4-2-35 महार्जप्रोष्ठपदात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता
'सा अस्य देवता' (इति) महाराज-प्रोष्ठपदात् ठञ्
'सा अस्य देवता' अस्मिन् अर्थे 'महाराज' शब्दात् तथा 'प्रोष्ठपद' शब्दात् ठञ् प्रत्ययः भवति ।
The words 'महाराज' and 'प्रोष्ठपद' get the प्रत्यय ठञ् in the meaning of 'सा अस्य देवता'.
महाराजशब्दात् प्रोष्ठपदशब्दात् च ठञ् प्रत्ययो भवति सास्य देवतेत्यस्मिन् विषये। महाराजो देवतास्य माहाराजिकम्। प्रौष्ठपदिकम्॥ ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसंख्यानम्॥ नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः कालः। पाकयज्ञिकः॥ पूर्णमासादण्॥ पूर्णमासोऽस्यां वर्तते पा॒ैर्णमा॒सी॑ (मै०सं० १.६.९) तिथिः॥
माहाराजिकम् । प्रौष्ठपदिकम् ॥
<<सा अस्य देवता>> 4.2.24 अस्मिन् अर्थे 'महाराज'शब्दात् तथा 'प्रोष्ठपद'शब्दात् ठञ्-प्रत्यय भवति । यथा - 1. महाराजः अस्य देवता सः = महाराज + ठञ् → महाराज + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → माहाराज + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → माहाराज् + इक [<<यस्येति च>> 6.4.148 इति कारलोपः] → माहाराजिक 2. प्रोष्ठपदः (भाद्रपदमासस्य अन्यत् नाम) अस्य देवता सः = प्रोष्ठपद + ठञ् → प्रोष्ठपद + इक [<<ठस्येकः>> 7.3.50 इति इक्-आदेशः] → प्रौष्ठपद + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → प्रौष्ठपद् + इक [<<यस्येति च>> 6.4.148 इति अकारलोपः] → प्रौष्ठपदिक
<<महाराजप्रोष्ठपदाट्ठञ्>> - महाराजप्रोष्ठपदाट्ठञ् । माहाराजिकमिति । महाराजो वैश्रवणः, स देवता अस्येति विग्रहः । प्रौष्ठपदिकमिति । प्रोष्ठपदो देवता अस्येति विग्रहः ।
महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः'सास्मिन्पौर्णमासी' इत्यत्रापि दर्शिता ॥