द्वित्रिपूर्वान्निष्कात्

5-1-30 द्वित्रिपूर्वात् निष्कात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः ठञ् ठक् अध्यर्धपूर्वद्विगोः लुक् विभाषा

Sampurna sutra

Up

index: 5.1.30 sutra: द्वित्रिपूर्वान्निष्कात्


आ-अर्हात् द्वि-त्रि-पूर्वात् निष्कात् द्विगोः विभाषा लुक्

Neelesh Sanskrit Brief

Up

index: 5.1.30 sutra: द्वित्रिपूर्वान्निष्कात्


यस्य तद्धितार्थद्विगुसमासस्य पूर्वपदे 'द्वि' तथा 'त्रि' शब्दः, तथा उत्तरपदे 'निष्क' शब्दः विद्यते, तस्मात् विहितस्य आर्हीयप्रत्ययस्य विकल्पेन लुक् भवति ।

Kashika

Up

index: 5.1.30 sutra: द्वित्रिपूर्वान्निष्कात्


द्विगोः इत्येव। द्वित्रिपूर्वाद् द्विगोर्निष्कान्तातार्हीयप्रत्ययस्य विभाषा लुग् भवति। द्विनिष्कम्, द्विनैष्किकम्। त्रिनिष्कम्, त्रिनैष्किकम्। बहुपूर्वाच् चेति वक्तव्यम्। बहुनिष्कम्, बहुनैष्किकम्। परिमाणान्तस्य इत्युत्तरपदवृद्धिः।

Siddhanta Kaumudi

Up

index: 5.1.30 sutra: द्वित्रिपूर्वान्निष्कात्


लुग्वा स्यात् । द्विनिष्कम्-द्विनैष्किकम् । त्रिनिष्कम्-त्रिनैष्किकम् ।<!बहुपूर्वाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ बहुनिष्कम् । बहुनैष्किकम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.30 sutra: द्वित्रिपूर्वान्निष्कात्


'द्वे निष्के', तथा 'त्रीणि निष्कानि' एतयोर्विषये तद्धितार्थद्विगुसमासेन निर्मितात् शब्दात् आर्हीय-अर्थेषु विहितस्य प्रत्ययस्य विकल्पेन लुक् भवति, इति अस्य सूत्रस्य आशयः । यथा -

  1. द्वाभ्यां निष्काभ्यां क्रीतम् द्विनिष्कम् द्विनैष्किकम् वा । अत्र औत्सर्गिकस्य ठञ्-प्रत्ययस्य विकल्पेन लुक् भवति । लुकः अभावे परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इत्यनेन उत्तरपदवृद्धिः भवति ।

  2. तथैव - त्रिभिः निष्कैः क्रीतम् त्रिनिष्कम्, त्रिनैष्किकम् वा ।

अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!बहुपूर्वात् चेति वक्तव्यम्!> । इत्युक्ते' बहूनि निष्कानि' इत्यस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । बहूभिः निष्कैः क्रीतम् बहुनिष्कम् बहुनैष्किकम् वा । अत्रापि लुकः अभावे औत्सर्गिकः ठञ्-प्रत्ययः तथा च परिमाणान्तस्यासंज्ञाशाणयोः 7.3.17 इत्यनेन उत्तरपदवृद्धिः भवति ।

Balamanorama

Up

index: 5.1.30 sutra: द्वित्रिपूर्वान्निष्कात्


द्वित्रिपूर्वान्निष्कात् - द्वित्रिपूर्वान्निष्कात् । लुग्वा स्यादिति ।आर्हीयस्ये॑ति शेषः । द्विनिष्कमिति । ठञो लुक्, समासाट्ठकोऽसंभवात् ।

Padamanjari

Up

index: 5.1.30 sutra: द्वित्रिपूर्वान्निष्कात्


अध्यर्द्धपूर्वग्रहणमुतरार्थमनुवर्तते, इह तु न सम्बध्यते। द्विगुग्रहणं तु सम्बध्यते, द्वयोर्निष्कं त्रयाणां निष्कमिति षष्ठीसमासे मा भूत्। अत्र च व्याख्यानमेव शरणम्; अन्यथा ठद्यर्धपूर्वाद् द्वित्रिपूर्वाच्च निष्कात्ऽ इति समुच्ययो विज्ञायेत। द्विनैष्किकमिति।'ग्राग्वतेष्ठञ्' ,'परिमाणान्तस्य' इत्युतरपदवृद्धिः। द्वित्रिभ्यां निष्कादित्येव सिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनम् ॥