छन्दोब्राह्मणानि च तद्विषयाणि

4-2-66 छन्दोब्राह्मणानि च तद्विषयाणि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद प्रोक्तत्

Kashika

Up

index: 4.2.66 sutra: छन्दोब्राह्मणानि च तद्विषयाणि


प्रोक्तग्रहणमनुवर्तते। छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति। अध्येतृवेदितृरत्ययविषयाणि। अनन्यभावो विषयार्थः। तेन स्वातन्त्र्यमुपाध्यान्तरयोगो वक्यं च निवर्तते। कठेन प्रोक्तमधीयते कठाः। मौदाः। पैप्पलादाः। आर्चाभिनः। वाजसनेयिनः। ब्राह्मणानि खल्वपि ताण्डिनः। भाल्ल्लविनः। शाट्यायनिनः। ऐतरेयिणः। ब्राह्मणग्रहणं किं, यावता छन्द एव तद्? ब्राह्मणविशेषप्रतिपत्त्यर्थम्। इह तद्विषयता मा भूत्, याज्ञवल्क्येन प्रोक्तानि ब्राह्मन्णानि याज्ञवल्क्यानि। सौलभानि। चकारोऽनुक्तसमुच्चयार्थः। कल्पे काश्यपिनः। कौशिकिनः। सूत्रे पाराशरिणो भिक्षवः। शैलालिनो नटाः। कर्मन्दिनः। कृशाश्विनः। छन्दोब्राह्मणानि इति किम्? पाणिनीयं व्याकरणम्। पैङ्गी कल्पः।

Siddhanta Kaumudi

Up

index: 4.2.66 sutra: छन्दोब्राह्मणानि च तद्विषयाणि


छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाणि स्युः । अद्येतृवेदितृप्रत्ययं विना न प्रयोज्यानीत्यर्थः । कठेन प्रोक्तमधीयते कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्य कठचरकात् -<{SK1487}> इति लुक् । ततोऽण्, तस्य प्रोक्ताल्लुक् <{SK1274}> ॥

