भस्त्रादिभ्यः ष्ठन्

4-4-16 भस्त्रादिभ्यः ष्ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन हरति

Sampurna sutra

Up

'तेन हरति' (इति) भस्त्रादिभ्यः ष्ठन्

Neelesh Sanskrit Brief

Up

भ्रस्त्रादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः 'हरति' अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।

Kashika

Up

भस्त्रेत्येवमादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी। भरटिकः। भरटिकी॥ भस्त्रा। भरट। भरण। शीर्षभार। शीर्षेभार। अंसभार। अंसेभार। भस्त्रादिः॥

Siddhanta Kaumudi

Up

भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

भस्त्रादिगणे ये शब्दाः पाठ्यन्ते, तेभ्यः तृतीयासमर्थेभ्यः 'हरति' (= दूरं नयति / हरणं करोति) अस्मिन् अर्थे ष्ठन्-प्रत्ययः विधीयते । भस्त्रादिगणः अयम् - भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार । उदाहरणम् - भस्त्रया हरति सः = भस्त्र + ष्ठन् → भस्त्र + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → भस्त्र + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → भस्त्र् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → भस्त्रिक । ष्ठन्-प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् '<<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम्' इति वर्तते । अतः 'भस्त्रया हरति सा' इत्यत्मिन् अर्थे भस्त्र + ष्ठन् + ङीष् → भस्रिकी इति रूपं सिद्ध्यति ।

Balamanorama

Up

<<भस्त्राऽऽदिभ्यः ष्ठन्>> - भस्त्रादिभ्यः ष्ठन् ।ष्ठ॑निति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो भस्त्रादिभ्यः ष्ठन् स्यादित्यर्थः । षित्त्वादिति ।ङी॑षिति शेषः ।

Padamanjari

Up

भस्त्रमु चर्मविकारः, येन लोहादि ध्मायते, येन वा धान्यादिकं नीयते,'हूयामाश्रुभसिभ्यस्त्रन्' इति करणए त्रन् । शीर्षभारः, शीर्षेभार इति पठ।ल्ते, निपातनाच्छीर्षभावः सप्तमीसमासश्च,'तत्पुरुषे कृति बहुलम्' इति सप्तम्या अलुक् ॥