4-4-18 अण् कुटिलिकायाः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन हरति
'तेन हरति' (इति) कुटिलिकायाः अण्
'हरति' अस्मिन् अर्थे तृतीयासमर्थात् कुटिलिकाशब्दात् अण्-प्रत्ययः भवति ।
हरतीत्येव। कुटिलिकाशब्दात् तृतीयासमर्थादण् प्रत्ययो भवति हरतीत्येतस्मिन्नर्थे। कुटिलिकया हरति मृगो व्याधं कौटिलिको मृगः। कुटिलिकया हरत्यङ्गारान् कौटिलिकः कर्मारः। कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्चोच्यते॥
कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥
'कुटिलिका' (व्याधैः प्रयुज्यमाना विशिष्टप्रकारस्य यष्टिः) अस्मात् शब्दात् 'हरति (= अन्यत्र नयति / हरणं करोति)' अस्मिन् अर्थे अण्-प्रत्ययः विधीयते । यथा - कुटिलिकया हरति सः कौटिलिकः व्याधः । प्रक्रिया इयम् - कुटिलिका + अण् → कौटिलिका + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → कौटिलिक् + अ [<<यस्येति च>> 6.4.148 इति आकारलोपः] → कौटिलिक
<<अण् कुटिलिकायाः>> - अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात्कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः, तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः ।
कुटिलव्याधानामुपरमणमु कुटिलिका, संज्ञायां कन् ॥