4-4-104 पथ्यतिथिवसतिस्वपतेः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् तत्र साधुः
'तत्र साधुः' इति संज्ञायाम् पथि-अतिथि-वसति-स्वपतेः संज्ञायाम् ढञ्
'साधुः' अस्मिन् अर्थे पथिन्, अतिथि, वसति, स्वपति -एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति ।
पथ्यादिभ्यः शब्देभ्यो ढञ्प्रत्ययो भवति तत्र साधुरित्येतस्मिन् विषये। यतोऽपवादः। पथि साधु पाथेयम्। आतिथेयम्। वासतेयम्। स्वापतेयम्॥
पथि साधुः पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । स्वापतेयं धनम् ॥
'साधुः' इत्युक्ते योग्यः, प्रवीणः । पथिन्, अतिथि, वसति, स्वपति - एतेभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये ढञ्-प्रत्ययः भवति । अस्मिन् सूत्रे 'संज्ञायाम्' इति अनुवर्तते, अतः अस्य सूत्रस्य प्रयोगः विशिष्टेषु प्रयोगेषु एव क्रियते । उदाहरणानि एतानि - 1. पथि साधुः = पथिन् + ढञ् → पथिन् + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति एय्-आदेशः] → पाथिन् + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पाथ् + एय [<<नस्तद्धिते>> 6.4.144 इति टिलोपः] → पाथेय । पथि साधुः पाथेयम् खाद्यम् पेयम् वा । 2. अतिथौ साधुः आतिथेयः व्यवहारः । अतिथिं प्रति यः व्यवहारः कार्यः , सः अतिथौ योग्यः आतिथेयः व्यवहारः । 3. वसतौ साधुः वासतेयम् गृहम् । 'वसति' इत्युक्ते निवसनम् । वसनकार्यार्थम् योग्यम् / उचितम् गृहम् वासतेयम् गृहम् । 4. स्वपतौ साधुः स्वापतेयम् धनम् । 'स्वपति' इत्युक्ते धनिकः । धनिकस्य समीपे यत् साधुः भासते, तत् स्वापतेयम् धनम् ।
पतन्त्यनेनेति पन्थाः,'गमेरिनिः' 'पतेस्थ च' ; अतति सततं गच्छतीत्यतिथिः, न विद्यते तिथिर्यस्य सोऽप्यतिथिः, एकमपि दिनमत्रास्थित इत्यर्थः । वसनं वसतिः,'वसेश्च' इत्यतिप्रत्ययः, तत्र योग्या वासतेयी रात्रिः । स्वपतिराद्यः, स्वपतेर्योग्यं स्वापतेयं धनम् ॥