4-2-75 सङ्कलादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्
सङ्कलादिभ्यः 'तदस्मिन्नस्तीति देशे तन्नाम्नि , तेन निर्वृत्तम् , तस्य निवासः , अदूरभवश्च' (इति) प्राग्दीव्यतीयः प्रत्ययः अञ्
सङ्कलादिगणस्य शब्देभ्यः चतुरर्थेषु अञ् प्रत्ययः भवति ।
In the context of चतुरर्थाः, the words belonging to the सङ्कलादिगण get the अञ् प्रत्यय.
कूपेष्विति निवृत्तम्। संकल इत्येवमादिभ्योऽञ् प्रत्ययो भवति चातुरर्थिकः। अणोऽपवादः। यथासंभवमर्थसंबन्धः। संगतः कलः संकलः। संकलेन निर्वृत्तः सांकलः। पौष्कलः॥ संकल। पुष्कल। उद्वप। उडुप। उत्पुट। कुम्भ। विधान। सुदक्ष। सुदत्त। सुभूत। सुनेत्र। सुपिङ्गल। सिकता। पूतीकी। पूलास। कूलास। पलाश। निवेश। गवेष। गम्भीर। इतर। शर्मन्। अहन्। लोमन्। वेमन्। वरुण। बहुल। सद्योज। अभिषिक्त। गोभृत्। राजभृत्। गृह। भृत। भल्ल। माल। वृत्॥
कूपेष्विति निवृत्तम् । सङ्कलेन निर्वृत्तं साङ्कलम् । पौष्कलम् ॥
अष्टाध्याय्याम् <<तदस्मिन्नस्तीति देशे तन्नाम्नि>> 4.2.67, <<तेन निर्वृत्तम्>> 4.2.68, <<तस्य निवासः>> 4.2.69, तथा <<अदूरभवश्च>> 4.2.70 एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषाम् विषये सङ्कलादिगणस्य शब्देभ्यः चतुरर्थेषु अण्-प्रत्ययः विधीयते । सङ्कलादिगणः अयम् - सङ्कल। पुष्कल। उद्वप। उडुप। उत्पुट। कुम्भ। विधान। सुदक्ष। सुदत्त। सुभूत। सुनेत्र। सुपिङ्गल। सिकता। पूतीकी। पूलस। कूलास। पलाश। निवेश। गवेष। गम्भीर। इतर। शर्मन्। अहन्। लोमन्। वेमन्। वरुण। बहुल। सद्योज। अभिषिक्त। गोभृत्। राजभृत्। गृह। भृत। भल्ल। माल। वृत्। कानिचन उदाहरणानि - 1. सङ्कलेन निर्वृत्तः देशः = सङ्कल + अञ् → साङ्कलः देशः । 2. पुष्कलेन निर्वृत्तः देशः = पुष्कल + अञ् → पौष्कलः देशः । 3. उडुपेन निर्वृत्तः देशः = उडुप + अञ् → औडुपः देशः ।
<<संकलादिभ्यश्च>> - सङ्कलादिभ्यश्च । निवृत्तमिति । व्याख्यानादिति भावः । अणोऽपवादः । पौष्कलमिति । पुष्कलेन निर्वृत्तमिति विग्रहः ।