पूरणार्धाट्ठन्

5-1-48 पूरणार्धात् ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अस्मिन् वृद्ध्यायलाभशुल्कोपदाः दीयते

Sampurna sutra

Up

index: 5.1.48 sutra: पूरणार्धाट्ठन्


'तदस्मिन् वृद्धि-आय-लाभ-शुल्क-उपदाः दीयते' इति पूरण-अर्धात् ठन्

Neelesh Sanskrit Brief

Up

index: 5.1.48 sutra: पूरणार्धाट्ठन्


'अस्मिन् वृद्धिः, आयः, लाभः, शुल्कः, उपदा दीयते' इत्यस्मिन् अर्थे प्रथमासमर्थात् पूरणप्रत्ययान्तशब्दात् तथा च 'अर्ध'शब्दात् ठन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.48 sutra: पूरणार्धाट्ठन्


पूरणवाचिनः शब्दातर्धशब्दाच् च ठन् प्रत्ययो भवति तदस्मिन् वृद्ध्याय. लाभशुल्कौपदा दीयते 5.1.47 इत्येतस्मिन्नर्थे। यथायथं ठक्टिठनोरपवादः। द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयिकः। तृतीयिकः। पञ्चमिकः। सप्तमिकः। अर्धिकः। अर्धशब्दो रुपकार्धस्य रूढिः।

Siddhanta Kaumudi

Up

index: 5.1.48 sutra: पूरणार्धाट्ठन्


यथाक्रम ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते द्वितीयिकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.48 sutra: पूरणार्धाट्ठन्


यस्मिन् व्यवहारे वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते, तस्य व्यवहारस्य निर्देशं कर्तुम् प्रथमासमर्थात् पूरणप्रत्ययान्तशब्दात् तथा च 'अर्ध'शब्दात् ठन् प्रत्ययः भवति ।

अत्र बिन्दुद्वयं स्मर्तव्यम् -

  1. किम् नाम पूरणप्रत्ययाः? पूर्यते यैः अर्थाः ते पूरणाः । इत्युक्ते, गणने ये शब्दाः प्रयुज्यन्ते - यथा 'प्रथम, द्वितीय, तृतीय' - एते शब्दाः पूरणप्रत्ययान्ताः ('cardinal numbers') नाम्ना ज्ञायन्ते । पूरणप्रत्ययाः तस्य पूरणे डट् 5.2.48 इत्यत्र पाठिताः सन्ति । एतेभ्यः सर्वेभ्यः 'वृद्धिः / आयः / लाभः / शुल्कः / उपदा' एतेषु अर्थेषु ठन्-प्रत्ययः भवति । अत्र द्वितीय वृद्धिः / द्वितीयः आयः इत्युक्ते धनस्य द्वितीयः अंशः, यः वृद्धिरूपेण आयरूपेण वा दीयते - इत्यर्थः । When the second part of the income is given as a वृद्धिः / आयः etc, we say that the वृद्धिः / आयः is द्वितीयः । अग्रे उदाहरणेषु एतत् अधिकम् स्पष्टीकृतमस्ति ।

  2. 'अर्ध' इत्युक्ते रूप्यकस्य अर्धः भागः । 50 paise इत्यर्थः । अस्मिन् विषये काशिकाकारः स्पष्टीकरोति - अर्धशब्दो रूपकस्यार्धे रूढः । It does not mean 'half of the money' ; rather it means '50 paise' - इति आशयः ।

इदानीं सूत्रार्थः स्पष्टः स्यात् - तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते 5.1.47 इत्यस्मिन् अर्थे पूरणप्रत्ययान्तशब्देभ्यः तथा च 'अर्ध'शब्दात् अनेन सूत्रेण ठन्-प्रत्ययः विधीयते । यथा -

  1. वृद्धिः ('interest given on a loan') - द्वितीयः वृद्धिः अस्मिन् दीयते सः द्वितीयिकः व्यवहारः । धनस्य प्रथमं अंशं स्वस्य कृते संस्थाप्य द्वितीयं अंशं वृद्धिरूपेण दीयते चेत् 'द्वितीयः वृद्धिः दीयते' इति प्रयोगः भवति । half of the income is kept for ourselves and half is given as the interest - इत्यर्थः । अस्मिन् विषये अनेन सूत्रेण ठन्-प्रत्ययः भवति । द्वितीय + ठन् → द्वितीयिक । तथैव, अर्धः वृद्धिः अस्मिन् दीयते सः अर्धिकः व्यवहारः । 50 paise is given as interest - इत्यर्थः ।

