वक्ष्यत इत्यर्थः । पञ्चक इति । पञ्चत्वस्य सङ्घस्य परिमाणमित्यर्थः । सङ्घस्य पञ्चत्वं तु अवयवाद्वारा बोध्यम् । सूत्र इति । उदाह्यियत इति शेषः । अष्टकं पाणिनीयमिति ।सूत्र॑मिति शेषः । अष्टावध्यायाः परिमाणमस्येति विग्रहः । अत्राष्टत्वमध्यायद्वार#आ सूत्रेऽन्वेति । सूत्रशब्दश्च सूत्रसंघपरः, एकस्मिन्सूत्रे अष्टकत्वस्याऽसंभवात् । नन्वेवं सति सङ्घग्रहणेनैव सिद्धे सूत्रग्रहणं व्यर्थमित्यत आह — सङ्घशब्दस्येति । पञ्चकमध्ययनमिति । पञ्चावृत्तयः परिमाणमस्येति विग्रहः । स्तोमे डविधिरिति ।तदस्य परिमाण॑मित्यर्थे सङ्ख्यावाचिन उपसंख्यातव्य॑ इति शेषः । सामाधारमन्त्रसमूहे स्तोमशब्दः शक्त इति कैयटः । मनुष्यादिसमूहे तु स्तोमशब्दो लाक्षणिक इति तदाशयः । तदाह — पञ्चदश मन्त्रा इति । पञ्चदशः स्तोम इति । पञ्चदशन्शब्दाड्डप्रत्ययेटे॑रिति टिलोपः । सामाधारबूतपञ्चदशमन्त्रसमूह इत्यर्थः । ननु ङित्त्वाऽभावेऽपि 'नस्तद्धिते' इत्येव टिलोपसिद्धेर्ङित्त्वं व्यर्थमित्यत आह — एकविंश इति । एकविंशतिर्मन्त्राः परिमाणमस्य समूहस्येति विग्रहः । डप्रत्यये इति ।ति विंशतेर्डिती॑ति टिलोपः । मीमासकास्तु पृष्ठरथन्तरादिशब्दवाच्या प्रगीतमन्त्रसाध्या गुणवत्त्वेन वर्णनात्मिका स्तुतिरेव स्तोमः, स एव डप्रत्ययार्थः । प्रगीतपञ्चदशमन्त्रपरिमाणकः स्तोम इत्यर्थः । पञ्चदशत्वसंख्यात्मकपरिमाणं स्तुतौ मन्त्रद्वारा बोध्यम् । एवंच 'पञ्चदशेन स्तुवते' इत्यादौ धात्वर्थभूतस्तुतिसामानाधिकरण्यं पञ्चदसादिशब्दानामुपपद्यत इत्याहुः । तन्मतमवलम्ब्याह — सोमयागेष्वित्यादि ।

Padamanjari

Up

index: 5.1.58 sutra: संख्यायाः संज्ञासंघसूत्राध्ययनेषु


परिमाणोपाधिकादिति। नात्र रूढिपरिमाणं गृह्यते, किं तर्हि ? क्रियाशब्दः - परिमीयते येन तत्परिमाणम्। संख्यापि च परिमीयत इति नासम्भवि विषेषणम्, नन्वेवमप्यव्यभिचारादविशेषणम्, न ह्यपरिच्छेदिका संख्यास्ति, सत्यम्; इह तु प्रत्ययार्थस्य संघादेर्यदा परिच्छेदिका संख्या तदा प्रत्ययो यथा स्यात् - पञ्च गावः परिमाणमस्य पञ्चको गोसङ्ग इति; इह मा भूत् - पञ्च गावः संभूता अस्य ब्रह्मणसङ्घस्येति, न ह्यत्र सङ्घस्येयतागम्यते, तस्मात्प्रत्ययार्थस्य यदा परिच्छेदिका संख्या तदा यथा स्यादिति विशेषणमर्थवद्भवति। तत्रेत्यादि। इहादशभ्यः संख्याः संख्येये वर्तन्त, ?????? सख्यानमात्रे। तत्र य एव शकुनयः पञ्चत्वसंख्यायुक्ताः पञ्चन्शब्दवाच्यास्त एव पञ्चकशब्दस्यापि, ततश्च परिमाणपरिमाणिभावाभावात्स्वार्थ एव प्रत्ययो वक्तव्यः। यदा तु वृत्तिविषये सम्भवत्येव परिमाणी प्रत्ययार्थः - पञ्चत्वसंख्या परिमाणमेषां पञ्चकाः शंकुनय इति। पञ्चकमध्ययनमिति। पूर्वं तु पञ्चकोऽधीते इति सम्पाठापेक्षया पुंल्लिङ्गनिर्द्देशः, ठधीतेऽ इति च कृत इत्यर्थः। यथा-ओदनपाकं पचत्योदनपाकं करोतीत्यर्थः। स्तेमे डविधिरिति। सोमयागेषु च्छन्दोगैः क्रियमाणा पृष्टादिस्तुतिः स्तेमः। पञ्चदश मन्त्राः परिमाणमस्येति। साम्रा स्तुवीत, एकं साम तृचे कियते इति स्तुतिविधिः। तत्र त्रिकस्य पञ्चकृत्व आवृत्या पञ्चदश मन्त्रा भवन्ति, सप्तदशसोमे अन्त्यायाः सप्तकृत्व आवृत्तिः एकविशे तृचस्य। डित्करणमेकविशे तिलोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदशः, सप्तदश इत्यत्र तु'नस्तद्धिते' इत्यनेनैव टिलोपः सिद्धः। शन्शतोर्डिनिरिति।'स्तोमे' इति न सम्बध्यते। अत्रापि डित्करणं शदन्तस्य टिलोपार्थम्। पञ्चदशिन इति। पञ्चदशाहानि परिमाणमेषामिति डिनिः। एतेन त्रिंशिनो व्याख्याताः। विंशिनोऽङ्गिरस इति। ठाङ्गिरसायास्य गौतमऽ इत्यादिप्रवरभेदेन भिन्नानि विंशतिरवान्तरगोत्राणि परिमाणमेषामित्यर्थः। योगश्चायं पूर्वस्यैव प्रपञ्चः ॥