5-1-32 विंशतिकात् खः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः
आ-अर्हात् विंशतिकात् अध्यर्धपूर्वद्विगोः खः
सर्वेषु आर्हीय-अर्थेषु 'विंशतिक'शब्दस्य विषये तद्धितार्थे विहितात् अध्यर्धपूर्व/द्विगुसमासात् ख-प्रत्ययः भवति ।
अध्यर्धपूर्वात् प्रातिपदिकाद् द्विगोश्च विंशतिकशब्दान्तादार्हीयेष्वर्थेषु खः प्रत्ययो भवति। अध्यर्धविंशतिकीनम्। द्विविंशतिकीनम्। त्रिविंशतिकीनम्। विधानसामर्थ्यादस्य लुङ् न भवति॥
अध्यर्धपूर्वाद्द्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥
'विंशतिक' शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु ख-प्रत्ययः भवति । 1. द्वौ विंशतिकौ परिमाणम् अस्य तत् - द्वि + विंशतिक + ख → द्विविंशतिक + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन-आदेशः] → द्विविंशतिक् + ईन [<<यस्येति च>> 6.4.148 इति अकालोपः] → द्विविंशतिकीन । तथैव - 2. अध्यर्धम् विंशतिकम् परिमाणमस्य तत् अध्यर्धविंशतिकीनम् । 3. त्रिभिः विंशतिकाभिः क्रीतम् तत् त्रिविंशतिकीनम् । ज्ञातव्यम् - 1. 'विंशतिक' अयम् शब्दः संज्ञावाचकः अस्ति । कस्यचन परिमाणस्य संज्ञा इयम् । <<विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्>> 5.1.24 इत्यनेन अयं शब्दः सिद्ध्यति । अस्य शब्दस्य विषये <<शतमानविंशतिकसहस्रवसनादण्>> 5.1.27 इत्यनेन अण्-प्रत्ययविधानम् क्रियते । अध्यर्धपूर्वसमासस्य तथा द्विगुसमासस्य विषये तद् बाधित्वा अनेन सूत्रेण ख-प्रत्ययः विधीयते । 2. द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य <<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा ख-प्रत्ययः क्रियते ।
<<विंशतिकात् खः>> - विशतिकात्खः । अद्यर्धपूर्वाद्द्विगोरित्येवेति । पूर्वसूत्रयोरध्यर्धपूर्वादित्यस्याऽसंभवाद्द्विगोरित्यस्य प्रयोजनाऽभावादननुवृत्तावपि इह तदनुवर्तत इति भावः । अध्यर्थविंशतिकीनमिति । अध्यर्धर्विंशत्या क्रीतमध्यर्थविंशतिकम् ।विशतितिंरशद्भ्या॑मिति योगविभागात्कन् । अध्यर्थविंशतिकेन क्रीतमिति विग्रहः । द्विविंशतिकीनमिति । द्वाभ्यां विंशतिकाभ्यां क्रीतमिति विग्रहः ।