भ्रातरि च ज्यायसि

4-1-164 भ्रातरि च ज्यायसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अपत्यं पौत्रप्रभृति जीवति युवा

Sampurna sutra

Up

ज्यायसि भ्रातरि जीवति पौत्रप्रभृतेः अपत्यम् युवा

Neelesh Sanskrit Brief

Up

पौत्रप्रभृतेः यद् अपत्यम्, तस्य पित्रादयः जीविताः न सन्ति चेदपि, यदि ज्येष्ठः भ्राता जीवितः अस्ति, तर्हि तस्य गोत्रसंज्ञां बाधित्वा युवसंज्ञा भवति ।

Kashika

Up

भ्रातरि ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति पौत्रप्रभृतेरपत्यम्। गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान् मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसंज्ञो भवति। अवंश्यार्थोऽयमारम्भः। पूर्वजाः पित्रादयो वंश्या इत्युच्यन्ते। भ्राता तु न वंश्यः, अकारणत्वात्। गार्ग्ये जीवति गार्ग्यायणोऽस्य कनीयान् भ्राता। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः॥

Siddhanta Kaumudi

Up

ज्येष्ठे भ्रातरि जीवति कनीयान् चतुर्थादिर्युवा स्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<अपत्यं पौत्रप्रभृति गोत्रम्>> 4.1.162 इत्यनेन पौत्रप्रभृतीनाम् गोत्रसंज्ञायां प्राप्तायाम्, पितप्रभृतिषु यदि कोऽपि जीवितः अस्ति तर्हि पौत्रादीनाम् यद् अपत्यम्, तस्य गोत्रसंज्ञां बाधित्वा <<जीवति तु वंश्ये युवा>> 4.1.163 इत्यनेन 'युवा'संज्ञा भवति । परन्तु यद्यपि पितप्रभृतिषु कोऽपि जीवितः नास्ति, तथापि यदि 'ज्येष्ठभ्राता' जीवितः' अस्ति, तर्हि कनिष्ठभ्रातुः युवासंज्ञा भवति - इति वर्तमानसूत्रस्य आशयः । यथा - शन्तनोः अपत्यम् विचित्रवीर्यः, विचित्रवीर्यस्य अपत्यम् पाण्डुः, पाण्डोः अपत्यम् च अर्जुनः । अतः <<अपत्यं पौत्रप्रभृति गोत्रम्>> 4.1.162 इत्यनेन अर्जुनस्य 'शन्तनोः गोत्रापत्यम्' इति संज्ञा भवितुमर्हति । परन्तु यदि अर्जुनस्य ज्येष्ठः भ्राता (धर्मः भीमः वा) जीवितः अस्ति, तर्हि अर्जुनः 'शन्तनोः युवापत्यमस्ति' इत्येव उच्यते, न हि गोत्रापत्यम् । अत्र केचन बिन्दवः ज्ञातव्याः - 1. यदि वंश्यः (=पित्रादयः) जीवितः अस्ति, तर्हि <<जीवति तु वंश्ये युवा>> 4.1.163 इत्यनेनैव 'युवा'संज्ञा विधीयते, अतः तदर्थम् वर्तमानसूत्रस्य आवश्यकता न । 'यदि सर्वे पित्रादयः मृताः सन्ति, तर्हि पौत्रादीनां यद् अपत्यम् तस्य युवासंज्ञा भवति वा?' इति पृष्टे एव वर्तमानसूत्रस्य प्रयोगः भवितुमर्हति । एतदेव स्पष्टीकर्तुम् काशिकाकारः वदति - 'अवंश्यार्थः अयमारम्भः' ।'वंश्ये कोऽपि जीवितः नास्ति चेदेव अस्य सूत्रस्य प्रयोगः भवति' इत्याशयः । 2. अनेन सूत्रेण 'प्रपौत्रादीनाम्' एव युवसंज्ञा भवितुमर्हति, 'पौत्रस्य' न । अतः, यद्यपि भीमः जीवितः अस्ति, तथापि अर्जुनः विचित्रवीर्यस्य युवापत्यम् न भवितुमर्हति, यतः अर्जुनः विचित्रवीर्यस्य 'पौत्रः' अस्ति, प्रपौत्रः न । 3. . अस्मिन् सूत्रे <<अपत्यं पौत्रप्रभृति गोत्रम्>> 4.1.162 इत्यस्मात् 'पौत्रप्रभृति' इति अनुवर्तते, तत् षष्ठ्या च विपरिणम्यते । अतः 'पौत्रप्रभृतेः' इति प्रयोगः सम्पूर्णसूत्रे क्रियते ।

Balamanorama

Up

<<भ्रातरि च ज्यायसि>> - भ्रातरि च ज्यायसि । जीवतीत्यनुवर्तते । तदाह — ज्येष्ठे भ्रातरि जीवति कनीयानिति । अनुज इत्यर्थः ।पौत्रप्रभृती॑त्यनुवृत्तं षष्ठआविपरिणम्यते । अपत्यमित्यधिकृतम् । पौत्रादेरपत्यमित्यर्थः । फलितमाह — चतुर्थादिरिति । मृतेष्वपि पित्रादिषु ज्येष्ठे भ्रातरि जीवति युवसंज्ञार्थमिदम् ।

Padamanjari

Up

कनीयान् भ्रातेति । भ्रातृज्यायः - शब्दयोः सम्बन्धिशब्दत्वादयमर्थो लभ्यते । अकारणत्वादिति । यः साक्षात्परम्परया वा कारणं भवति, स लोके'वंश्य' इत्युच्यते । गार्ग्ये जीवतीति । ज्यायसि भ्रातरि जीवतीत्यर्थः । एवं वात्स्यायनादावपि द्रष्टव्यम् ॥