Balamanorama

Up

index: 4.2.66 sutra: छन्दोब्राह्मणानि च तद्विषयाणि


छन्दोब्राह्मणानि च तद्विषयाणि - छन्दोब्राआहृणानि । छन्दांसि-मन्त्राः, ब्राआहृणानि-विधिवाक्यानि । तेषां द्वन्द्वः । वेद इति यावत्,मन्त्रब्राआहृणोर्वेदनामधेय॑मिति स्मरणात् ।प्रोक्ताल्लु॑गित्यतः प्रोक्तादित्यनुवर्तते । प्रथमाबहुवचनेन विपरिणम्यते । प्रोक्तप्रत्ययान्तानीति लभ्यते । तदाह — छन्दांसीत्यादिना । तद्विषयाणीत्यत्र तच्छब्देन अध्येतृवेदितृप्रत्यया विवक्षिताः । तैर्विषयः=अविनाभावो येषां तान — तद्विषयाणि ।षिञ्बन्धने॑ । विशिष्य सयो-बन्धः-विषयः । अविनाऽभाव इति यावत् । अध्येतृवेदितृप्रत्ययसंयुक्तान्येव स्युरित्यर्थः । फलितमाह — अध्येतृवेदितृप्रत्ययं विनेति । पाणिनिना प्रोक्तं पाणिनीयं व्याकरणम् । पाणिनीयास्तदध्येतारो वेदितारो वेति वदध्येतृप्रत्ययं विनापि प्रयोगे प्राप्ते नियमार्थमिदम् । कठेनेति । कठेन प्रोक्तमधीयते इत्यर्थे 'कठा' इत्युदाहरणमिति भावः । तदुपपादयति — वैशम्पायनेति । कठेन प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणपवादःवैशम्पायनान्तेवासिभ्यश्च॑ इति णिनिरित्यर्थः । तस्येति । णिनेःकठचरकाल्लु॑गित्यनेन लुगित्यर्थः । एवंच कठेन प्रोक्तो वेदभागः कठ इति स्थितम् । ततोऽणिति । तस्माल्लुप्तप्रोक्तप्रत्ययकात्कठशब्दात्तदधीते इति अणित्यर्थः । तस्य प्रोक्ताल्लुगिति । तस्य=अध्येत्रणः, 'प्रोक्ताल्लुक्' इति लुगित्यर्थः । तथा च कठेन प्रोक्तमधीयते कठा इत्येवं कठशब्दस्य लुप्तप्रोक्तप्रत्ययान्तस्य अध्येत्रणा सहैव प्रयोगार्हता, नतु तेन विना केवलप्रोक्तप्रत्ययान्तस्येति भावः । * इति बालमनोरमायाम् रक्ताद्यर्थक प्रकरणम् ।*अथ तनादयः ।अथ उविकरणधातवो निरूप्यन्ते । तनुधातुरुदित् ।उदितो वे॑ति प्रयोजनम् । तनादिकृञ्भ्य उः । कत्र्रर्थे सार्वधातुके तनादिभ्यः कृञश्च उप्रत्ययः स्यात्स्वार्थेइत्र्थः । शपोऽपवादः । तनोतीति । उप्रत्ययस्य तिपमाश्रित्य गुणः । तसादौ तु ङित्त्वान्न गुणः । तनुतः । झोऽन्तादेशे कृतेइको यणची॑ति यण् । तन्वन्ति । तनोषि तनुथः । तनुथ । तनोमि ।लोपश्चाऽस्यान्यतरस्या॑मित्यकारलोपविकल्पमभिप्रेत्याह — तन्वः तनुव इति । तङ्याह - तनुते इति । तन्वाते तन्वते ।तनुषे तन्वाथेतनुध्वे । तन्वे तनुवहे - तन्वहे तनुमहे - तन्हे । ततानेति । तेनतुः । तेनिथ । तेन । तेनिव । तङ्याह - तेने इति । तेनात् तेनिरे । तेनिषे तेनाथे तेनिध्वे । तेने तेनिवहे तेनिमहे ।तनिता । तनिष्यति । तनिष्यते । तनोतु- तनुतात् तनुताम् तन्वतु ।उतश्चप्रत्यया॑दिति हेर्लुकं मत्वाह — तन्विति । तनुतात् तनुतम् तनुत । तनवानि । तनवाव तनवाम । अतनोत् अतनुतामतन्वन् । अतनोः । अतनम्, अतन्व- अतनुव । तनुयात् । तन्वीत । तनिषीष्ट ।अतो हलादे॑रिति वृद्धिविकल्पं मत्वाऽऽह - अतनीत् अतानीदिति । अतनिष्टामतनिषुः । अतनीः अतनिष्टमतनिष्ट । अतनिषमतनिष्व अतनिष्म । वृद्धिपक्षे अतानिष्टामित्यादि । अतनिष्यत् । लुङस्तङि प्रतमैकवचने, मध्यमपुरुषैकवचने च विशेषमाह -

