कालेभ्यो भववत्

4-2-34 कालेभ्यः भववत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता

Sampurna sutra

Up

'सा अस्य देवता' (इति) कालेभ्यः भववत्

Neelesh Sanskrit Brief

Up

'तत्र भव' अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः विधीयन्ते, ते एव 'सा अस्य देवता' अस्मिन् अर्थे अपि विधीयन्ते ।

Neelesh English Brief

Up

For the कालवाची words, the same प्रत्यय that is provided for the meaning 'तत्र भवः' comes for the meaning 'सा अस्य देवता' as well.

Kashika

Up

कालविशेषवाचिभ्यो शब्देभ्यो भववत् प्रत्यया भवन्ति सास्य देवतेत्यस्मिन् विषये। <<कालाट् ठञ्>> ४.३.११ इति प्रकरणे भवे प्रत्यया विधास्यन्ते, ते सास्य देवतेत्यस्मिन्नर्थे तथैवेष्यन्ते, तदर्थमिदमुच्यते। वत्करणं सर्वसादृश्यपरिग्रहार्थम्। मासे भवं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्। तथा मासो देवतास्य मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। वासन्तम्। प्रावृषेण्यम्॥

Siddhanta Kaumudi

Up

मासिकम् । प्रावृषेण्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तत्र भवः>> 4.3.53 इति कश्चन प्राग्दीव्यतीय-अर्थः । अस्मिन् अर्थे कालवाचिभ्यः प्रातिपदिकेभ्यः ये प्रत्ययाः उक्ताः सन्ति, ते एव <<सा अस्य देवता>> 4.3.24 अस्मिन् अर्थे अपि तेभ्यः भवन्ति । यथा - 1. मास-शब्दात् <<तत्र भवः>> 4.3.53 इत्यस्मिन् अर्थे <<कालात् ठञ्>> 4.3.11 इत्यनेन ठञ्-प्रत्ययः भवति । अतः <<सा अस्य देवता>> 4.3.24 अस्मिन् अर्थे अपि मास-शब्दात् ठञ्-प्रत्ययः एव करणीयः । मासः अस्य देवता सः = मास + ठञ् → मासिकः । 2. 'वसन्त' (ऋतोः नाम) अयमपि कालवाची शब्दः । अस्मात् शब्दात् <<संधिवेलाद्यृतुनक्षत्रेभ्योऽण्>> 4.3.16 अनेन सूत्रेण <<तत्र भवः>> 4.3.53 इत्यस्मिन् अर्थे अण्-प्रत्ययः दीयते । अतः <<सा अस्य देवता>> 4.3.24 अस्मिन् अर्थे अपि वसन्त-शब्दात् अण्-प्रत्ययः एव करणीयः । वसन्तः अस्य देवता सः = वसन्त + अण् → वासन्तः । 3. 'प्रावृष्' (वर्षाऋतुः) अस्मात् कालवाचीशब्दात् <<प्रावृष एण्यः>> 4.3.17 इत्यनेन <<तत्र भवः>> 4.3.53 इत्यस्मिन् अर्थे एण्य-प्रत्ययः उक्तः अस्ति । अतः <<सा अस्य देवता>> 4.3.24 अस्मिन् अर्थे अपि प्रावृष्-शब्दात् एण्य-प्रत्ययः एव करणीयः । प्रावृट् अस्य देवता सः = प्रावृषेण्यः । ज्ञातव्यम् - एतत् सूत्रम् 'अतिदेशसूत्रम्' अस्ति, यतः अन्यसूत्रस्य विधानं कृत्वा तादृशमेव कार्यमत्रापि उक्तमस्ति ।

Balamanorama

Up

<<कालेभ्यो भववत्>> - कालेभ्यो भववत् । कालवाचिभ्यो भवेऽर्थे येन विशेषणेन ये प्रत्यया वक्षयन्ते, तेसाऽस्य देवते॑त्यर्थे कालवाचिभ्यस्तेनैव विशेषणेन भवन्तीत्यर्थः । मासिकमिति । मासो देवता अस्येति विग्रहः । कालाट्ठञ् । प्रावृषेण्यमिति । प्रावृट् देवता अस्येति विग्रहः ।प्रावृष एण्यः॑ ।

Padamanjari

Up

कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । वत्कारणमित्यादि । असति वत्करणे'कालेभ्यो भवः' इत्युच्यमाने यदि तावदेवं सम्बन्धः, कालेभ्यो भवे ये प्रत्यया विधास्यन्ते ते'सास्य देवता' इत्यत्रार्थे भवन्तीति देवताप्रकृतिरविशेषिता स्यात्, ततश्च'कालट्ठञ्' इति ठञिन्द्रादेरपि प्राप्नोति । अथ पुनरेवं सम्बन्धः - भवे ये प्रत्यया विधास्यन्ते ते भवन्ति कालेभ्यो देवताभ्य इति ? एवमपि भवप्रत्यया न विशेषिताः स्युः, ततश्च'दिगादिभ्यो यत्' इति यत् प्रत्ययोऽपि भवे विहितः कालवाचिभ्योऽस्मिन्नर्थे प्राप्नोति । अथाप्येवं सम्बन्धः - कालेभ्यो भवे ये प्रत्ययास्ते भवन्ति, कालेभ्य एव देवतार्थे इति तत्र सकृत् श्रुतस्य तस्य कालशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः । अथापि लभ्येत, एवमपि यः कश्चित्कालाद्भवे प्रत्ययो यतः कुतश्चिदेवतायाः स्याद् ऋतुभ्योऽण् मुहूर्तादेरपि प्राप्नोति । वतिनिर्देशे तु सति सादृश्यपरिग्रहो भवति, तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन भवेऽर्थे विधास्यन्ते ये प्रत्ययाः, इहापि ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टम् ॥