4-2-2 लाक्षारोचनाशकलकर्दमात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन रक्तं रागात्
'तेन रक्तं रागात्' (इति) लाक्षा-रोचना-शकल-कर्दमात् ठक् प्रत्ययः
'रक्तम् रागात्' अस्मिन् अर्थे लाक्षा, रोचना, शकल, तथा कर्दम - एतेभ्यः तृतीयासमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः विधीयते ।
For the word लाक्षा, रोचना, शकल and कर्दम, ठक्-प्रत्ययः is used to indicate the meaning of 'colored by'.
लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। लाक्षया रक्तं वस्त्रं लाक्षिकम्। रौचनिकम्। शाकलिकम्। कार्दमिकम्। शकलकर्दमाभ्यामणपीष्यते॥ शाकलम्। कार्दमम्॥ नील्या अन् वक्तव्यः॥ नील्या रक्तं नीलं वस्त्रम्॥ पीतात् कन् वक्तव्यः॥ पीतेन रक्तं पीतकम्॥ हरिद्रामहारजनाभ्यामञ् वक्तव्यः॥ हारिद्रम्। माहारजनम्॥
लाक्षिकः । रौचनिकः ।<!शकलकर्दमाभ्यामुपसंख्यानम् !> (वार्तिकम्) ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ।<!नील्या अन् !> (वार्तिकम्) ॥ नील्या रक्तं नीलम् । <!पीतात्कन् !> (वार्तिकम्) ॥ पीतकम् ।<!हरिद्रामहारजनाभ्यामञ् !> (वार्तिकम्) ॥ हारिद्रम् । माहारजनम् ॥
'रक्तम् रागात्' अस्मिन् अर्थे औत्सर्गिकरूपेण अण्-प्रत्ययः दत्तः अस्ति । तं बाधित्वा लाक्षा, रोचना, शकल, तथा कर्दम - एतेभ्यः शब्देभ्यः 'ठक्' प्रत्ययस्य विधानमनेन सूत्रेण क्रियते । यथा - 1. लाक्षया रक्तम् = लाक्षा + ठक् → लाक्षिक । (लाक्षा इति रक्तवर्णस्य कश्चन भेदः ।) 2. रोचनया रक्तम् = रोचना + ठक् → रौचनिक । (रोचना इति अपि रक्तवर्णस्य एकः भेदः ।) 3. 'शकल' शब्दस्य विषये अयम् ठक्-प्रत्ययः विकल्पेनैव विधीयते, अतः पक्षे औत्सर्गिकः अण्-प्रत्ययः अपि भवति । यथा - शकलेन रक्तम् = शाकलिकम्, शाकलम् । ('शकल' अयम् कृष्णवर्णस्य कश्चन भेदः ।) 4. 'कर्दम' शब्दस्य विषयेऽपि अयं ठक्-प्रत्ययः विकल्पेन विधीयते, पक्ष च अण्-प्रत्ययः भवति । यथा - कर्दमेन रक्तम् = कार्दमिकम्, कार्दमम् । (कर्दम इत्युक्ते मृत्तिकायाः वर्णः ।) अस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि प्रोक्तानि सन्ति - 1. <!पीतात् कन् वक्तव्यः!> - अनेन वार्त्तिकेन 'पीत' शब्दात् अण्-प्रत्ययं बाधित्वा कन्-प्रत्ययः भवति । पीतेन रक्तम् पीतकम् । 2. <!नील्या अन् वक्तव्यः!> - अनेन वार्त्तिकेन 'नीली' शब्दात् 'रक्तं रागात्' अस्मिन् अर्थे कन्-प्रत्ययः भवति । नील्या रक्तम् नीलम् । ('नीली' अयम् कस्माच्चन वृक्षात् प्राप्तः नीलसदृशः वर्णः) । 3. <!हरिद्रामहारजनाभ्यामञ् वक्तव्यः!> - अनेन वार्त्तिकेन 'हरिद्रा' तथा 'महारजना' एताभ्याम् शब्दाभ्यामञ्-प्रत्ययः भवति । हरिद्रया रक्तम् हारिद्रम् । महारजनेन रक्तम् माहारजनम् । ('महारजन' इत्युक्ते काषायवर्णः) ।
<<लाक्षारोचना (शकलकर्दमा) ट्ठक्>> - लाक्षारोचनाट्ठक् । अमोऽपवादः । लाक्षिक इति । 'पट' इति शेषः । लाक्षया रक्त इति विग्रहः । रौचनिक इति । रोचनया रक्त इति विग्रहः । शाकलिक इति । शकलं — रागद्रव्यविशेषः । वृत्तिरिति । भाष्ये तु नैतद्दृष्टम् । नील्या अनिति । 'वक्तव्य' इति शेषः । अणोऽपवादः । नीली ओषधिविशेषः । ॒पीतात्कन् । अणोऽपवादः । पीतं हरितालकादि द्रव्यम् ।हरिद्रामहेति । अणोऽपवादः । स्वरे विशेषः । हरिद्रा प्रसिद्धा । महारजनं — नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।
शकलकर्दमयोर्वार्तिके दर्शनात्सूत्रे प्रक्षेपः । नील्या इति । ओषधिविशेषो नीलि, अम्बाधनार्थवचनम्, नीलशब्दस्तु गुणशब्दत्वादेव नीलीरक्ते वस्त्रे सिध्यति । पीतादिति । रागविशेषिवाची पीतशब्दः । इदमपि वचनमण्बाधनार्थमेव । स्वार्थिककन्प्रत्ययान्तस्तु पीतकशब्द गुणवचनो वस्त्रे लभ्यते ॥