विभाषा विवधवीवधात्

4-4-17 विभाषा विवधात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन हरति ष्ठन्

Sampurna sutra

Up

'तेन हरति' इति विवध-वीवधात् विभाषा ष्ठन्

Neelesh Sanskrit Brief

Up

'हरति' अस्मिन् अर्थे तृतीयासमर्थात् 'विवध'शब्दात् तथा 'वीवध'शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति । पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।

Kashika

Up

हरतीत्येव। विवधवीवधशब्दाभ्यां तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति। तेन मुक्ते प्रकृतष्ठग् भवति। विवधेन हरति विवधिकः। विवधिकी । वीवधिकः। वीवधिकी। ठक् खल्वपि — वैवधिकः। वैवधिकी। विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते॥

Siddhanta Kaumudi

Up

विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'हरति (= अन्यत्र नयति / हरणं करोति') अस्मिन् अर्थे विवध / वीवध (= बन्धनार्थम् प्रयुज्यमाना शृङ्खला) एताभ्यां शब्दाभ्याम् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे <<प्राग्वहतेष्ठक्>> 4.4.1 इति औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते । यथा - 1. विवधेन हरति सः = विवध + ष्ठन् → विवध + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → विवध + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → विवध् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → विवधिक स्त्रीत्वे विवक्षिते <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन ङीष्-प्रत्ययं कृत्वा 'विवधिकी' इति रूपं सिद्ध्यति । 2. विवधेन हरति सः = विवध + ठक् → विवध + ठ [ककारस्य इत्संज्ञा, लोपः] → विवध + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → वैवध + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → वैवध् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → वैवधिक स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्..>> 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा वैवधिकी' इति रूपं सिद्ध्यति । एवमेव 'वीवध' शब्दात् अपि 'वीवधिक' तथा 'वैवधिक' एते प्रातिपदिके सिद्ध्यतः । ज्ञातव्यम् - कौमुद्यां भाष्ये च एतत् सूत्रम् 'विभाषा विवधात्' इत्येव दत्तमस्ति । वीवधा-शब्दस्य कृते अपि अस्य सूत्रस्य प्रयोगः भवेत् एतत् निर्देशयितुम् भाष्यकारः <! वीवधाच्चेति वक्तव्यम् !> इति वार्त्तिकं पाठयति । कौमुदीकारः तु <<एकदेशविकृतमनन्यवत्>> अनया परिभाषया 'विवध'शब्दवत् एव 'वीवध'शब्दात् अपि एतौ प्रत्ययौ भवतः इति निर्देशयति ।

Balamanorama

Up

<<विभाषा विवधात् (विवधवीवधात्)>> - विभाषा विवधात् ।हरतीत्यर्थे तृतीयान्तात् ष्ठ॑निति शेषः ।

Padamanjari

Up

पर्याहारे चेति । परित आह्रियतेऽनेन तण्डुलादिकोऽर्थ इति पर्याहारः उ उभयतो बद्धशिक्याआऽसवाह्यः काष्ठविशेष उच्यते । वीवधशब्दो वार्तिके दर्शनात्सूत्रे प्रक्षिप्तः ॥