अपत्यं पौत्रप्रभृति गोत्रम्

4-1-162 अपत्यं पौत्रप्रभृति गोत्रम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

पौत्रप्रभृति अपत्यम् गोत्रम्

Neelesh Sanskrit Brief

Up

पौत्रप्रभृतीनि अपत्यानि गोत्रसंज्ञकानि भवन्ति ।

Kashika

Up

पौत्रप्रभृति यदपत्यं तद् गोत्रसंज्ञं भवति। संबन्धिशब्दत्वादपत्यशब्दस्य यस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसंज्ञा विधीयते। गर्गस्यापत्यं पौत्रप्रभृति गार्ग्यः। वात्स्यः। अपत्यमिति व्यपदेशाय पौत्रप्रभृतेः। पौत्रप्रभृतीति किम् ? अन्यस्य मा भूत् — कौञ्जिः। गार्गिः। गोत्रप्रदेशाः — <<एको गोत्रे>> ४.१.९३ इत्येवमादयः॥

Siddhanta Kaumudi

Up

अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंज्ञं स्यात् ॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण अपत्याधिकारविशिष्टा 'गोत्र' इति संज्ञा पाठ्यते । पौत्रप्रभृतिः यद् अपत्यं, तद् 'गोत्र'संज्ञं भवति - इति अस्य सूत्रस्य आशयः । 'पौत्रप्रभृति' इत्युक्ते पौत्रात् आरभ्य अग्रिमः वंशः - पौत्रः, प्रपौत्रः, प्रप्रपौत्रः - आदयः । उदाहरणमेकं पश्यामश्चेत् स्पष्टं भवेत् - पाण्डोः पुत्रः अर्जुनः । अर्जुनस्य पुत्रः अभिमन्युः । इत्युक्ते , अभिमन्युः पाण्डोः 'पौत्रः' । अतः अभिमन्युः पाण्डोः 'गोत्रापत्यम्' इत्यपि वक्तुं शक्यते (गोत्रसंज्ञकः यः, तस्य 'गोत्रापत्यम्' इति निर्देशः भवति) । अभिमन्योः पुत्रः परीक्षितः, सः पाण्डोः प्रपौत्रः, अतः सः अपि पाण्डोः गोत्रापत्यमेव । तथैव, परीक्षितस्य पुत्रः जनमेजयः अपि पाण्डोः गोत्रापत्यमेव । जनमेजयः तु अर्जुनस्य अभिमन्योः अपि गोत्रापत्यम् । 'गोत्र'संज्ञायाः विषये केचन बिन्दवः ज्ञातव्यः । 1. यत् 'साक्षात्' अपत्यम्, तस्य गोत्रसंज्ञा न भवति । यथा, अर्जुनः पाण्डोः गोत्रापत्यम् न । तथैव, अभिमन्युः अर्जुनस्य गोत्रापत्यम् न । एतादृशं यत् 'साक्षात्' अपत्यम्, तस्य 'अनन्तरापत्यम्' इति काचन संज्ञा व्याख्यानेषु दीयते । अतः 'अर्जुनः पाण्डोः अनन्तरापत्यम्' इत्युच्यते । तथैव, अभिमन्युः अर्जुनस्य 'अनन्तरापत्यम्' । 'यत् साक्षात् अपत्यमस्ति, तत् अनन्तरापत्यम्; यत् पौत्रादयमपत्यम् , तत् गोत्रापत्यम्' इति अस्य आशयः । 2. स्वस्य 'साक्षात् अपत्यस्य पुत्रादयः' एव गोत्रसंज्ञकाः भवन्ति, स्वस्य बन्धोः भगिन्याः वा पुत्रादयः न । यथा, अभिमन्योः पुत्रः परीक्षितः सुभद्रायाः गोत्रापत्यमवश्यमस्ति, परन्तु कृष्णस्य गोत्रापत्यम् न, यतः सः कृष्णस्य स्वस्य पौत्रः नास्ति, अपितु कृष्णस्य भगिन्याः पौत्रः अस्ति । 3. कासुचन स्थितिषु 'गोत्रापत्यम्' इमां संज्ञां बाधित्वा 'युवापत्यम्' इति काचन संज्ञा विधीयते । अस्मिन् विषये <<जीवति तु वंशे युवा>> 4.1.163 इति अग्रिमसूत्रे विस्तारेण उक्तमस्ति ।यत्र एतादृशी 'युवा'संज्ञा भवति तत्र 'गोत्र'संज्ञायाः बाधः भवति । यथा, परीक्षिते जीविते सति जनमेजयः पाण्डोः 'युवापत्यम्' अस्ति इत्युच्यते । अस्याम् स्थितौ जनमेजयः पाण्डोः गोत्रापत्यम् नास्तीति स्मर्तव्यम् । 'गोत्र'संज्ञायाः प्रयोगः <<एको गोत्रे>> 4.1.93 तथा <<गोत्राद्यून्यस्त्रियाम्>> 4.1.94 इत्यत्र कृतः अस्ति ।

