4-2-40 केदारात् यञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः
index: 4.2.40 sutra: केदाराद्यञ् च
तस्य समूहः (इति) केदारात् वुञ् यञ् च
index: 4.2.40 sutra: केदाराद्यञ् च
'तस्य समूहः' अस्मिन् अर्थे केदार-शब्दात् यञ् तथा वुञ् प्रत्ययौ भवतः ।
index: 4.2.40 sutra: केदाराद्यञ् च
केदारशब्दाद् यञ् प्रत्ययो भवति, चकाराद् वुञ् च, तस्य समूहः इत्येतस्मिन् विषये। अचित्तलक्षनस्य ठकः अपवादः। केदाराणाम् समूहः कैदार्यम्, कैदारकम्। गणिकायाश्च यज् वक्तव्यः। गनिकानां समूहः गाणिक्यम्।
index: 4.2.40 sutra: केदाराद्यञ् च
चाद्वुञ् । कैदार्यम् । कैदारकम् ॥<!गणिकाया यञिति वक्तव्यम् !> (वार्तिकम्) ॥ गाणिक्यम् ॥
index: 4.2.40 sutra: केदाराद्यञ् च
तस्य समूहः 4.2.37 अस्मिन् अर्थे 'केदाराणाम् समूहः' इति स्थिते वुञ् तथा यञ् प्रत्ययौ विधीयेते । यथा -
केदार + वुञ् → कैदारक ।
केदार + यञ् → कैदार्य ।
अत्र एकं वार्त्तिकं पाठ्यते - <!गणिकाया 'यञ्' इति वक्तव्यम् !> । इत्युक्ते, गणिका-शब्दात् समूहार्थे यञ्-प्रत्ययः भवति । गणिकानां समूहः = गणिका + यञ् → गाणिक्यम् ।
index: 4.2.40 sutra: केदाराद्यञ् च
केदाराद्यञ् च - केदराद्यञ् च । कैदार्यम्-कैदारकमिति । केदाराणां समूह इति विग्रहः ।गणिकाया यञ् । यञ्ग्रहणाद्वुञो निवृत्तिः । गाणिक्यमिति । गणिकानां समूह इति विग्रहः ।