4-1-162 अपत्यं पौत्रप्रभृति गोत्रम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
पौत्रप्रभृति अपत्यम् गोत्रम्
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
पौत्रप्रभृतीनि अपत्यानि गोत्रसंज्ञकानि भवन्ति ।
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
पौत्रप्रभृति यदपत्यं तद् गोत्रसंज्ञं भवति। सम्बन्धिशब्दत्वादपत्यशब्दस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्य अपत्यं पौत्रप्रभृति गार्ग्यः। वात्स्यः। अपत्यम् इति व्यपदेशोऽयं पौत्रप्रभृतेः। पौत्रप्रभृतीति किम्? अन्यस्य मा भूत्। कौञ्जिः। गार्गिः। गोत्रप्रदेशाः एको गोत्रे 4.1.93 इत्येवमादयः।
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
अनेन सूत्रेण अपत्याधिकारविशिष्टा 'गोत्र' इति संज्ञा पाठ्यते । पौत्रप्रभृतिः यद् अपत्यं, तद् 'गोत्र'संज्ञं भवति - इति अस्य सूत्रस्य आशयः । 'पौत्रप्रभृति' इत्युक्ते पौत्रात् आरभ्य अग्रिमः वंशः - पौत्रः, प्रपौत्रः, प्रप्रपौत्रः - आदयः ।
उदाहरणमेकं पश्यामश्चेत् स्पष्टं भवेत् - पाण्डोः पुत्रः अर्जुनः । अर्जुनस्य पुत्रः अभिमन्युः । इत्युक्ते , अभिमन्युः पाण्डोः 'पौत्रः' । अतः अभिमन्युः पाण्डोः 'गोत्रापत्यम्' इत्यपि वक्तुं शक्यते (गोत्रसंज्ञकः यः, तस्य 'गोत्रापत्यम्' इति निर्देशः भवति) ।
अभिमन्योः पुत्रः परीक्षितः, सः पाण्डोः प्रपौत्रः, अतः सः अपि पाण्डोः गोत्रापत्यमेव । तथैव, परीक्षितस्य पुत्रः जनमेजयः अपि पाण्डोः गोत्रापत्यमेव । जनमेजयः तु अर्जुनस्य अभिमन्योः अपि गोत्रापत्यम् ।
'गोत्र'संज्ञायाः विषये केचन बिन्दवः ज्ञातव्यः ।
यत् 'साक्षात्' अपत्यम्, तस्य गोत्रसंज्ञा न भवति । यथा, अर्जुनः पाण्डोः गोत्रापत्यम् न । तथैव, अभिमन्युः अर्जुनस्य गोत्रापत्यम् न । एतादृशं यत् 'साक्षात्' अपत्यम्, तस्य 'अनन्तरापत्यम्' इति काचन संज्ञा व्याख्यानेषु दीयते । अतः 'अर्जुनः पाण्डोः अनन्तरापत्यम्' इत्युच्यते । तथैव, अभिमन्युः अर्जुनस्य 'अनन्तरापत्यम्' । 'यत् साक्षात् अपत्यमस्ति, तत् अनन्तरापत्यम्; यत् पौत्रादयमपत्यम् , तत् गोत्रापत्यम्' इति अस्य आशयः ।
स्वस्य 'साक्षात् अपत्यस्य पुत्रादयः' एव गोत्रसंज्ञकाः भवन्ति, स्वस्य बन्धोः भगिन्याः वा पुत्रादयः न । यथा, अभिमन्योः पुत्रः परीक्षितः सुभद्रायाः गोत्रापत्यमवश्यमस्ति, परन्तु कृष्णस्य गोत्रापत्यम् न, यतः सः कृष्णस्य स्वस्य पौत्रः नास्ति, अपितु कृष्णस्य भगिन्याः पौत्रः अस्ति ।