Balamanorama

Up

<<अपत्यं पौत्रप्रभृति गोत्रम्>> - अपत्यम् । अपत्याधिकारात्सिद्धे पुनरपत्यग्रहणं व्यर्थमित्यत आह — अपत्यत्वेन विवक्षितमिति । एवंच पौत्रत्वादिना विवक्षितानां पौत्रादीनां न गोत्रसंज्ञेति भावः ।सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ॑ इति कोशतो गोत्रशब्दस्य सन्ततिवाचकत्वात्पुत्रस्यापि गोत्रत्वे प्राप्ते प्रौत्रादिग्रहणादिह शास्त्रे पुत्रस्य न गोत्रत्वम् । ननुआत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे॑ इत्यादिकोशादपत्यशब्दस्य पुत्र एव रूढत्वात्कथमम्अपत्यं पौत्रप्रभृती॑ति सामानाधिकरण्यमिति चेत्, मैवम् — अपत्यशब्दो हि नात्मजपर्यायः किंतु पुत्रपौत्रादिसंततिपर्यायः,न पतन्ति नकरे पितरो येन तदपत्य॑मितिपङ्क्तिविंशती॑ति सूत्रे भाष्ये व्युत्पादितत्वात् । तथा च पौत्रादयोऽपि पितामहादीनां नरकादुद्धर्तार इति तेषामप्यपत्यत्वमस्त्येवेति 'एको गोत्रे' इति सूत्रभाष्ये स्पष्टम् । एतच्च महाभारतादौ जरत्कार्वाद्युपाख्यानेषु प्रसिद्धमेव । कोशस्तु सूत्रभाष्यादिविरुद्धत्वादुपेक्ष्य एव । न चैवमपि गर्गस्य पुत्रोऽपि अङ्गिरसः पौत्रत्वाद्गोत्रं स्यादिति वाच्यं, यस्य यः पौत्रादिस्तस्य तद्गोत्रमिति व्याख्यानादित्यलम् ।

