5-1-49 भागात् यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अस्मिन् वृद्ध्यायलाभशुल्कोपदाः दीयते ठन्
index: 5.1.49 sutra: भागाद्यच्च
'तदस्मिन् वृद्धि-आय-लाभ-शुल्क-उपदाः दीयते' इति भागात् ठन् यत् च
index: 5.1.49 sutra: भागाद्यच्च
'अस्मिन् वृद्धिः, आयः, लाभः, शुल्कः, उपदा दीयते' इत्यस्मिन् अर्थे प्रथमासमर्थात् 'भाग'शब्दात् ठन् तथा यत् प्रत्ययौ भवतः ।
index: 5.1.49 sutra: भागाद्यच्च
भागशदाद् यत् प्रत्ययो भवति, चकारात् ठन् च, तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते 5.1.47 इत्येतस्मिन्नर्थे। ठञोऽपवादः। भागो। वृद्ध्यादिरस्मिन् दीयते भाग्यं, भागिकं शतम्। भाग्या, भागिका विंशतिः। भागशब्दोऽपि रूपकार्धस्य वाचकः।
index: 5.1.49 sutra: भागाद्यच्च
चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृद्ध्यादिरस्मिन्दीयते भाग्यं-भागिकं शतम् । भाग्या भगिका विंशतिः ॥
index: 5.1.49 sutra: भागाद्यच्च
यस्मिन् व्यवहारे वृद्धिः / आयः / लाभः / शुल्कः / उपदा दीयते, तस्य व्यवहारस्य निर्देशं कर्तुम् प्रथमासमर्थात् 'भाग'शब्दात् ठन् तथा यत् प्रत्ययौ भवतः । 'भागः' इत्युक्ते रूप्यकस्य अर्धः अंशः (50 paise इत्यर्थः) ।
यथा - भागः वृद्धिः आयः लाभः शुल्कः उपदा वा दीयते अस्मिन् व्यवहारे सः भाग्यः भागिकः वा व्यवहारः / तत् भाग्यं भागिकं वा शतम् / सा भाग्या भागिका वा विंशतिः ।
ज्ञातव्यम् - आर्हातगोपुच्छसङ्ख्यापरिमाणात् ठक् 5.1.19 इत्यनेन प्राप्तम् ठक्-प्रत्ययं बाधित्वा अनेन सूत्रेण ठन्-प्रत्ययः विधीयते ।
index: 5.1.49 sutra: भागाद्यच्च
भागाद्यच्च - भागाद्यच्च । तदस्मिन् वृद्ध्यादि दीयत इत्यर्थे भागशब्दात्प्रथमान्ताद्यत्प्रत्ययश्च स्यादित्यर्थः । चाट्ठनिति ।पूर्वसूत्रादनुकृष्यते॑ इति शेषः । भागशब्दोऽपि रूपकस्यार्ध इति । 'वर्तते' इति शेषः ।
index: 5.1.49 sutra: भागाद्यच्च
भागश्ब्दोऽपीति। न केवलमर्द्धशब्द एवेत्यपिशब्दार्थः ॥