4-2-49 पाशादिभ्यः यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
तस्य समूहः (इति) पाशादिभ्यः यः
पाशादिगणस्य शब्दानां विषये 'तस्य समूहः' अस्मिन् अर्थे य-प्रत्ययः भवति ।
The words of पाशादिगण get the प्रत्यय 'य' in the meaning of 'तस्य समूहः'
पाशादिभ्यो यः प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। पाशानां समूहः पाश्या। तृण्या॥ पाश। तृण। धूम। वात। अङ्गार। पोत। बालक। पिटक। पिटाक। शकट। हल। नड। वन॥
पाश्या । तृण्या । धूम्या । वन्या । वात्या ॥
पाशादिगणस्य शब्देभ्यः <<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे 'य' प्रत्ययः भवति । एते सर्वे शब्दाः प्रयोगवशात् स्त्रीलिङ्गे एव प्रयुज्यन्ते, अतः स्त्रीत्वं द्योतयितुम् एतेषाम् टाप्-प्रत्ययः अपि भवति । पाशादिगणः अयम् - पाश, तृण, धूम, वात, अङ्गार, पोत, बालक, पिटक, पिटाक, शकट, हल, नड, वन । यथा - 1. पाशानां समूहः पाश्या । 2. तृणानां समूहः तृण्या । 3. धूमानां समूहः धूम्या । 4. वातानां समूहः वात्या । 5. अङ्गाराणां समूहः अङ्गार्या । 6. पोतानां समूहः पोत्या । 7. बालकानां समूहः बालक्या । 8. पिटकानां समूहः पिटक्या । 9. पिटाकानां समूहः पिटाक्या । 10. शकटानां समूहः शकट्या । 11. हलानां समूहः हल्या । 12. नडानां समूहः नड्या । 13. वनानां समूहः वन्या । एतेषु सर्वेषु प्रक्रियायाम् <<यस्येति च>> 6.4.148 इत्यनेन अन्तिमवर्णलोपं कृत्वा अग्रे स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययं योजयित्वा अन्तिमं रूपं सिद्ध्यति ।
<<पाशादिभ्यो यः>> - पाशादिभ्यो यः । समूह इत्येव । पाश्येत्यादि । पाशानां, तृणानां, धूमानां, वनानां, वातानां च समूह इति विग्रहः । स्त्रीत्वं लोकात् ।