Padamanjari

Up

index: 4.2.66 sutra: छन्दोब्राह्मणानि च तद्विषयाणि


प्रोक्तग्रहणमनुवर्तते इति । तद्ध्यनुवर्तमानमेव पूर्वसूत्र आरम्भसामर्थ्यान्न सम्बध्यते । च्छन्दांसि च ब्राह्मणानि चेति । तद्वाचीनि शब्दरूपाणीत्यर्थः । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात्, अप्रोक्तप्रत्ययान्तत्वाच्च । प्रोक्तप्रत्ययान्तानीति । प्रोक्तादिति पञ्चम्यन्तं प्रकृतं प्रथमाबहुवचनान्तं विपरिणम्यते,'च्छन्दोब्राह्मणानि' इत्यनेन सामानाधिकरण्यादिति भावः । अध्येतृवेदितृप्रत्ययविषयाणीत्यनेनैतद्दर्शयति - तच्छब्देनाध्येतृवेदितृप्रत्ययः परामृश्यते, विधेयतया प्रधानत्वात्; नाध्येतृवेदितासवर्थौ, तयोः प्रत्ययविधौ गुणभावादिति । किं सिद्धं भवति ? अध्येतृविषयमपि वाक्यं निवर्तितं भवति । अनन्यभावो विषयार्थ इति । ग्रामसमुदायादिवृत्तिस्तु विषयशब्दोऽसम्भवान्न गृह्यते । अत्र यद्यधीते वेदेत्यनुवर्तेत, ततोऽध्येतृवेदितृविवक्षायामेव तद्विषयता विधीयेत, ततश्च तद्विषयमेव वाक्यं निवर्तयेत्, न क्रियान्तरविषयम्, नापि स्वातन्त्र्यमुपाध्यन्तरयोगं च । यदाह - तत्र'यथाधिकारातद्विषयप्रसङ्गः' इति । तस्मात्प्रोक्तग्रहणमेवानुवर्तते, नाधीयते वेदेति । तच्छब्देन च प्रत्ययः परामृश्यते, विषयशब्दश्च अनन्यभावार्थः । तेन सर्वमेतत्स्वातन्त्र्यादि निवर्तते । आह च -'सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात्' इति । प्रोक्तग्रहणमेवाधिक्रियते, नाधीते वेदेत्येतावर्थावित्यर्थः । इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता दृश्यते - स्वातन्त्र्यम्, उपाध्यन्तरयोगः, वाक्यम्, अध्येतृवेदित्रोः प्रत्यय इति । स्वातन्त्र्यं तावत् - पाणिनिना प्रोक्तं पाणिनीयमिति । प्रोक्तार्थ एव वृत्तिः; उपाध्यन्तरयोगः । महत्पाणिनीयमिति वाक्यम् । पाणिनीयमधीत इति प्रत्ययः - पाणिनीयाश्छात्रा इति । च्छन्दोब्राह्मणवाचिनां तु प्रोक्तप्रत्ययान्तानां नित्यमध्येतृवेदितृप्रत्ययान्तवैवेष्यते, न तु स्वातन्त्र्यादि, तदर्थमिदमारभ्यते, तदाह - तेनेति । एवं च कृत्वाऽर्थद्वयस्यापिं तन्त्रेण विग्रहः कर्तव्य इति दर्शयति । कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य'कठचरकाल्लुक्' इति लुक् ततः'तदधीते' इत्यण्, ततस्तस्यापि'प्रोक्ताल्लुक्' इति लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थो औत्सगिकोऽण् । शेषं यथायोगं पूर्ववत् । ऋचाभःउवैशम्पायनान्तेवासी । एवं ताण्ड।ल्ः । वाजसनेयशब्दः शौनकादिः । ताण्डिन इति । ठपत्यस्यऽ इति यलोपः । भाल्लविशब्द इञन्तः । शाट।ल्शब्दाद् गर्गादियञन्ताद्'यञिञोश्च' इति फक् । ऐतरेयशब्दः शुभ्रादिढगन्तः, तेभ्यः'पुराणप्रोक्तेषु' इति णिनिः, सर्वत्राध्येतृप्रत्ययस्य लुक् । ब्राह्मणविशेषप्रतिपत्यर्थमिति । ब्राह्मणस्य विशेषः पुराणप्रोक्तत्वम् । याज्ञवल्क्यानीति । याज्ञवल्क्यशब्दः कण्वादिः, सुलभादौत्सर्गिकोऽण्, अत्र स्वातन्त्र्यं भवति ।'पुराणप्रोक्तेषु' इत्यत्र वक्ष्यति -'याज्ञवल्क्यादयो ह्यचिरकालप्रवृता इत्याख्यानेषु वार्ता' इति । काश्यपिनः, कौशिकिन इति ।'काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' । पाराशरिण इति । पाराशर्यशब्दाद् गर्गादियञन्तात्'पाराशर्यशिलालिभ्याम्' इति णिनिः, पूर्ववद्यलोपः । कर्मन्दिन इति ।'कर्मन्दकृशाश्वादिनिः' । पिङ्गशब्दात्पुराणप्रोक्तेषुऽ इति णिनिः ॥