कासुचन स्थितिषु 'गोत्रापत्यम्' इमां संज्ञां बाधित्वा 'युवापत्यम्' इति काचन संज्ञा विधीयते । अस्मिन् विषये जीवति तु वंशे युवा 4.1.163 इति अग्रिमसूत्रे विस्तारेण उक्तमस्ति ।यत्र एतादृशी 'युवा'संज्ञा भवति तत्र 'गोत्र'संज्ञायाः बाधः भवति । यथा, परीक्षिते जीविते सति जनमेजयः पाण्डोः 'युवापत्यम्' अस्ति इत्युच्यते । अस्याम् स्थितौ जनमेजयः पाण्डोः गोत्रापत्यम् नास्तीति स्मर्तव्यम् ।
'गोत्र'संज्ञायाः प्रयोगः एको गोत्रे 4.1.93 तथा गोत्राद्यून्यस्त्रियाम् 4.1.94 इत्यत्र कृतः अस्ति ।
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
अपत्यं पौत्रप्रभृति गोत्रम् - अपत्यम् । अपत्याधिकारात्सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह — अपत्यत्वेन विवक्षितमिति । एवंच पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ॑ इति कोशतो गोत्रशब्दस्य सन्ततिवाचकत्वात्पुत्रस्यापि गोत्रत्वे प्राप्ते प्रौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननुआत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॑ इत्यादिकोशादपत्यशब्दस्य पुत्र एव रूढत्वात्कथमम्अपत्यं पौत्रप्रभृती॑ति सामानाधिकरण्यमिति चेत्, मैवम् — अपत्यशब्दो हि नात्मजपर्यायः किंतु पुत्रपौत्रादिसंततिपर्यायः,न पतन्ति नकरे पितरो येन तदपत्य॑मितिपङ्क्तिविंशती॑ति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति 'एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वादुपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यं, यस्य यः पौत्रादिस्तस्य तद्गोत्रमिति व्याख्यानादित्यलम् ।
index: 4.1.162 sutra: अपत्यं पौत्रप्रभृति गोत्रम्
तद्गोत्रसंज्ञं भवतीति । अपत्यमात्रस्य लोके गोत्रत्वादपत्यविशेषे गोत्रशब्दस्य नियमात्परिभाषेयं युक्ता, न संज्ञेति चेत् ? न; लिङ्गवती परिभाषा भवति, यथा - ठिको गुणवृद्धीऽ इति, विध्यन्तरशेषभूता वा, यथा -'विप्रतिषेधे परं कार्यम्' इति, न चेयं तथा; किञ्च वृद्ध्यादयोऽपि सर्वार्थप्रत्यायनयोग्याः संज्ञिविशेषे शक्त्यवच्छेदेन नियम्यन्ते । अथ च ताः संज्ञास्तथेयमपि भविष्यति । उक्तं च - व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥ वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत् ॥ इति । यदि पौत्रप्रभृतेरपत्यस्य गोत्रसंज्ञा क्रियते, गर्गस्यापि प्राप्नोति, सोऽपि कञ्चित्प्रति पौत्रो भवत्येव, तत्र को दोषः ?'