4-4-102 कथादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः
'तत्र साधुः' इति कथादिभ्यः संज्ञायाम् ठक्
'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ठक्-प्रत्ययः भवति ।
कथादिभ्यःशब्देभ्यष्ठक् प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। कथायां साधुः काथिकः। वैकथिकः॥ कथा। विकथा। वितण्डा। कुष्टचित्। जनवाद। जनेवाद। वृत्ति। सद्गृह। गुण। गण। आयुर्वेद। कथादिः॥
कथायां साधुः काथिकः ॥
'साधुः' इत्युक्ते प्रवीणः, कुशलः, योग्यः । 'साधुः' अस्मिन् अर्थे कथादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः भवति । कथादिगणः अयम् - कथा, विकथा, वितण्डा, कुष्टचित्, जनवाद, जनेवाद, वृत्ति, सद्गृह, गुण, गण, आयुर्वेद । उदाहरणानि - 1. कथायां साधुः = कथा + ठक् → कथा + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → काथ + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → काथ् + इक [<<यस्येति च>> 6.4.148 इति अन्तिम-आकारलोपः] → काथिक कथायां साधु काथिकम् चित्रम् । 2. विकथायां साधुः वैकथिकः । 3. वितण्डायां साधुः वैतण्डिकः । 'वितण्डा' इत्युक्ते 'विश्लेषणम् / चोदनम्' (criticism). 4. आयुर्वेदे साधुः आयुर्वेदिकः ।
<<कथाऽऽदिभ्यष्ठक्>> - कथादिभ्यष्ठगित्यादि स्पष्टम् ।