4-3-17 प्रावृषः एण्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कालाट्
index: 4.3.17 sutra: प्रावृष एण्यः
प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। प्रावृषेण्यः बलाहकः।
index: 4.3.17 sutra: प्रावृष एण्यः
प्रावृषेण्यः ॥
index: 4.3.17 sutra: प्रावृष एण्यः
प्रावृषेण्यः॥
index: 4.3.17 sutra: प्रावृष एण्यः
प्रावृष एण्यः - प्रावृष एण्यः । ऋत्वणोऽपवादः । प्रावृषेण्य इति । प्रावृट्-वर्पर्तुः । तत्र भवादिरित्यर्थः । जाते तु ठब् वक्ष्यते । प्रक्रियालाघवार्थं णकारोच्चारणम् ।
index: 4.3.17 sutra: प्रावृष एण्यः
प्रवर्पतीति प्रावृट्, क्विपि'नहिवृत्ति' इत्यादिना दीर्घः । प्रावृषेण्य इति । भवार्थे प्रत्ययः, जाते तु प्रावृषष्ठपं वक्ष्यति । रषाभ्याम्ऽ इत्येव सिद्धे प्रत्यये णकारोच्चारणम् - प्रावृषेण्यमाचष्टे प्रावृषेण्ययतेः क्विप्, णिलोपः,'लोपो व्योर्वलि' इति यलोपः, प्रावृषेणित्यत्र णत्वार्थम् ; अन्यथा'पदान्तस्य' इति प्रतिषेधः स्यात् ॥