गोत्राद्यौउन्यस्त्रियाम्' इति यूनि प्रत्ययप्रसङ्गः, गार्ग्यादेव तु यूनीष्यते ? नैष दोषः; इहापत्यग्रहणं न कर्तव्यम्, पौत्रस्यापत्यत्वातत्प्रभृतेरपत्यस्यैव ग्रहणं सिद्धम्, तत् क्रियते - अपत्यरूपेण प्रतिभासामानस्य यथा स्यात्, वस्तुतोऽपत्यस्य मा भूदित्येवमर्थम् । अतोऽपत्यरूपेण प्रतिभासमानस्य गर्गस्य न भविष्यति । ननु चासत्यप्यपत्यग्रहणे पौत्रप्रभृतिरूपेण प्रतिभासमानस्य संज्ञाया विज्ञानातेन रूपेणाप्रतिभासमानस्य मर्गस्य न भविष्यतीति किमपत्यग्रहणेन ! यद्येवम्, औपगवस्यापि न स्यात्, सोऽपि ह्यपत्यरूपेण प्रतिभासते, न तु पौत्रप्रभृतिरूपेण, अपत्यमात्रे प्रत्ययविधानाद् गार्ग्यादेरेव तु स्याद् - यत्र गोत्र एव प्रत्ययः । कुतश्चायमर्थो लभ्यते - पौत्रप्रभृतिरूपेण प्रतिभासमानस्येति ? तद्ग्रहणसामर्थ्यादिति चेत्, सर्वस्यापि यत्किञ्चित्प्रतिवस्तुतः पौत्रप्रभृतित्वाव्यभिचारात् पौत्रप्रभृतिग्रहणं न कर्तव्यं भवति । तद्ग्रहणसामर्थ्यादयमर्थो लभ्यत इति ? तन्न; संज्ञिनिर्देशार्थत्वादचेतनव्यावृत्यर्थत्वाच्च ।'गोत्रम्' इत्येतावति ह्युक्ते कस्य संज्ञा स्यात्, रथादीनां च वस्तुतोऽपि पौत्रप्रभृतित्वं नास्ति । अतो वस्तुतः पौत्रप्रभृतेर्गर्गस्य मा भूत्, अपत्यरूपेण प्रतिभासमानस्य यथा स्यादित्येवमर्थं त्वपत्यग्रहणं कर्तव्यम् । सम्बन्धिशब्दत्वाच्च पौत्रप्रभृत्यपत्यशब्दयोर्यं प्रति पौत्रप्रभृतित्वमपत्यत्वं च तमेव प्रति गोत्रसंज्ञा विज्ञायते । तेनाङ्गिरसः पौत्रे गर्गस्यानन्तरे न भवति'गर्गादिभ्यो यञ्' । तदेतत्सर्वमुक्तम् । सम्बन्धिशब्दत्वादित्यादि । यस्य यदपत्यमिति । प्रतिभासत इति भावः । तदयमत्र सूत्रार्थः - वस्तुतः पौत्रप्रभृतिरपत्यरूपेणं प्रतिभासमानोऽर्थो यं प्रत्यपत्यरूपेण प्रतिभासते यं च प्रति वस्तुतः पौत्रप्रभृतिः, तं प्रति गोत्रसंज्ञ इति । अपत्यमिति व्यपदेशायेति । संज्ञिन इति शेषः । अपत्यरूपेण प्रतिभासमानस्य संज्ञिनो व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । इह कस्मान्न भवति - गर्गापत्यस्य तृतीयादेरपत्यमिति, अत्र हि गर्गापत्यशब्देन गर्गं प्रत्यपत्यरूपेण प्रतिभासमानस्य वस्तुतः पौत्रप्रभृतेर्गर्गं प्रति गोत्रसंज्ञायां सत्यां गर्गस्य चतुर्थे जीवद्वंश्ये'गोत्राद्यौउनि' इति गर्गापत्यशब्दात्प्रत्ययः प्राप्नोति ? नैष दोषः; संज्ञाप्रकरण एवास्मिन्कर्तव्येऽपत्यप्रत्ययेषु विधीयमानेषु मध्ये संज्ञाकरणं प्रत्ययवाच्यस्यापत्यस्य परिग्रहार्थम् । यदिदं'तस्यापत्यम्' इत्यारभ्य प्रत्ययार्थत्वेन निर्दिष्टमपत्यं तद्गोत्रसंज्ञमिति, तेनापत्यशब्देन प्रतिभासमानस्यापत्यस्य संज्ञा न भविष्यति । ननु च'ते तद्राजाः' इत्यत्र तच्छब्देनाजादीनामेव परिग्रहो यथा स्यात्पूर्वेषां मा भूदिति मध्ये संज्ञाकरणं स्यात् । यद्येतावत्प्रयोजनं स्याद्, ठञादयस्तद्राजाःऽ इत्येव ब्रूयात्, तस्मादुक्तमेव साक्षात्प्रयोजनमस्मिन् प्रकरणे संज्ञाकरणस्य । स्थिते त्वेवमुक्तमपि प्रयोजनं भवत्येव, अत एव तत्र वक्ष्यति - गोत्रयुवसंज्ञा काण्डेन व्यवहितत्वादिति ॥