4-4-103 गुडादिभ्यः ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः
'तत्र साधुः' (इति) गुडादिभ्यः संज्ञायाम् ठञ्
'साधुः' अस्मिन् अर्थे गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति ।
गुडादिभ्यः शब्देभ्यष्ठञ्प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। गुडे साधुर्गौडिक इक्षुः। कौल्माषिको मुद्गः। साक्तुको यवः॥ गुड। कुल्माष। सक्तु। अपूप। मांसौदन। इक्षु। वेणु। संग्राम। संघात। प्रवास। निवास। उपवास। गुडादिः॥
गुडे साधुर्गौडिक इक्षुः । साक्तुका यवाः ॥
'साधुः' इत्युक्ते योग्यः, प्रवीणः । गुडादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठञ्-प्रत्ययः भवति । गुडादिगणः अयम् - गुड, कुल्माष, सक्तु, अपूप, मांसौदन, इक्षु, वेणु, सङ्ग्राम, सङ्घात, प्रवास, निवास, उपवास । उदाहरणानि - 1. गुडे साधुः = गुड + ठञ् → गुड + इक [<<ठस्येकः>> 7.3.50 इति ठक्-इत्यस्य इक-आदेशः] → गौड + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → गौड् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → गौडिक गुडे साधुः सः गौडिकः इक्षुः । यस्मात् उत्तमः गुडः जायते सः गौडिकः इक्षुः । 2. सक्तौ साधुः साक्तविकः । सक्तु + ठञ् → सक्तु + इक [<<ठस्येकः>> 7.3.50 इति ठक्-इत्यस्य इक-आदेशः] → साक्तु + इक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → साक्तो + इक [<<ओर्गुणः>> 6.4.146 इति गुणः] → साक्तव् + इक [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → साक्तविक । 3. अपूपे साधुः आपुपिकः । 4. इक्षौ साधुः ऐक्षविकः ।
<<गुडादिभ्यष्ठञ्>> - पथ्यतिथीत्यादि स्पष्टम् ।