  2. आयः (tax) - तृतीयः आयः दीयते अस्मिन् देशे सः तृतीयीकः देशः । धनस्य तृतीयः अंशः आयरूपेण दीयते इति अत्र आशयः । अर्धः आयः दीयते अस्मिन् देशे सः अर्धिकः देशः । 50-paise is given as tax - इत्यर्थः ।

  3. लाभः (profit) - अर्धः लाभः दीयते अस्मिन् व्यवहारे सः अर्धिकः व्यवहारः ।50-paise लाभरूपेण दीयते इत्यर्थः । तथैव, द्वितीयः लाभः दीयते अस्मिन् व्यवहारे सः द्वितीयिकः व्यवहारः ।

  4. शुल्कः (A type of tax) - सप्तमः शुल्कः दीयते अस्मिन् देशे सः सप्तमः देशः । धनस्य सप्तमः अंशः शुल्करूपेण दीयते इत्यर्थः । अर्धं शुल्कं दीयते अस्मिन् व्यवहारे सः अर्धिकः व्यवहारः ।

  5. उपदा (bribe) - चतुर्थी उपदा दीयते अस्मिन् व्यवहारे सः चतुर्थिकः व्यवहारः । अर्धा उपदा दीयते अस्मिन् देशे सः अर्धिकः देशः ।

ज्ञातव्यम् -

  1. पूरणप्रत्ययान्तशब्देभ्यः आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5.1.19 इत्यनेन सर्वेषु आर्हीय-अर्थेषु विहितं ठक्-प्रत्ययं बाधित्वा अनेन सूत्रेण ठन्-प्रत्ययः भवति ।

  2. कंसात् टिठन् 5.1.25 इत्यत्र <!अर्धाच्चेति वक्तव्यम्!> इत्यनेन निर्दिष्टेन वार्त्तिकेन 'अर्ध'शब्दात् सर्वेषु आर्हीय-अर्थेषु टिठन्-प्रत्ययः विधीयते, तं बाधित्वा अर्ध-शब्दात् अनेन सूत्रेण ठन्-प्रत्ययः भवति । 'टिठन्' तथा 'ठन्' - द्वयोः रूपाणि समानानि एव भवन्ति, परन्तु द्वयोर्मध्ये 'टि' इत्येव भेदः अस्ति, येन स्त्रीप्रत्ययः भिद्यते । 'टिठन्'-प्रत्ययान्तः 'अर्धिक' शब्दः स्त्रीत्वे विवक्षिते टिड्ढाणञ्... 4.1.15 इत्यनेन ङीप्-प्रत्ययं स्वीकरोति, येन 'अर्धिकी' इति रूपं जायते । परन्तु ठन्-प्रत्ययान्तः 'अर्धिक'शब्दः स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्ययं स्वीकरोति, येन 'अर्धिका' इति रूपं सिद्ध्यति ।

Balamanorama

Up

index: 5.1.48 sutra: पूरणार्धाट्ठन्


पूरणार्धाट्ठन् - पूरणार्धाट्ठन् । तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे पूरणप्रत्ययान्तादर्धशब्दाच्च प्रथमान्ताट्ठन् स्यादित्यर्थः । द्वितीयिक तृतीयिकः इति ।आर्हा॑दिति ठकोऽपवादष्ठन् । अर्धिक इति । अर्धमस्मिन् वृद्ध्यादि दीयते इत्यर्थः ।अर्धाच्चेति वक्तव्य॑मिति टिठनोऽपवादष्ठन् । टिठनि सति तु स्त्रियां ङीप् स्यात् । अर्धिकेति तु टाबेवेष्यते । रूपकस्येति । रूप्यस्य कार्षापणस्येत्यर्थः । रूढ इति । अन्यथा अर्धशब्दस्य रूप्यकसापेक्षत्वादसामर्थ्यं स्यादिति भावः । रूप्यकस्यार्धे रूढ इत्यत्र प्रमाणं मृग्यम् । असामर्थ्यं तु नित्यसापेक्षत्वाद्वारयितुं शक्यमित्याहुः ।