Padamanjari

Up

तद्गोत्रसंज्ञं भवतीति । अपत्यमात्रस्य लोके गोत्रत्वादपत्यविशेषे गोत्रशब्दस्य नियमात्परिभाषेयं युक्ता, न संज्ञेति चेत् ? न; लिङ्गवती परिभाषा भवति, यथा - ठिको गुणवृद्धीऽ इति, विध्यन्तरशेषभूता वा, यथा -'विप्रतिषेधे परं कार्यम्' इति, न चेयं तथा; किञ्च वृद्ध्यादयोऽपि सर्वार्थप्रत्यायनयोग्याः संज्ञिविशेषे शक्त्यवच्छेदेन नियम्यन्ते । अथ च ताः संज्ञास्तथेयमपि भविष्यति । उक्तं च - व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥ वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत् ॥ इति । यदि पौत्रप्रभृतेरपत्यस्य गोत्रसंज्ञा क्रियते, गर्गस्यापि प्राप्नोति, सोऽपि कञ्चित्प्रति पौत्रो भवत्येव, तत्र को दोषः ?'गोत्राद्यौउन्यस्त्रियाम्' इति यूनि प्रत्ययप्रसङ्गः, गार्ग्यादेव तु यूनीष्यते ? नैष दोषः; इहापत्यग्रहणं न कर्तव्यम्, पौत्रस्यापत्यत्वातत्प्रभृतेरपत्यस्यैव ग्रहणं सिद्धम्, तत् क्रियते - अपत्यरूपेण प्रतिभासामानस्य यथा स्यात्, वस्तुतोऽपत्यस्य मा भूदित्येवमर्थम् । अतोऽपत्यरूपेण प्रतिभासमानस्य गर्गस्य न भविष्यति । ननु चासत्यप्यपत्यग्रहणे पौत्रप्रभृतिरूपेण प्रतिभासमानस्य संज्ञाया विज्ञानातेन रूपेणाप्रतिभासमानस्य मर्गस्य न भविष्यतीति किमपत्यग्रहणेन ! यद्येवम्, औपगवस्यापि न स्यात्, सोऽपि ह्यपत्यरूपेण प्रतिभासते, न तु पौत्रप्रभृतिरूपेण, अपत्यमात्रे प्रत्ययविधानाद् गार्ग्यादेरेव तु स्याद् - यत्र गोत्र एव प्रत्ययः । कुतश्चायमर्थो लभ्यते - पौत्रप्रभृतिरूपेण प्रतिभासमानस्येति ? तद्ग्रहणसामर्थ्यादिति चेत्, सर्वस्यापि यत्किञ्चित्प्रतिवस्तुतः पौत्रप्रभृतित्वाव्यभिचारात् पौत्रप्रभृतिग्रहणं न कर्तव्यं भवति । तद्ग्रहणसामर्थ्यादयमर्थो लभ्यत इति ? तन्न; संज्ञिनिर्देशार्थत्वादचेतनव्यावृत्यर्थत्वाच्च ।'गोत्रम्' इत्येतावति ह्युक्ते कस्य संज्ञा स्यात्, रथादीनां च वस्तुतोऽपि पौत्रप्रभृतित्वं नास्ति । अतो वस्तुतः पौत्रप्रभृतेर्गर्गस्य मा भूत्, अपत्यरूपेण प्रतिभासमानस्य यथा स्यादित्येवमर्थं त्वपत्यग्रहणं कर्तव्यम् । सम्बन्धिशब्दत्वाच्च पौत्रप्रभृत्यपत्यशब्दयोर्यं प्रति पौत्रप्रभृतित्वमपत्यत्वं च तमेव प्रति गोत्रसंज्ञा विज्ञायते । तेनाङ्गिरसः पौत्रे गर्गस्यानन्तरे न भवति'गर्गादिभ्यो यञ्' । तदेतत्सर्वमुक्तम् । सम्बन्धिशब्दत्वादित्यादि । यस्य यदपत्यमिति । प्रतिभासत इति भावः । तदयमत्र सूत्रार्थः - वस्तुतः पौत्रप्रभृतिरपत्यरूपेणं प्रतिभासमानोऽर्थो यं प्रत्यपत्यरूपेण प्रतिभासते यं च प्रति वस्तुतः पौत्रप्रभृतिः, तं प्रति गोत्रसंज्ञ इति । अपत्यमिति व्यपदेशायेति । संज्ञिन इति शेषः । अपत्यरूपेण प्रतिभासमानस्य संज्ञिनो व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । इह कस्मान्न भवति - गर्गापत्यस्य तृतीयादेरपत्यमिति, अत्र हि गर्गापत्यशब्देन गर्गं प्रत्यपत्यरूपेण प्रतिभासमानस्य वस्तुतः पौत्रप्रभृतेर्गर्गं प्रति गोत्रसंज्ञायां सत्यां गर्गस्य चतुर्थे जीवद्वंश्ये'गोत्राद्यौउनि' इति गर्गापत्यशब्दात्प्रत्ययः प्राप्नोति ? नैष दोषः; संज्ञाप्रकरण एवास्मिन्कर्तव्येऽपत्यप्रत्ययेषु विधीयमानेषु मध्ये संज्ञाकरणं प्रत्ययवाच्यस्यापत्यस्य परिग्रहार्थम् । यदिदं'तस्यापत्यम्' इत्यारभ्य प्रत्ययार्थत्वेन निर्दिष्टमपत्यं तद्गोत्रसंज्ञमिति, तेनापत्यशब्देन प्रतिभासमानस्यापत्यस्य संज्ञा न भविष्यति । ननु च'ते तद्राजाः' इत्यत्र तच्छब्देनाजादीनामेव परिग्रहो यथा स्यात्पूर्वेषां मा भूदिति मध्ये संज्ञाकरणं स्यात् । यद्येतावत्प्रयोजनं स्याद्, ठञादयस्तद्राजाःऽ इत्येव ब्रूयात्, तस्मादुक्तमेव साक्षात्प्रयोजनमस्मिन् प्रकरणे संज्ञाकरणस्य । स्थिते त्वेवमुक्तमपि प्रयोजनं भवत्येव, अत एव तत्र वक्ष्यति - गोत्रयुवसंज्ञा काण्डेन व्यवहितत्वादिति ॥